"मीमांसादर्शनम्" इत्यस्य संस्करणे भेदः
Content deleted Content added
No edit summary |
(लघु) clean up using AWB |
||
पङ्क्तिः २:
मीमांसादर्शनं (Mīmāṃsā) [[भारतीयदर्शनशास्त्रम्|भारतीयदर्शनेषु]] अन्यतमम् । इदं दर्शनं मूलतः अनीश्वरवादि दर्शनमस्ति । यद्यपि कतिपये विचारका मीमांसादर्शनं दर्शनरुपेण स्वीकर्तुं विवदन्ति तथापि वेदानां कर्मपरतां व्याख्यां धर्मस्वरुपविचारं च दृष्ट्वाऽमुष्यदर्शनस्वरुपे आपत्तिर्नास्ति । इतरदर्शनेष्विव मीमांसादर्शनेऽपि आत्मतत्त्वस्य विचारो विहितः । अतो यथा उत्तरमीमांसायां अर्थात् वेदान्ते आत्मेश्वरयोः प्रतिपादनात् दार्शनिकता स्थिरीक्रियते तथा पूर्वमीमांसायामपि तादृशविवेचनात् दार्शनिकताऽवश्यमेव स्वीकार्या ।
''मन्'' धातोर्निष्पन्नो
मीमांसदर्शने वेदविहितं कर्म एव [[धर्मः|धर्म]]रुपेण प्रतिपादितम् । तदेव इहलौकिकानां पारलौकिकानां च सुखानां साधनमस्ति । यदा कर्म एव सुखदुःखयोः मूलकारणं भवति तदा तस्य सूक्ष्मविश्लेषणकारकं शास्त्रं कर्ममीमांसैव उपयुक्तं प्रतियते । मीमांसादर्शनम् अतिप्राचीनम् अस्ति । ब्राह्मणग्रन्थैः उपनिषदग्रन्थैश्च सूचितं भवति यत् प्राक्तनैः ऋषिभिः अनेकेषु अस्पष्टविषयेषु युक्तियुक्ताः विचाराः प्रस्तुताः । ते कर्ममीमांसाया आधारतत्वरुपाः सन्ति ।
मीमांसादर्शनस्य सर्वाधिकं महत्त्वपूर्णं तत्त्वं धर्मविचारोऽस्ति । धर्मस्य आधारशिला कर्मकाण्डम् आधारीकृत्य तिष्ठति । उत्तरमीमांसाम् अतिरिच्य [[चार्वाकदर्शनम्|चार्वाक]] [[जैनदर्शनम्|जैन]] [[बौद्धदर्शनम्|बौद्धैः]] वैदिककर्मकाण्डस्य पर्याप्तां निन्दा कृता । आत्मनो नित्यता इतरवैदिकदर्शने यथा स्वीक्रियते तथैवात्रापि अभीष्टा वर्तते । मीमांसादर्शनस्य मतानुसारं मृत्योरुपरान्तमपि [[आत्मा]] स्वकीयानां शुभाशुभकर्मणां फलानि प्राप्नोति । मीमांसायां
[[चित्रम्:Yagya at Old Durga Mandir of Banaras 1.jpg|thumb|दुर्गापूजा]]
जीवनस्वर्गयोरन्तराले कर्मकाण्डजन्यम् अपूर्वमेव सेतुरुपमस्ति । अपूर्वमेव पापपुण्ययोराशयः वर्तते । [[वेदः]] कर्मविधानं करोति । वेदाः ईश्वरकृताः सन्ति अतः वेदविहित कर्म एव [[धर्मः]] । अयमेव मीमांसायाः मान्यः सिद्धान्तोऽस्ति । मीमांसा स्वीकरोति यत् इदं जगत् पूर्णसत्यम् अस्ति । अस्य मिथ्यात्वं निराधारकल्पना वर्तते । मीमांसाशास्त्रं प्रवर्तकः महर्षिः [[जैमिनिः]] । अस्मिन् शास्त्रे धर्मानुष्ठानेनैव अभिमतफलसिद्धिर्भविष्यतीति मतम् । तदनुष्ठानं तु श्रुतिस्मृतिपुराणद्यनेकधर्मग्रन्थेषु प्रसिद्धमस्ति । धर्मस्य लक्षणं किम् ? धर्मे प्रमाणं किम् । इत्यादिशङ्कानां समाधानम् पूर्वमीमांसाशास्त्रादेव सिद्धं भवति । एतद् शास्त्रं द्वादशाध्यायेषु विभक्त भवति भगवता जैमिनिना । प्रत्येकस्मिन् अध्याये तृर्भ्योऽधिकाः पादाः विलसन्ति ।
पङ्क्तिः १२:
== मीमांसाशास्त्रपरिचयः ==
द्वादशाध्यायेषु प्रथमाध्यायस्य प्रथमे पादे प्रमाणविचारः कृतः । द्वितीये मन्त्राणामर्थवादविचारः प्रस्तुतः । तृतीये मन्वादिस्मृतीनामेवमाचारभूतविषयाणां प्रामाण्यविवेचन कृतम् । चतुर्थे उद्भिद- चित्रादि नामधेयानां प्रामाण्यविचारः सम्पादितः । द्वितीयाध्यायस्य प्रथमे पादे कर्मभेदचिन्तानामुपयुक्तः उपोद्घातः, द्वितीये धातुभेदाः एवं पुनरुक्त्यादिकर्मभेदानां वर्णनम् तृतीये कर्मभेदप्रामाण्याऽपवादानां प्रस्तुतीकरणम्, चतुर्थे नित्यकाम्यकर्मणां प्रयोगे भेदनिरुपणमिति द्वितीयाध्याये विचारिताः । तृतीयाध्याये अष्टौ पादाः सन्ति । प्रथमपादे अङ्गत्वबोधकेषु षट् प्रमाणेषु श्रुतेः विचारः कृतः । द्वियीये लिङ्गविचारः, तृतीये वाक्यप्रकरण्स्थानसमाख्यानां विचारः, चतुर्थे निवीतोपवीतत्वादिषु अर्थवादत्वविधित्वादीनां निर्णयहेतुभूतानां श्रुत्यादीनां विरोधपरिहारात्मकौ विचारः , पञ्चमे प्रतिपत्तिकर्मविचारः प्रतिपत्त्यर्थः भवति-उपयुक्तद्रव्यस्य विनियोगः इति । षष्ठे –अनारभ्याधीतविचारः, सप्तमे- बहुप्रधानोपकारकप्रयाजादिकर्मणां विचारः, अष्टमे पादे यजमानेन क्रियमाणस्य कर्मणः विचारः इति एते अष्टौ विचाराः तृतीयाध्याये विचारिताः दृश्यन्ते । चतुर्थाध्यायस्य् प्रथमे पादे –प्रधानभूतस्य दध्यानयनस्य आमिक्षाप्रयोजनमित्यादि प्रधानस्य प्रयोक्तृत्वादिविचारः, द्वितीये –अप्रधानभूतानि यानि, यथा –वत्सापाकरणम् अनेन शाखाच्छेदे उपयोगः इत्यादि तेषां कर्मणां प्रयोक्तृत्वेन प्रदर्शनात्मकौ विचारः तृतीये –‘जुहू पर्णमयी ’ इत्यादि अपापश्लोकश्रवणादीनां कर्मणां भावाभावविचारः चतुर्थे राजसूययागगतत्वेन अक्षद्यूतादिगौणाङ्गानां विचारः प्रस्तुतः । पञ्चमाध्यायस्य प्रथमे पादे –[[वेदः|श्रुतेः]] क्रमः, श्रुत्यादिषु कर्मविचारस्यावश्यकत्वमपि संक्षेपेण प्रतिपादितम् । द्वितीये – क्रमविशेषाणाम् एवम् अनेकेषु पशुषु एकैकधर्मसमापनमित्यादिविचाराः प्रस्तुताः । तृतीये –वृध्यवृद्धिविचारः साधितः । चतुर्थे –श्रुत्यादि षट्प्रमाणानां पूर्वपूर्वप्राबल्यात्मको विचारः सम्पादितः । षष्ठाध्यायस्य अष्टौ पादाः विलसन्ति । तत्र प्रथमे पादे –कर्मणः अधिकारविषयिकी चर्चां प्रस्तुता । अर्थात् अन्धत्वादि इन्द्रियरहितानां पुरुषाणां यागादिषु नाधिकारः, किन्तु चक्षुष्मान् इत्यादि इन्द्रिययुक्तानां जनानामेव कर्मस्वधिकारः इति विस्तृतः विचारः कृतः । द्वितीये –अधिकारिणः कृते धर्मविचारः तृतीये –मुख्यस्य प्रतिनिधिभूतस्यान्यस्य ग्रहणं कदा कुत्र स्वीकर्तव्यमित्यादयः विषयाः, चतुर्थे –कर्मणः अनुष्ठानविषये कस्य लोपः भवितुं शक्यते ? इति विचारः, पञ्चमे षष्ठे च कालादिवैगुण्ये सति प्रायश्चित्तविचारः, सप्तमे-अदेयविषयस्य प्रस्तावः, अष्टमे लौकिकाग्नौ कदा इन्धनस्य् सम्पादनं कर्तव्यम् इत्येते विषयाः उपन्यस्ताः । सप्तमाध्यायस्य प्रथमे –समानमित्यादि प्रत्यक्षवचनात् अतिदेशविचारः, द्वितीये –अतिदेशशेषवाक्यानां विवेचनम्, तृतीये अग्निहोत्रनाम्ना अतिदेशस्य निर्णयः , चतुर्थे –लिङ्गादीनामतिदेशविचारः इति सप्तमाध्यायः प्रस्तुतः । अष्टमाध्यायस्य प्रथमे पादे प्रत्यक्षवचनानामभावेऽपि स्पष्टलिङ्गैः अतिदेशविचारः , तथा द्वितीये अस्पष्टलिङ्गेः अतिदेशस्य विचारः तृतीये –प्रबललिङ्गेभ्यः अतिदेशस्य विचारः एवं चतुर्थे अतिदेशवाक्यानामपवादस्य वर्णनं प्रस्तुतम् । नवमस्य प्रथमे ऊहस्य विचारः, मन्त्रस्थितानां देवतालिङ्गसंख्यादिवाचकशब्दानां मध्ये तत्तद्देवतालिङ्गदिपरिवर्तनसम्पादनात्मकः ऊहः उच्यते । द्वितीये साममन्त्रस्य ऊहविचारः, तृतीये –मन्त्रादीनामूहविचारः, चतुर्थे मन्त्राणामूहप्रसङ्गकाले आगतानामन्येषां विषयाणां विचारः प्रस्तुतः । दशमाध्यायस्य प्रथमे पादे- बाधस्य हेतुभूताः ये लोपाः तेषां विधानं विहितम् । द्वारलोपस्तु अयं भवति यत् यत्र वेदिनिष्पादनार्थं द्वारत्वेन विहितमुत्खननमित्यादि कर्मणः अभावः तत्र उत्खननात्मकं कर्म बाधितं भवति, एवमेव यत्र धान्यवितुषीकरणात्मकं कर्म न सम्पाद्यते तत्र अवधातः, एवमन्यत्रापि द्रष्टव्यः । द्वितीये पादे – तस्यैव द्वारलोपस्य विचारः अनेकैः उदाहरणैः विस्तारेण कृतः । तृतीये तु बाधस्य कार्यकारणत्वं प्रदर्शितम् । यथा प्रकृतिभूतयागे ऋत्विजः परिग्रहत्वेन गवाऽश्वादीनां दक्षिणा कार्यत्वेन विहिता, विकृतिभूतयागे तु यागस्य दक्षिणारुपेण् केवलं धेनुर्विहिता । अस्मिन यागे प्रकृतिवत् प्राप्तायाः अश्वादिदक्षिणायाः कार्यरुपायाः तस्याः बाधः विहितः इत्यादि । चतुर्थे यत्र बाधः कारणत्वेन न तिष्ठति तत्र समुच्चयानुष्ठानस्य विचारः, पञ्चमे –बाधस्य प्रसङ्गे ग्रहादीनां विचारः षष्ठे –बाधप्रसङ्गे सामविषयाणां विचारः, सप्तमे –बाधप्रसङ्गे इतरसामान्यविषयाणां विचारः, एवमष्टमे- बाधस्य उपयुक्तानां नञर्थानां विचारः इत्यष्टौ विचाराः अत्र सम्यक् प्रतिपादिताः । एकादशाध्याये तन्त्रात्मको विचारः प्रस्तुतः । एककालानुष्ठानेन यस्य सिद्धिः तत्तन्त्रमित्युच्यते, अथवा अनेकैः उद्देश्यैः सम्पत्स्यमानस्य एकस्य कर्मणः एकवारानुष्ठानात्मकतन्त्रमित्युच्यते । अध्यायस्यास्य प्रथमे पादे –तन्त्रस्योपोद्घातः द्वितीये –तन्त्रमित्युच्यते । अध्यायस्यास्य प्रथमे पादे –तन्त्रस्योपोद्घातः द्वितीये –तन्त्र-आवापयोः विचारः , तृतीये-तन्त्रस्य लक्षणात्मको विचारः चतुर्थे –विस्तृतः आवापविचारः इत्यध्यायः सम्पादितः । द्वादशाध्याये प्रसङ्ग-तन्त्री –निर्णय- समुच्चय –विकल्पानां विचारः प्रस्तुतः । प्रथमे पादे प्रसङ्गस्य विचारः द्वितीये –तन्त्रिनिर्णययोः विचारः । साधारणधर्माः तन्त्रत्वेन कथ्यन्ते, यस्मिन् एते धर्माः सः तन्त्री भवति । तृतीये समुच्चयविचारः, चतुर्थे-विकल्पस्य विचारः इति प्रस्तुतोऽयमध्यायः । द्वादशलक्षणात्मके अस्मिन् शास्त्रे तृतीय-षष्ठ-दशमाध्यायेषु (३-६-१०) अष्टौ पादाः सन्ति इत्ययं विशेषः दरीदृश्यते । एवं धर्मानुष्ठानविषये प्रमाणभूतस्य द्वादशलक्षणी इत्याख्यस्य मीमांसाशास्त्रस्य सामान्यः परिचयः । वेदोक्तधर्मानुष्ठानजिज्ञासवः मीमांसात्मकविषयविशेषान् अस्मात् ग्रन्थाद् धारयन्ति इति मे मतिः ।
== मीमांसाशास्त्रस्य प्रयोजनवत्त्वम् ==
ननु अत्र विहितः अध्ययनविधिः दृष्टार्थः उत अदृष्टार्थः ? यदि अध्ययनविधिः अदृष्टार्थत्वेन मन्यते तर्हि विचारशास्त्रस्यास्य आरम्भणे आवश्यकत्वं नास्ति यतो हि वेदाध्ययने गुरुमुखानूच्चारणात्मकं कर्म अध्ययनमित्युच्यते । वेदमन्त्रोच्चारणेन न कोऽपि दृष्टार्थस्य सिद्धिः भविष्यति, एवं विधिशास्त्रं निरर्थकमित्यपि आपतेत् । तस्मात् विधिशास्त्रस्य स्वर्गादिसाधनवत्त्वं यददृष्टं तत् फलत्वेन उच्यते । एतददृष्ट अनुमानादिप्रमाणेन कल्त्यते । एवं स्वर्गरुपादृष्टफलं, केबलपाठमात्रेणैव सिद्धि चेत् मीमांसाशास्त्रारम्भणे नास्ति कश्चिदुपयोगः । यदि भवति अध्ययनविधेः दृष्टफल, तदानीमर्थज्ञानं न सिध्यति । विधेः अनुकूलत्वेन विचारशास्त्रस्यास्य आवश्यकत्वात् शास्त्रमेतत् आरम्भणीयं भवति । यदि अध्ययनविधेः अर्थावबोधात्मकं दृष्टफलं न मुख्यं, स्वर्गादिरुपफलमेव तस्य मख्यमित्युच्यते तर्हि पाठरुपा ध्ययनविधिना एव स्वर्गफलं सिध्यति । अनेनापि हेतुना विचारशास्त्र स्याऽनपेक्षितत्वात् एतन्मीमांसाशास्त्रं न आरम्भणीयमिति आगते पूर्वपक्षे सिद्धान्ती समाधत्ते ।
''स्वाध्यायोऽध्येतव्यः'' इत्यत्र वर्तमानेन तव्यप्रत्ययेन अभिधा भावनायाः बोधो जायते । तव्यप्रत्ययेन विहितं विधानं बिध्यर्थे भवति । विध्यर्थम् एव भावना इति गीयते । भावना द्विविधा अभिधाभावना आर्थिभावना चेति कथ्यते । अभिधीयते अर्थः अनेन इति व्युत्पत्त्या शब्दस्यैव अभिधा इति व्ययहारः । अभिधाभावना एव शाब्दीभावना अथवा प्रेरणा इत्युच्यते । उद्देश्यत्वेन यत्र पुरुषप्रवृत्तिः सा आर्थिभावना इति भण्यते । शाब्दीभावना इयं तव्यप्रत्ययस्य वाच्यभूता भवति, यतः
अनया शाब्दीभावनया एव अध्ययने स्वर्गादिफलप्रयुक्तेषु यागादिषु पुरुषस्य प्रवृत्तिरुत्पद्यते । अस्याः प्रवृत्तेः नाम आर्थिभावना इति । यतः इयं पुरुषस्य अर्थरुपे प्रयोजने योजयति । इयमार्थिभावना तव्यप्रत्ययस्य वाचकरुपा भवति । उद्देश्यत्वेन यत्र पुरुषप्रवृत्तिः इति वाक्ये वर्तमानोद्देश्यपदेन सुखदुःखादयः नोच्यन्ते, किन्तु साध्यं यत् तदुच्यते । यत्र कियायाः फलमस्ति तदिति विवेकः । [[वेदः]] अनादिः नित्यः सिद्धश्च । अतः अयं [[वेदः]] साध्यः न भवति, अर्थात् उद्देश्यत्वेन तव्यप्रत्ययः एकः एव । शाब्दीभावनायाः आश्रयः तव्यप्रत्ययः पुरुषाश्रयः आर्थिभावना इति विवेकः ।
यस्मिन क्रियाफलं तिष्ठति तत् उद्देश्यत्वेन भण्यते । एतदुद्देश्यं चतुर्धा भिद्यते – उत्पत्तिः प्राप्तिः विकारः , संस्कारश्चेति । तत्र उत्पत्तिः –कुलालस्य क्रियानुसारं घटस्योत्पत्तिर्जायते । गमनक्रियया देशान्तरस्य प्राप्तिः । पाकक्रियया तण्डुले अन्नात्मको विकारः लाक्षारससेचनेन कर्पासबीजे गुणाधानद्वारा एकः संस्कारः उदेति । उद्देश्यत्वेन विहिताः इमे चत्वारः वेदे न सिध्यन्ति । यतः वेदस्य नित्यत्वाभ्युपगमात् अध्ययनप्रवृत्त्या तस्योप्तत्तिर्न भवति । स [[वेदः]] विभुः इति हेतोः तस्य प्राप्तिर्नास्ति । वेदे कृताध्ययनेन तस्मिन् न कोऽपि विकारः जायते । अध्ययनेन वेदस्य संस्कारः नोत्पद्यते । तस्मात् एतत् सिद्धं यत् वेदाध्ययनयोः उक्तेषु चतुर्षु कोऽपि आर्थिभावनायाः उद्वेश्यत्वेन भवितुं न शक्यते इति । उद्देश्यं विना भावनायाः व्यर्थत्वमापद्येत्, तदर्थमुद्देश्यत्वेन अर्थावबोधः अवश्य्ं स्वीकर्तब्यो भवति । यद्येवं नाङ्गीक्रयते अध्ययनविधेः व्यर्थता स्यात् । अतः अध्ययनविधिसामर्थ्येन तस्य फलम् अर्थज्ञान तु केव्लाध्ययनेन न सिध्यति । अर्थज्ञानसम्पादनाय शात्रस्य अपेक्षा अस्तिम्, एकस्मिन्नेव कर्मणि कर्तु मकर्तु मन्यथा वा कर्तु पुरुषस्य सामर्थ्यवत्त्वात्, एतत्कर्म एवमेव सम्पादनीयमिति कर्मानुष्ठाने एकस्य नियमस्य अपेक्षा अस्ति । तादृशीमपेक्षात्मिकामाकांक्षां एतन्मीमांसाशास्त्रं पूरयति । अर्थनिर्धारणे शास्त्रस्यास्य महान् उपयोगः अस्ति । तस्मात् अवश्यमेव एतन्मीमांसाशास्त्रमारम्भणीयमिति ।
