"गृहस्थाश्रमः" इत्यस्य संस्करणे भेदः

(लघु) clean up using AWB
पङ्क्तिः १:
द्वितीयो '''गृहस्थाश्रमः''' सर्वेषु आश्रमेषु श्रेष्ठः इति प्रतिपादितं शास्त्रकारैः । यतः अस्मिन् एव आश्रमे धनम् अर्जयित्वा अन्यान् त्रीन् आश्रमान् पोषयित्वा समाजधारणायाः कार्यं सम्पादयति गृहस्थः । यावन्तश्च सुखोपभोगाः अभिलषिता मनुष्यस्य तेषां सर्वेषां यथावद् अनुभवः अनुमतः अस्मिन्नेव आश्रमे । अत्रैव विवाहबन्धने प्रविश्य स्त्रीसुखम् आस्वाद्य पुत्रादीन् उत्पाद्य तांस्तान् इन्द्रियविषयान् उपभुज्य आत्मा संतोषयितव्यः किन्तु एतत् सर्वं न अनिर्बन्धम् उपभोक्तव्यम् । अपि तु समाजहितस्य अविरोधेन साधयितव्यम् इति उपदिष्टं शास्त्रकारैः । तदर्थम् एतादृशानि कर्तव्यानि विहितानि येन तादृशं समाजहितसाधनं अनायासेन सम्पद्येत ।
महाभारते गृहस्थस्य कर्तव्यानि एवम् उपवर्णितानि –
: ''धर्मागतं प्राप्य धनं यजेत् दद्यात् सदैवातिथीन् भोजयेच्च ।''
पङ्क्तिः १०:
 
==चतुर्विधानाम् ऋणानां संशुध्दिः==
तत्र कृतज्ञताज्ञापनं भवति भारतीयानां वैशिष्ट्यपूर्णं जीवनमूल्यम् । तच्च ऋणशोधपरिकल्पनायां तथा गृहस्थेन कर्तव्येषु पञ्चमहायज्ञेषु अनुस्यूतं वर्तते । ऋणशोधपरिकल्पनायाः मूलं तु वेदे एव उपलभ्यते । तत्र तैत्तिरीयसंहितायां श्रूयते- ‘जायमानो'जायमानो वै ब्राह्मणस्त्रिभिः ऋणैः ऋणवान् जायते । ब्रह्मचर्येण ऋषिभ्यो यज्ञेन देवेभ्यः प्रजया पितृभ्यः । एष वा अनृणी यः पुत्री यज्वा ब्रह्मचर्यवासी ।’ तै.सं. ८-३-१०-५
मनुरप्याह –ऋणानि त्रीण्यपाकृत्य मनो मोक्षे निवेशयेत् ॥ ६-३५
#[[देवऋणम्]]
पङ्क्तिः १९:
#[[पञ्चसूनादोषपरिहारः]]
==बाह्यसम्पर्कतन्तुः==
 
*[http://www.grihasta.com Grihasta.com]
*[http://www.krishnamarriage.com/Grihastha_Ashram.php Grihastha Ashram]
 
[[वर्गः:धर्मशास्त्रम्]]
[[वर्गः:गृहस्थाश्रमः]]
"https://sa.wikipedia.org/wiki/गृहस्थाश्रमः" इत्यस्माद् प्रतिप्राप्तम्