"कामः" इत्यस्य संस्करणे भेदः
Content deleted Content added
(लघु) added Category:सारमञ्जूषा योजनीया using HotCat |
|||
पङ्क्तिः १:
{{Dead end|date=जनुवरि २०१४}}
{{हिन्दूधर्मः}}
धर्मम् अधिकृत्य अस्माभिः पूर्वमेव विवेचितम् । अधुना कामपुरुषार्थम् अधिकृत्य चिन्दयामः ।
धर्मेण व्यष्टिः समष्टिः इत्युभयोः कल्याणार्थं चतुर्विधाः पुरुषार्थाः उपदिष्टाः इत्यस्माभिः दृष्टमेव । एवं कामस्यापि द्विविधो हेतुः –एकः व्यष्टिनिष्ठः अपरः समष्टिनिष्ठः वर्तते । तत्र् व्यष्टिनिष्ठः हेतुस्तु सुखावाप्तिः ।रतिसुखं सर्वाणि अन्यानि सुखानि अतिशेते इति तु विश्रुतमेव । अत एव भारते विषयेऽस्मिन् अधिकं सुखं कथं प्राप्येत्, सुरतिः कथं निष्पद्येत् इति विवेक्तुं वात्स्यायनेन कामसूत्रस्य रचना कृता । कामसूत्रकारः कामम् एवं व्याख्याति –‘स्पर्शविशेषविषयत्वस्याभिमानिकसुखानुविध्दा फलवती अर्थप्रतीतिः प्राधान्येन कामः (का. सू. १-२-१२) इति । अत्र फलवती इत्यनेन शब्देन रतिसुखम् अपि संतानोत्पत्तिरुपप्रयोजनेन सेवितव्यं, सा एव कृतार्थता कामस्य इत्युक्तम् । रघुवंशीयानां वर्णने कालिदासोऽप्याह –‘प्रजायै गृहमेधिनाम्’ इति । एवं सुप्रजाजननं भवति समष्टिनिष्ठि द्वितीयः हेतुः कामस्य ।
Line १५ ⟶ १७:
*[http://experts.about.com/e/k/ka/kamadeva.htm/ About.com page]
*[http://www.thecolorsofindia.com/holi-legends/sacrifice-of-kamadeva.html/ Kamadeva's holy sacrifice]
[[वर्गः:पुरुषार्थाः]]
[[वर्गः:चित्रं योजनीयम्]]
|