यद्यप्यध्ययनविधेः विश्वजिन्न्यायानुग्रहेण स्वर्गफलं भवितुं शक्यते, तथापि तस्यार्थः स्वर्गफलं न भवति । यतः स्वर्गफलमदृष्टात्मकं भवति । सभ्मवति दृष्टफलकत्वे अदृष्टफलकल्पनाया अन्याय्यत्वम् इति वाक्यानुसारं सति दृष्टफले कुतः अदॄष्टफल कल्पनीयम् ? सूक्ष्मदृष्टया एतदत्र आलोचनीयम् –स्वाध्यायोऽध्येतव्य इत्यत्र अपूर्वनियमविध्योः अपूर्वविधिः न भवतीति कृत्वा नियमविधिः स्वीक्रियते । अयं नियमविधिः गुरुमुखात् अध्ययनं बोधयन् लिखितपाठेन अध्ययनं निवारयन् च दृष्टफलत्वेन तिष्ठति । अस्मात् नियमबलादेव अध्ययनं नियमविधेः दृष्टफल न भवति इति कारणेन अगत्या अवान्तरापूर्वरुपमदृष्टफलमस्य अध्ययनस्य कल्प्यते । तथा च वेदस्य सामान्याध्ययनेन श्रोत्रियत्वसम्पादनात्मकं दृष्टं फलं, तस्यैव वेदस्य अर्थसम्पादनात्मक मीमांसाशास्त्रस्य विषयाध्ययनेन अदृष्टात्मकं विशेषं फल लभ्यते इत्यतः “ स्वाध्यायोऽध्येतव्यः इति वाक्य दृष्टादृष्टफलजनकत्वेन तिष्ठति इति दिक् ।
== कुमारिलमतानुसारमधिकरणविवेचनम् ==
पूर्वमीमांसायां
:'''विषयो विशयश्चैव पूर्वपक्षस्तथोत्तरः ।'''
:'''सङ्गतिश्चेति पञ्चाङ्गं प्राञ्चोऽधिकरणं विदुः ॥'''
इति । विशयः नाम संशयः । यमुद्दिश्य विचारः क्रियते सः विषयः विषये यज्ज्ञानं प्रकारद्वयेन न स्पष्टीक्रियते सः भवति संशयः । प्रकारद्वये एकः भावरुप्ः, अन्यः अभावरुपः । कोटिद्वयेषु वादी यस्मिन् पक्षे स्वमतमुपस्थापयति सः पूर्वपक्षः । प्रतिवादिनः पूवपक्षखण्डनात्मकः सिद्धान्तः नाम उत्तरपक्षः । सङ्गतिः त्रिविधात्मिका भवति –अधिकरणसङगातिः, पादसङ्गतिः, अध्यायसङ्गतिश्चेति । सङ्गतेः स्वरुपमेवं भवति-अयं विचारोऽस्मिन्नधिकरण, अस्मिन् पादे, अस्मिन्नध्याये कर्तव्यत्वेन यद्विहितं तत्समुचितम् इति एवप्रकारात्मकः विचार एव सङ्गतिरित्युच्यते ।
भाट्टास्तु –सङ्गतिमधिकरणाङ्गत्वेन मन्यन्ते । ते तु सङ्गतिस्थाने उत्तरमिति अङ्गत्वेन स्वीकरिष्यन्ति । निर्णयोत्तरयोः अयं भेदः यत् उत्तर वादिमतस्य खण्डनमात्रं भवति, न तु सिद्धान्तः । यथा जात्युत्तर तद्वत । निर्णयः एव सिद्धान्तो भवतीति । एतेषां मतानुसारमयं श्लोकः –
:'''विशयो विशयश्चैव पूर्वपक्षस्तथोत्तरः ।'''
:'''निर्णयश्चेति पञ्चाङ्गं शास्त्रेऽधिकरणं स्मृतम् ॥''' इति ।
एतेषां न्यायानुसार –विषयः, संशयः, पूर्वपक्षः उत्तरपक्षः, निर्णयः इति अधिकरणस्य पञ्चावयवाः । एवं पञ्चावयवात्मकस्य अधिकरणस्य स्वाध्यायोऽध्येतव्यः इत्यादि शृतिपठितं वेदाध्ययनं विचाराङ्गत्वेन विषयः भवति इति आचार्यस्य कुमारिलस्याभिप्रायः । एतन्मतस्यैव भट्टमतमथवा आचार्यमतमिति लोके व्यवहारः ।
== गुरुमतपदौचित्यविचारः ==
एवमेव
== प्रभाकरमतानुसारमधिकरणविवेचनम् ==
''अष्टवर्षं ब्राह्मणमुपनयीत तमध्यापयीत'' इति श्रुत्यनुसारं विधेय विषयत्वेन अध्यापनं प्रतीयते इति प्रभाकरमतम् । अन्येषां मते तु श्रुतिः अध्यापनस्यैव विधानं भवति इत्यन्यदेतत् । विधेः एव नियोगः इति संज्ञा । यस्मिन् प्रति नियोगः अर्थात् विधानं करिष्यते सः नियोज्यः इत्युच्यते । अतः नियोगः नियोज्यस्यापेक्षां करोति । तर्हि निजोज्य पदार्थः कः ? आचार्यत्वप्राप्यये यः भवति सः एव नियोज्यशब्दार्थः । अत्र कारणं तु उपनयीत इत्यत्र उपपूर्वक –नीधातोः विधिपूर्वकं स्वसमीपे शिष्यस्य नयनमेव अर्थत्वेन उच्यते । यतः उपनयीत इत्यात्मनेपदप्रयोगेन आचार्यस्य कर्मप्रतीतिरेव बोध्यते । आचार्यकर्मकरणे यः इच्छावान् सः नियोज्यः भवितुं शक्यते । उपनयने यः नियोज्यत्वेन नियुक्तो भवति सः एव अध्ययनेऽपि नियोज्यत्वेन तिष्ठति अर्थात् उपनयनपूर्वकाध्ययनकरणे एव अध्यापके एकप्रकारस्य संस्कारस्योत्पत्तिः भवति । स एव संस्कारः आचार्यशब्दस्य प्रवृत्तिनिमितो भवति । अनेन निमित्तेन सः आचार्य इति कथने योग्यः इति । “ अष्टवर्षं ब्राह्मणमुपनयीत
