"ब्रह्म" इत्यस्य संस्करणे भेदः

(लघु) clean up, added orphan, deadend tags using AWB
पङ्क्तिः १:
{{Dead end|date=जनुवरि २०१४}}
{{Orphan|date=जनुवरि २०१४}}
 
संसारचक्रं विचित्रमस्ति। मायाविमोहिताः सन्ति सर्वेऽपि मानवाः। विद्यावन्तोऽपि महाविद्यां नोपासन्ते। तेऽपि नानाविधानि कष्टानि प्राप्नुवन्ति। ये योगिनः ज्ञानिनः आचारवन्तः साधवः सन्ति तेऽपि मायया मोहिताः भवन्ति।
यथोक्तम्-
Line ५ ⟶ ८:
बलादाकृष्य मोहाय महामाया प्रयच्छति।
दुर्गासप्तशती 1.56
ये संसारबन्धनं त्यक्तुं वाञ्छन्ति, मायामयं विश्वं संसारसागरञ्च तर्त्तुमिच्छन्ति मोक्षस्य द्वारमुद्धाटयितुमिच्छन्ति तैः किं करणीयमिति वर्तते महती जिज्ञासा। वस्तुतः मोक्षस्य सर्वस्य वा मूलमस्ति महेश्वरः महेश्वरस्यापि मूलमस्ति पञ्चाक्षरमन्त्रः पञ्चाक्षारमन्त्रस्यापि मूलमस्ति गुरुः। अतः संसारे सर्वेभ्योऽपि श्रेष्ठः गुरुरस्ति।
उक्तञ्च-
मोक्षस्य मूलं यज्ज्ञानं तस्य मूलं महेश्वरः।
तस्य पञ्चाक्षरो मन्त्रो मूलमन्त्रं गुरोर्वचः ।।इति।।
गुरुरेव माता गुरूरेव पिता गुरुरेव देवो वर्तते। गुरुरेव पातकिनं पवित्रं करोति, पतितमुन्नतशिखरमारोहयति। प्रसन्नः गुरुः महेश्वरं प्रसीदयति प्रदर्शयति च। तत्किमस्ति यद् गुरुः कर्तुं न शक्नोति। गुरुः दुर्लभमपि प्रापयति असाध्यमपि साधयति। ईश्वरादपि श्रेष्ठः गुरुरेव अस्ति। गुरौ प्रसन्ने ईश्वरः प्रसीदति विपदः गच्छन्ति सम्पदः आगच्छन्ति।
यथोक्तम्-
गुरुः पिता गुरुर्माता गुरुर्देवो गुरुर्गतिः।
Line ११० ⟶ ११३:
इत्यादिलक्षणैर्युक्तं तन्त्रमित्यभिधीयते।।इति।।
( तन्त्रसद्भावे)
दीक्षया मन्त्रजपेन च शक्तेर्लाभो भवति ज्ञानस्योदयो भवति। अतः अदीक्षितः जपवर्जितः सर्वथा असफलो भवति ।
यथोक्तम्---
शक्तिहीनो यतो देही निर्बलो योगवर्जितः
"https://sa.wikipedia.org/wiki/ब्रह्म" इत्यस्माद् प्रतिप्राप्तम्