"मनुस्मृतिः" इत्यस्य संस्करणे भेदः
Content deleted Content added
No edit summary |
(लघु) clean up, added underlinked tag using AWB |
||
पङ्क्तिः १:
{{Underlinked|date=जनुवरि २०१४}}
{{हिन्दूधर्मः}}
स्मृतिग्रन्थेषु '''मनुस्मृतिः''' प्राचीनतमा भवति । महर्षिमनुद्वारा रचितमेष ग्रन्थः मानवधर्मं विवृणोति । एतस्मात् एतस्याः अन्यतमानि नामानि
:'''एतद्देशप्रसूतस्य सकाशादग्रजन्मनः ।'''
:'''स्वं स्वं चरित्रं शिक्षेरन् पृथिव्यां सर्वमानवाः ॥ 2|20 ||'''
Line ७ ⟶ ८:
==भारतवर्षे मनुस्मृतेर्माहात्म्यम्==
स्मृतेः वेदानुकूलता, प्राचीनता च तस्याः प्रसिद्धेः कारणे । मनोः कालं वैदिककालं यतो हि ब्राह्मणग्रन्थेषु अपि तस्य उल्लेखः प्राप्तः –
निरुक्तशास्त्रे दायभागविषये यास्कः मनुस्मृतेः उल्लेखं कृतवान् । वाल्मीकिरचिते रामायणे, रामेण वालिवधप्रसङ्गे, रामः स्वस्य कार्यस्य धार्मिकता मनोर्वचनेन सिद्धयति । वाल्मीकिः लिखितवान् –
:'''पुराणं मानवो धर्मः सांगोपांगचिकित्सकः ।'''
Line २७ ⟶ २८:
मनुस्मृतौ बहूनि प्रक्षेपाः सन्तीति कुल्लूकभट्टादिना भाष्यकारैः स्वीकृताः । बुह्लर, जौली, आदयः पाश्चात्य विद्वांसः च तस्मिन् दुष्टाः श्लोकाः सन्तीति निर्दिष्टवान् । एकोनविंशति-शताब्देः परार्द्धे आर्यसमाजस्य प्रवर्तकः [[स्वामी दयानन्दसरस्वती|स्वामिदयानन्दसरस्वतिः]] मनुस्मृतेः पुनरुद्धारं कृतवान् । सः प्रक्षेपणं निर्दिष्टवान्, परन्तु अन्येषां श्लोकानां धर्मविषये प्रामाणिकता उद्घोषितवान् । स्वस्य ग्रन्थेषु, वेदान् मनुस्मृतिं च अवलम्ब्य, सः धर्मं उपदिष्टवान् । विंशति-शताब्दौ यत्र अम्बेडकरस्तस्याः शूद्रविरोधित्वं निन्दितवान्, अन्यत्र ए०सी० भक्तिवेदान्तस्वामी, एस० राधाकृष्णन्, पाण्डुरङ्ग शास्त्री अठावले, ऐनी बिसैन्ट, फ्राइड्रिक् नीश आदि महानुभावाः तस्याः भूरि प्रशंसां कृतवान् ।
अद्यापि पठनपाठने, मनुस्मृतेः प्राधान्यं वर्तते । भारतस्य संविधानं,
==विदेशेषु प्रभावः==
केवलं भारते न, अपितु अन्यानां देशानां विधिप्रणयनप्रसङ्गे भगवतो मनुमहर्षेः स्थानमुपरिष्टाद् दृश्यते । कतिपयानां देशानां विधिशास्त्रेषु मनुसंहितायाः केचनांशा यथावत् समुद्धृता दृश्यन्ते । यथा - बालिदेशस्य राष्ट्रनियमाः मनुस्मृतिमधिकृत्य वर्तन्ते । फिलिपीन्सदेशे लोकसभायाः प्राङ्गणे मनोः प्रतिमा विराजते । चम्पाद्वीपे (वियट्नाम्देशे)
:'''वित्तं बन्धुर्वयः कर्म विद्या भवति पञ्चमी ।'''
:'''एतानि मान्यस्थानानि गरीयो यद्यदुत्तरम् ॥ २।१३६ ॥'''
Line ३९ ⟶ ४०:
==प्रणेता कालः च==
एतस्य ग्रन्थस्य प्रणेता
कालविषये यथा पूर्वमुक्तं यत् मनुस्मृतेः कालः वैदिककालः । निरुक्ते श्लोकोऽस्ति –
Line ४५ ⟶ ४६:
:'''मिथुनानां विसर्गादौ मनुः स्वायम्भुवोऽब्रवीत् ॥ निरुक्तम् ३।४ ॥'''
अतः मनुः आदिसृष्टौ बभूवेति निश्चीयते । अन्यैः प्रमाणैः अपि एष एव निष्कर्षः समागच्छति । सः राजर्षि बभूव इत्यपि प्रसिद्धोऽस्ति ।
==वैशिष्ट्यम्==