== श्रुत्यादीनां प्रामाण्यविचारः ==
श्रुत्यादयः षट् वेदोक्तार्थनिर्णये प्रमाणानि भविष्यन्ति । तत्र सूत्रम् –“श्रुतिलिङ्गवाक्यप्रकरणस्थानसमाखानां समवाये पारदौर्बल्य मर्थविप्रकर्षात्”<ref>जैमिनीसूत्रम्- ३-३-१४</ref> इति मन्त्रदेवताहविरादि द्रव्याणां विनियोगः कुत्र कर्तव्यः ? इतीमामाकाक्षां निर्धारयन् श्रुत्यादिषट्प्रमाणानि प्रवर्तन्ते । इमानि षट् एकस्मिन् काले अथवा सर्वदा एकत्र प्रावर्तिष्यन्त् तर्हि अनवस्था स्यात् । अतः पारदौर्बल्यमर्थविप्रकर्षात् इत्युक्तम् । यत्र प्रमाणद्वयस्य सन्निपातः तत्र पूर्वापेक्षया अपरं प्रमाणं दुर्बलमित्युच्यते । एतत् क्रमानुसार सर्वेषां प्रमाणानां निर्णायकत्वेन मुख्यत्वेन च श्रुतिरेव अन्तिमत्वेन तिष्टति । अस्याः अपेक्षया अन्ये लिङ्गादयः सर्वे दुर्दलाः भविष्यन्ति ।
श्रुतिः द्विःप्रकारात्मिका अस्ति –एका साक्षात् पठिता, अन्या अनुमिता । प्रथमस्योदाहरणम् –ऐन्द्रया गार्हपत्यमुपतिष्ठते इति । अत्र देवतासम्बन्धी या ऋक तस्याः गार्हपत्याग्नि उपस्थाने विनियोगः इति पुरोडाशस्य सदनं करोति इति । वाक्यमेतद् श्रुतिसमूहेषु न कुत्रापि मिलति ।
अर्थप्रकाशन सामर्थ्यत्मकं यत् तल्लिंगमित्युच्यते । लिंगमेतत् श्रुत्यनुसार भवति । लिंगमपि द्विविधम्-साक्षाद्, दृश्यमानम्, अनुमितं चेति । साक्षाद् दृश्यमानं लिंगं नाम श्योनं त इति पुरोडाशस्य सदनं करोति इति भवति । अनुमितलिंगस्योदाहरणम् –“ देवस्य त्वा सवितु प्रसवेऽश्विनोर्बाहुभ्यां पूष्णो हस्ताभ्यां जुष्टं निर्वपामि” (ते० स० १-१ ४ ) इति वाक्यम् । आकांक्षायोग्यतादिवशेन परम्परान्वितार्थ पदानां यः समूहः तत् बाक्यमित्युच्यते । देवस्य त्वा इति वाक्ये अग्नये जुष्टं इति भागस्यास्य निर्वापरुपात्मकार्थप्रकाशनसामर्थ्यं प्रत्यक्षत्वेन दृष्टम् तेन एकवाक्येन अवशिष्टभागस्य अनेन वाक्यप्रमाणबलेन अर्थप्रकाशनसामर्थ्यमनुमीयते । तेन समुदितमिंगेन देवस्य त्वेति निर्वपति इति श्रुतेः अनुमान क्रियते इति श्रुतेरपेक्षया लिंगं दुर्बलम् ।
लिंगास्यानुमापक वाक्यमपि द्विविधम्-साक्षादनुमितभेदेन वाक्यस्य साक्षादुदाहरणं देवस्य त्वा इति । अन्यस्योदाहरणम् –“समिधो यजति” इत्यस्यां श्रुतौ इष्टविशेषनिर्देशाभावात् यागेनानेन कस्याः भावना करणीया इत्याकांक्षायाम्, एवमेव
उभयाकांक्षा यत्र तत्प्रकरणमित्युच्यते । एतदपि द्विविधम्-साक्षात् श्रुतम्, अपरमनिमितं चेति । प्रथमस्योदाहरणं पूर्वमेव प्रतिपादितम् । द्वितीयस्य-
उभयाकांक्षायाः अनुमापकं स्थानप्रमाणमपि द्विविधम्-साक्षादेकम्, अन्यत् समाख्यया अनुमितं चेति । समाख्या नाम योगबलम् अर्थात् अन्वर्थता इत्युच्यते । स्थानस्य साक्षादुदाहरणं प्रकरणे प्रतिपादितम् । अन्यानुमितस्योदाहरणम् –हौत्रम्, औदगात्रम् इत्यादि । होतरिदं हौत्रम् इति योगबचेन हौत्रादिसमाख्यया यल्लब्ध कर्म तत् होतुः पुरुषस्य अनुष्ठानयोग्यमिति अनुमीयते । समाख्या सम्बन्धप्रयुक्ता एव भवति । असन्निहितपुरुषेण सह सम्बन्धाभावात्, सम्भन्धप्रयुक्ता एव भवति । असन्निहितपुरुषेण सह सम्बन्धाभावात्, सम्बन्धस्य सिद्ध्यर्थं सन्निधिपाठरुपक्रमस्य कल्पना क्रियते । अनुमानेन पाठक्रमे सिद्धे सतितेन उभयाकांक्षायाः अनुमानं क्रियते । तेनानुमानेन एकवाक्यतायाः सिद्धिः इति हेतोः षट प्रमाणेषु अन्तिमत्वेन दुर्बला भवति इयं समाख्या ।
तस्मात् समाख्या स्थाने अन्तर्भवति, स्थानं प्रकरणे अन्तर्भवति, प्रकरणं वाक्येऽन्तर्भावं भजते, वाक्यं लिङ्गे स्वात्मानमर्पयति, लिङ्गं स्वस्वरुपं श्रुत्या स्वीकरोति इत्यतः चैमिनिना उक्तम् – “ श्रुतिलिङ्ग वाक्यप्रकरणस्थानसमाखानां समवाये पारदौर्बल्यमर्थविप्रकर्षात्” इति श्रुतिः देदरुपः इत्युच्यते ।
==प्रामाण्यवादविचारः==
प्रमाणानां यः भावः अर्थात् धर्मविशेषः अस्ति तदेव प्रामाण्य मित्युच्यते । यथार्थानुभवः प्रमाणमित्युच्यते । एतद् प्रमाणं प्रमा इत्यपि कथ्यते । यथार्थानुभवे वर्तमानः यः वियेषधर्मः तस्य प्रामाण्यमिति कथनात् एतत् प्रमात्वं , प्रमाणत्वमित्यादि शब्दैः व्यपदिश्यते । भावा भावभेदेन विरुद्धत्वेन अप्रमात्वमप्रमाणत्वमित्यपि कथ्यते । प्रामाण्यकारण्त्वेन यः वादः अस्ति तस्य्
