"होलीपर्व" इत्यस्य संस्करणे भेदः

(लघु) clean up using AWB
पङ्क्तिः १:
होलाक:, होलीक:, होली, फाल्गुनिका, वसन्तोत्सव:, कामपर्व इत्यादिभि: नामभि: निर्दिश्यमानम् एतत् पर्व समग्रे [[भारतम्|भारते]] सर्वत्रापि आचर्यते । फाल्गुणपूर्णिमायाम् एतत् पर्व आचर्यते । वङ्गदेशे अस्मिन् दिने एव श्री[[कृष्णः|कृष्णस्य]] दोलोत्सवम् आचरन्ति । होलीपर्वसम्बद्धा: बह्व्य: कथा: सन्ति [[पुराणम्|पुराणेषु]] ।
 
[[चित्रम्:A Holi Festival - Krishna Radha and Gopis.jpg|thumb|150px|right|'''भगवान् श्रीकृष्णस्य गोपिकाभिः सह होलीक्रीडा''']]
पङ्क्तिः ९:
[[शिवः|शिव:]] समाधिस्थितौ तप: आचरन् आसीत् । तदा तस्य तप: नाशितवान् [[कामः|काम]]देव: । तदा तपोभाङ्गात् क्रुद्ध: शिव: तृतीयं नेत्रम् उद्घाट्य कामदेवं दहति । तस्य दिनस्य स्मरणार्थं होलीपर्व आचर्यते ।
 
एतद्दिने कामदेवम् आवह्य षोडशोपचारै: पूजयन्ति च । अस्मिन् दिने होलिका अथवा [[पोलिका]] इति विशिष्टं भक्ष्यं समर्पयन्ति देवेभ्य: । तद्दिने देवपितृभ्य: तर्पणं प्रदाय दोषशान्त्यर्थं होलीधूलिं नमस्कुर्वन्ति । गृहस्य अङ्गणं शुद्धीकृत्य अक्षतारङ्गवल्लीभि: अलङ्कृत्य मध्यभागे श्वेतवस्त्रयुक्तं पीठं स्थापयन्ति । तत्पुरत: श्वेत[[चन्दनम्|चन्दन]]-रक्तवस्त्र-पल्लवै: युक्तं कलशं प्रतिष्ठापयन्ति । तदुपरि [[रती]]देवीसहितं कामदेवं प्रतिष्ठाप्य अर्घ्य-पाद्य-गन्ध-दीप-धूप-पुष्प-नैवेद्यानि समर्पयन्ति । महिला: रक्तवर्णस्य वस्त्रम् आभूषणानि च धृत्वा चन्दनवृक्षं पूजयन्ति । तेन आयुरारोग्यवृद्धि: भवति इति । पञ्चमीत: आरभ्य दश दिनानि विनोदार्थं चोरितानि काष्ठानि सङ्गृह्य होलिकादहनं कुर्वन्ति । पूर्णिमादिने अग्निप्रदीपनं कुर्वन्ति । ग्रामात् बहि: मध्ये वा होलिकादहनम् आचरन्ति । चण्डालगृहात् वा सूतिकागृहात् वा बालानां द्वारा अग्निम् आनाययन्ति होलिकादहनार्थम् । राजा एव स्वयं स्नानादिना शुद्ध: सन् स्वस्तिवाचनं कारयित्वा तूर्यनादसहित: आगत्य दानधर्मादिकम् आचर्य अग्निज्वालनं कुर्यात् । अग्नये [[घृतम्|घृतं]] [[दुग्धम्|दुग्धं]] च समर्पयन्ति । अनन्तरं [[जलम्|जलेन]] अग्निकेन्द्रं शान्तं क्रुत्वा एकान्तस्थाने स्थापयन्ति । [[नारिकेलम्|नारिकेलस्य]] [[दाडिमफलम्|दाडिमस्य]] [[बीजपूरफलम्|बीजपूरस्य]] च दानं कृत्वा रात्रिं गीतवाद्यनृत्यै: यापयन्ति । त्रिवारम् अग्ने: प्रदक्षिणं कृत्वा गृहमानयन्ति तम् अग्निम् । अपरस्मिन् दिने प्रात:काले तेन अग्निना एव जलम् उष्णीकृत्य स्नानं कुर्वन्ति ।
 
[[चित्रम्:Holi celebrations, Pushkar, Rajasthan.jpg|thumb|200px|left|राजस्थाने पुष्करनगरे होलीक्रीडा]]
"https://sa.wikipedia.org/wiki/होलीपर्व" इत्यस्माद् प्रतिप्राप्तम्