मनुस्मृति इदानीमपि भारतीय-संस्कृतिं निर्धारयति । धर्मस्य परिभाषा अत्र सर्वप्रथमा दत्ता । एते धर्मा इदानीमपि सर्वे जनाः, ज्ञात्वाज्ञात्वा वा, स्वीकुर्वन्ति । भारतीयानां शीलं, न्यायदृष्टिं च तया प्रदत्ता । भारतवर्षे एव न, अपितु समग्रे सभ्ये विश्वे मनोः धर्मस्य न्यायपद्धतेः च – प्रकृष्टरूपेण अपभ्रंशरूपेण वा - पालनं भवति । सत्यमेव मनुः मानवजातेः प्रथमधर्मप्रवर्तकः । संक्षेपेण अधस्तात् स्मृतेः कानिचन विशिष्टानि अङ्गानि निर्दिष्टानि ।
* सृष्ट्यादितः मनुः ब्रह्माण्डरचनां वर्णितवान् । आरम्भे,
* भारतस्य प्राचीनं नाम
:'''आसमुद्रात्तु वै पूर्वादासमुद्रात्तु पश्चिमात् ।'''
:'''तयोरेवान्तरं गिर्योरार्यावर्तं विदुर्बुधाः ॥ १।१४१ ॥'''
एवं हिमालयस्य दक्षिणे सम्पूर्णं भूखण्डम्
* मनुस्मृतौ वर्णितस्य धर्मस्य विशेषता अस्ति यत् एष न तु हिन्दुधर्मो राष्ट्रधर्मोऽन्यत् वा कोऽपि सीमितो धर्मोऽस्ति, परन्तु मानवमात्रकृते सार्वजनिकः, सार्वकालिकः, सार्वभौमश्चास्ति । संक्षेपेण मनुना दशलक्षणात्मको धर्म एवं प्रोक्तः –
:'''धृतिः क्षमा दमोऽस्तेयं शौचमिन्द्रियनिग्रहः ।"
:'''धीर्विद्या सत्यमक्रोधो दशकं धर्मलक्षणम् ॥ मनुस्मृतिः ६।९२ ॥'''
सर्वधर्माविरोधिनः एतानि लक्षणानि खलु !
* धर्मस्य मूलं वेदाः सन्तीति स घोषितवान् –
Line ७२ ⟶ ७३:
:'''वेदशब्देभ्य एवादौ पृथक्संस्थाश्च निर्ममे ॥ १।२१ ॥'''
अत्र
* आचारव्यवहारविधिनिषेधादीनां व्यवस्थानां तुलनात्मकधिया मनुस्मृतिरद्वितीयानुपमा चास्ति । प्राचीनकालतः भारतीयानाम् उद्दात्तविचारा अत्र प्रतिबिम्बिताः सन्ति । मनुष्येषु अन्यजन्तुषु भिन्नता वर्तते इतेतस्मात् मनुष्यकृते षोडशसंस्काराः विहिताः येन सः पूतः, हृष्टः, पुष्टः, धीमान् च भवति । ते सन्ति – गर्भाधानं, पुंसवनं, सीमन्तोन्नयनं, जातकर्म, नामकरणं, निष्क्रमणं, अन्नप्राशनं, मुण्डनं चूडाकर्म वा, उपनयनं, वेदारम्भः, केशान्तः, समावर्तनं, विवाहः, वानप्रस्थः, संन्यासः, अन्त्येष्टिः । तेषां विषये यः धर्मः वक्तव्यः सः मनुस्मृत्यौ उप्लभ्यते ।
Line ११० ⟶ १११:
==विषयविन्यासः==
मनुस्मृतौ द्वादश अध्यायाः सन्ति । सम्प्रति २६८५ श्लोकाः च उपलभ्यन्ते । तत्र १२१४ श्लोकाः एव मौलिकाः सन्ति, अन्ये १४७१ प्रक्षिप्ताः इति कृतगहनान्वेषणः विद्वान् प्रो० सुरेन्द्रकुमारः वदति । तेन
{| class="wikitable"
|-
Line १४४ ⟶ १४५:
==टीकाः==
अन्येषां स्मृतिग्रन्थानामपक्षेया मनुस्मृतेः अधिकतमा टीकाः सन्ति । भरूचेः भाष्यं प्राचीनतमम् इदानीम् उपलभ्यते । काणे तस्य कालः दशमीशताब्देः उत्तरार्द्धं एकादशम्याः पूर्वार्द्धं वा ऊहति । कुल्लूकभट्टस्य मन्वर्थमुक्तावली प्रसिद्धा लोकप्रिया च वर्तते ।
आङ्ग्लदेशीयैः मनुस्मृतिः प्रथमसंस्कृतग्रन्थः पठितः ।
आधुनिक काले, प्रो० सुरेन्द्रकुमारः, बह्वन्वेषणं कृत्वा, अनेकाः टीकाः पठित्वा, मनुस्मृतिभाष्यं १९८२-तमे वर्षे प्रकाशितवान् । तत्र सः प्रक्षिप्तान् श्लोकान् निर्दिष्टवान् । अनन्तरं, १९९०-तमे वर्षे, तस्य
==सन्दर्भाः==
{{reflist|
==बाह्यसम्पर्कतन्तुः==
|