:'''प्रमाणत्वाप्रमाणात्वे स्वस्तः सांख्याः समाश्रिताः ।'''
:'''नैयायिकास्ते परतः सौगताश्चरमं स्वतः ॥'''
:'''प्रथमं परतः प्राहुः प्रामाण्यं वेदवादिनः ।'''
:'''प्रमाणत्वं स्वतः प्राहुः परतश्चाप्रमाणताम् ॥'''
इति । सांख्याः प्रमाणत्वाप्रमाणत्वयोः जन्म स्वतः इति, नैयायिकाः परतः इति, बौद्धास्तु अप्रामाण्यस्य जन्म स्वतः प्रामाण्यस्य परतः इति । वेदवादिनः मीमांसकास्तु प्रामाण्य स्वतः अप्रामाण्यं परतः इति स्वस्व मतमुपस्थापयन्ति । एतेषां विस्तारः खण्डनमण्डनात्मको विचारः ग्रन्थान्तरादवलोकनीयः । स्वतः प्रामाण्यं युक्तियुक्त भवति । यतः प्रामाण्यस्य स्वतः सिद्धत्वं एतद् भवति यत् विज्ञानसामग्रीजन्यं एवं तद्भिन्नहेत्वजन्यमिति । अयं भावः –येन सामग्रीवशेन विज्ञानमुत्पद्यते, तेनैव वर्तमानं प्रामण्यमपि उत्पन्नं भवति । प्रामाण्योत्पतौ गुणमथवा दोषाभावं विहाय अन्यः हेनुः न कोऽपि तिष्ठति । दोषास्तु प्रमायाः प्रतिबन्धकमात्रत्वेनोच्यन्ते । अयं मीमांसकाभिमतः प्रामाण्यबादविचारः ।
सततः प्रामाण्ये मीमांसामतानुसारमनुमाने –विवादास्पद प्रामाण्यं पक्षत्वेन स्वीक्रियते, विज्ञानसामग्रीजन्यं तद्भिन्नहेतुना यदजन्यं तत् साध्यत्वेन स्वीक्रियते, अप्रमायाः अनाश्रयत्वं हेतुत्वेन तिष्ठति, घटादि-प्रमासदृशः दृष्टान्तः भवति इति विवेचनीयम् । एवं विध्यर्थवादमन्त्रनामधेयात्मकैः चतुर्भिः भागैः विभक्तः वेदः धर्मविषये स्वतः प्रामाण्यं भवति । अज्ञातार्थज्ञापकः यः वेदमन्त्रः सः विधिर्भवति । यथा “ अग्निहोत्रं जुहुयात्स्वर्गकामः” इति । प्रशंसा अथवा निन्दापरकस्य वेदवाक्यस्य अर्थवादः इति संज्ञा । यथा –“वायुर्वे क्षेपिष्ठा देवता” इति वायोः स्तुतिद्वारा “ वायव्यं श्वेतपालभेत्” इति विधेः प्रशंसां करोति । एवमेव
मीमांसकाः वेदवादिनः इति हेतोः जैमिनिनोक्तम् – आम्नायस्य क्रियार्थत्वादानर्थ कयमतदर्थानाम्” (जै० सू० १-२-१) इति । वेदस्य स्वतः प्रामाण्यमेतैः आचार्यैरेव साधितम् इत्यतः वेदार्थमीमांसारुपमेतद् मीमांसादर्शनं भवति ।
==वेतस्यापौरुषेयत्वविचारः==
Line ७६ ⟶ ७५:
ईश्वरकृताः वेदाः” इति वैशेषिकाः नैयायिकाः वेदान्तिनश्च भणन्ति । तत्र कारणम्-कण्ठताल्वाद्यभिधातजन्य –वर्णारुपाणां वेदानामपोरुषेयत्वासम्भवात् इति । ब्रह्मणः स्वासोच्छवासरुपेण वेदानामुत्पत्तिः इति श्रूयते । आप्तोक्तत्वे यया प्रामाण्यं तथा तेषां वेदानां प्रामाण्यमुत्पद्यते । भवति ऋङ्म्न्त्रः –<br>
:'''तस्माद्यज्ञत्सर्बहुतः ॠचः सामानि जज्ञिरे ।'''
:'''छन्दांसि जज्ञिरे तस्माद्यजुस्तस्मादजायत ॥'''
: - (ऋ० सं० १०-३०३) इति
एवमुपनिषदि-<br>
यो ब्राह्मणं विदधाति पूर्व्ं यो वै वेदांश्च प्रहिणोति तस्मै (श्वे० उ० ६-१८) इति च भवति न्यायसूत्रमपि –मन्त्रायुर्वेद प्रामाण्यवच्च तत्प्रामाण्यमाप्तप्रामाण्मात् (न्या० सू० २-१-६३) इति । एवमादिभ्मः मन्त्रोपनिषद्वाक्येभ्यः ईश्वरकृतत्वम् ईश्वरप्रोक्तत्वं वा वेदस्य स्पष्टमिति एतेषामाशयः ।
अत्रेदमवधार्यम । वेदः पौरुषेयो वा अपौरुषेयो वा इति विशिष्य न चिन्तनीयम् । यतः कीदृशाः अपि ते ज्ञान-विज्ञानराशयः सन्ति । गुणैकपक्षपातिभिः विद्वद्भिः तेषामर्थानुसन्धानपूर्वकमध्ययनमवश्यं कर्तव्यमेव । तैरैव वेदैः पुनरपि वयं पुरा इव जगतः गुरुत्वं प्राप्तुं ज्ञातु च शक्नुमः इदानीमित्यविस्मरणीयम् ।
ईश्वरस्य निः श्वासरुपेण स्थिताः वेदाः पौरुषेयाः इति स्त्यपि लौकिक पुरुषनिर्मितत्वाभावमात्रेण अपौरुषेयाः भवन्ति । यतः ब्रह्मणः लौकिकपुरुशवत जननमरणधर्मै न स्तः । ईश्वर अनादिः इत्युक्तत्वात् वेदोऽपि अनादिरिति स्वयमेव सिद्धम् । अत एव वेदाः निर्दोषाः प्रामाणिकाश्च इत्यतः मीमांसाशास्त्रे वेदस्यापौरुषेयत्वं सिद्धम् ।
==वेदस्य स्त्रष्टा ब्रह्म==
Line ९७ ⟶ ९६:
ऋग्वेदे प्रतिपादिताः अनेके देवतात्मानः एकस्यैव परमात्मनः स्वरुपभूताः भवन्ति ।
एकं सद्विप्र बहुधा वचन्त्यगिंन यमं मातशिखानमाहुः । (ऋ० सं० १-२२-१६) इति श्रुतेः । ऋग्वेदे वर्गत्रयात्मकाः देवताः भवन्ति । तेषां वर्गाणां नाम-पृथिवी, अन्तरिक्षं , द्यौः इति । एतेषु पृथिव्याः देवता –अग्निः, अन्तरिक्षस्य देवता –इन्द्रः अथवा वायुः द्युलोकस्य देवता –सूर्यः इति । एतेषां त्रयाणां मध्ये सम्बन्धस्य वर्तमानत्वात् पृथिवी-अन्तरिक्षं द्यौः एते त्रयः एकीभूताः भवन्ति । यद्यपि एताः देवताः स्वस्वकर्मानुसारेणा त्रिषु नामसु प्रसिद्धाः अथापिः वस्तुतः एते त्रयः एकस्मिन्नेव परमात्मनि अन्तर्भवन्ति । तथा च वाक्यम् –“तासां महाभाग्यात् एकैकस्यापि बहूनि नामधेयानि भवन्ति” इति । यास्कोऽपि निरुक्ते लिखति-“
चोक्तमुपनिषदि –<br>
Line ११९ ⟶ ११८:
कर्मणः स्वरुपस्य प्रतिपादयित्री विधिः उत्पत्तिविधिरस्ति । अङ्गभूतानां प्रधान भूतानां च प्रज्ञानां सम्बन्धबोधकानि वाक्यानि विनियोगविधिरस्ति । कर्मोत्पन्नफलस्य स्वामित्वं या प्रतिपादयति सा अधिकारविधिर्भवति । प्रयोगस्य शीघ्रतां या व्यनक्ति सा प्रयोगविधि कथ्यते ।
=== अर्थापत्तिः ===
कस्याप्यर्थस्य अन्यार्थं विना सिद्धौ असति तस्य सिद्धये पदार्थान्तरस्य कल्पना अर्थापत्तिर्भवति । यथा
=== अनुपलब्धिः ===
अभावपदार्थस्य ज्ञापकं प्रमाणम् अनुपलब्धिर्भवति । यथा
मीमांसायां प्रमाणानां स्वतः प्रामाण्यं स्वीकृतमस्ति, अर्थात ज्ञानस्य प्रामाणिकतां निर्धारयितुं ज्ञातेतरस्य कस्यापि साधनस्य आवश्यकता नास्ति । ज्ञानं प्रमाण्येन सहैव आविर्भूतं भवति । अतः मीमांसायां ज्ञानस्य स्वतः प्रामाण्यमेवाभीष्टम् अस्ति । दृष्टिकोणस्य भेदात् भ्रमज्ञानमुत्पद्यते । यथा
== प्रमेयतत्त्वसमीक्षा ==
मीमांसादर्शने पदार्थानां निर्धारणसम्बन्धे ऐकमत्यं नास्ति । कुमारिलभट्टाः केवलं पञ्चैव पदार्था इति स्वीकुर्वन्ति-द्रव्यम्, गुणः,कर्म, सामान्यम्,अभावश्च । द्रव्याण्यपि भट्टमते एकादश सन्ति । नवद्रव्यातिरिक्तं तमसः शब्दस्य चापि द्रव्यत्वं तेन प्रतिपादितम् । प्रभाकरः अष्टौ पदार्थान् स्वीकरोति । तन्मतानुसारेण अष्टौ पदार्था एवमुक्ताः –[[द्रव्यं]], [[गुणः]], [[कर्म]], [[सामान्यम्]], परतन्त्रता, शक्तिः सादृश्यं, संख्या चेति । एषु परतन्त्रता समवायस्यैव रुपान्तरमस्ति शक्तिसादृश्ययोः पदार्थतत्वं नूतनपरिकल्पनाऽस्ति । मुरारिमिश्राः चतुरः पदार्थान् स्वीकरोति । तन्मते चत्वारः पदार्था एवं प्रकारेण ग्राह्याः –धर्मिविशेषः, धर्मविशेषः, आधारविशेषः, प्रदेशविशेषश्च ।
जगतः सम्बन्धे मीमांसकविचारणा पृथगेवास्ति । जगत् तस्मिन्नेव रुपे सत्यमस्ति, यस्मिन् रुपे तत् अस्माकं ज्ञानेन्द्रियाणां विषयो भवति । संसारः शरीन्द्रियविषयरुपोऽस्ति अथवा भोगायतन- भोगसाधन-योग्या दिरुपेण संसारस्य अवस्थितिर्विद्यते । जगत् अनादि अनन्तं चास्ति । केषांचन मीमांसकानां दृष्टौ जगतो मूलं परमाणुरस्ति । कृतकर्मणाम अपूर्वस्य फलोन्मुखे सति अणुसंयोगात् जगत् उत्पद्यते । मीमांसकमते परमाणुः प्रत्यक्षदृष्टं सूक्ष्मकणं विद्यते न तु नैयायिकमते यथा अलौकिकप्रत्यक्षस्य विषयः । एवं मीमांसायाः सृष्टिक्रमः स्थूलोऽस्ति किन्तु य परमाणुवादं न स्वीकुर्वन्ति, तेषां दृष्टौ जगत् उत्पत्तिविनाशाभ्यां रहितं नित्यतत्त्वमस्ति अतः मीमांसकमते जगतः विनाशो न भवति ।<br>
शक्ति सिद्धान्तोऽपि मीमांसकानां स्वतन्त्रकल्पनाऽस्ति । तदनुसारं कार्यस्योपादाने शक्तिनामकं पदार्थो विद्यते यस्य सदभावाद् एव कार्योत्पत्तिर्भवति, अन्यथा वह्नौ दाहकत्वशक्तेरभावे यथा स्वरुपमात्रेण दाहकत्वं न सम्भवति । यथा वा चन्द्रकान्तो मणिः वह्नेर्दा हिकत्वाभावात् स्वरुपतः वह्निमान् अपितु दाहकत्वरहितो भवति । इतरदार्शनिकैरस्य मतस्य पूर्णतया खण्डनं कृतम् ।
== आत्मविचारः ==
Line १३५ ⟶ १३४:
== कर्ममीमांसा ==
धर्मतत्त्वस्य व्याख्या मीमांसाया मुख्यो विषयः वर्तते । अतएव कस्यापि प्रयोजनविशेषस्य कृते वेदप्रतिपादितः यागादि धर्म एव कर्म कथ्यते । इष्टसाधनताया ज्ञानेनैव धर्मे प्रवृत्तिर्भवति, किन्तु प्रभाकरमते यज्ञयागादीनि अनुष्ठानानि कर्त्तव्यत्वेन विहितानि सन्ति, न तु इष्टसाधनतया । एवं कुमारिलभतात् प्रभाकरमतस्य भेदो वर्तते तथापि प्रभाकरस्य वैचारिकः पक्षः समुचितः प्रतिभाति । तदनुसारेण कर्मानुष्ठानं निष्कामकर्मणो दृष्टिकोणेनैव अनुष्ठेयम् । अनेन निष्कामेन सकामेन वा कर्मणा
== मीमांसादर्शने ईश्वरविचारः ==
यद्यपि मीमांसादर्शने ईश्वरतत्त्वम् अभिष्टं नास्ति, तथापि कर्मफलदायकं किमपि अचेतनं तत्त्वं न भवितुं शक्नोति । स्वर्गादिफलानां प्रदाता तु यज्ञोऽस्ति । तथापि यज्ञपतिरुपेण ईश्वरः स्वीकर्त्तुं शक्यते । अतएव अर्थसंग्रहकारः मोक्षावस्थायां –‘कर्मफलाभावो तदैव भवति यदा कर्मफलसमर्पणं भवेत्’ इति श्रुत्यर्थमगवत्य सर्वकर्मफलानाम् ईश्वराय समर्पणनैव मोक्षो भवतीति उल्लेखं कृतवान् ।
== मीमांसादर्शने मोक्षविचारः ==
Line १४४ ⟶ १४३:
==मीमांसादर्शनस्य आचार्यपरम्परा==
मीमांसासूत्राणां रचना महर्षिणा जैमिनिना विहिता । जैमिनेः स्थितिकालः ईस्वीपूर्व ३६० वर्षाणि स्वीक्रियते । मीमांसासूत्राणां रचना षोडशेषु अध्यायेषु विहिता तथापि जैमिनीयमीमांसा
जैमिनीयसूत्रस्य प्रथमाध्याये धर्मलक्षणं प्रमाणनिरुपणं च प्रतिपादितमस्ति । द्वितीयाध्याये धर्मभेदो निरुपितः । तृतीयाध्याये अङ्गत्वं चतुर्थाध्याये प्रयोज्यप्रयोजकभावश्च प्रस्तुतः । पञ्चमाध्याये क्रिमिनिरुपणमस्ति, यज्ञाधिकारिणो वर्णनमपि अस्मिन्नेवाध्याये प्राप्यते । षष्ठाध्यायेऽपि अधिकारिवर्णनमस्ति । सप्ताष्टमयोरध्याययोरतिदेशोवर्तते । नवमाध्याये ऊहनिरुपणमस्ति । एवमेव एकादशाध्याये तन्त्रं, द्वादशाध्याये च प्रसङ्गो निरुपितः ।
Line १५८ ⟶ १५७:
# [[आलेखनः]]
मीमांसारूत्राणां वृत्तिकारेषु उपवर्षाचार्यः सर्वप्राचीनो मन्यते । अनेन मीमांसासूत्रस्य षोडशाध्यायेषु वृत्तिर्विरचिता । अस्य आचार्यस्य स्थितिकालः ईस्वीपूर्व द्वितीयशताब्दयां मन्यते । अस्य आचार्यस्य समकालिकः कश्चित् भवदासनामकोऽप्याचार्य आसीत् । अनेनापि मीमांसासूत्राणां वृत्तिर्विरचिता ।
मीमांसासूत्रेषु आचार्य शबरस्वामिनो भाष्यम् उपलभ्यते । तद् यद्यपि उपलब्धमस्ति । भाषाविषययोः पूर्वं व्याख्यानस्य दृष्ट्या शाबरभाष्यस्य महत्त्वं शाङ्करभाष्यतुल्यं स्वीक्रियते । इदं शाबरभाष्यं द्वाद्वशाध्ययेष्वेव लिखितमस्ति । अस्य स्थितिकालः ईस्वी द्वितीयशताब्दी अस्ति । शबरस्वामिनोऽनन्तरं आचार्यभर्त्तृमित्रस्य
शबरस्वामिनः उपरान्तं मीमांसादर्शने कुमारिलभट्टस्य प्रसिद्धिः श्रूयते । कुमारिलभट्टेन मीमांसासूत्रस्य प्रथमाध्यायम् अधिकृत्य तर्कपादे श्लोकवार्त्तिकस्य रचना विहिता । शेषभागम् अधिकृत्य तन्त्रवार्तिकमप्यनेन विरचितम् । अस्यैव आचार्यस्य दुपटीकाग्रंथोऽपि प्राप्यते । कुमारिलभट्टस्य स्थितिकालः सप्तमशताब्द्या अन्तिमभागे अष्टमशताब्द्याः प्रारम्भे च मन्यते ।<br>
कुमारिलभट्टस्य शिष्यः आचार्यो मण्डनमिश्रोऽपि मीमांसायाः प्रसिद्धो विद्वान् आसीत् । शंकरद्विग्विजयग्रन्थस्य उल्लेखानुसारं शास्त्रार्थे शङ्कराचार्येण पराजितो भूत्वाऽयं सुरेश्वराचार्य नाम्ना शङ्कराचार्यस्य शिष्यतां गृहीतवान् । मण्डनमिश्रस्य अनेका रचनाः सन्ति-विधिविवेकः, भावनाविवेकः विभ्रमविवेकः मीमांसा-सूत्रानुक्रमणी च ।
उम्बेकाचार्योऽपि कुमारिलभट्टस्य शिष्य आसीत् । सः भावनाविवेकस्य टीकां श्लोकवार्तिकस्य तात्पर्यटीकां च रचितवान् । अयमपि कुमारिलमतानुयायी अवर्तत, किन्तु एतदितिरिक्ता पार्थसारथि-मिश्र-माधवाचार्य –खण्डदेवादयः भाट्टमतानुयायिनोऽवर्तन्त । पार्थसारथिविरचिता
माधवाचार्यः वेदभाष्यकारस्य सायणस्य अग्रज आसीत् । अस्य रचनासु न्यायमालाविस्तरः सेश्वरमीमांसा च प्रसिद्धे स्तः । खण्डदेवमिश्रः भाट्टमते नव्यमतस्य आचार्योऽस्ति । अनेन भाट्टकौस्तुभः भाट्टदीपिका चेति गन्थद्वयं विरचितम् ।
प्रभाकरमिश्रोऽपि कुमारिलभट्टस्यैव शिष्य आसीत्, किन्तु गुरुमातापेक्षया भिन्नमतमयं प्रतिपादितवान् । अतएव प्रभाकरपतं गुरुमतनाम्ना पृथक् रुपेण प्रसिद्धमस्ति । गुरुपदं प्रभाकराय कुमारिलभट्टेनैव प्रदत्तमासीत् । प्रभाकरेण शाबरभाष्यम् अधिकृत्य स्वतन्त्राः टीका विरचिताः ।
गुरुमतस्यैव आचार्यो महोदधि वर्तते स्म ।
==दर्शनप्रतिपादकाः==
Line १८८ ⟶ १८६:
* [[माधवाचार्यः]]
* [[अप्पय्यदीक्षितः]]
==अध्ययनकेन्द्राणि==
Line २०६ ⟶ २०३:
==अधारः==
<references/>
Line २१६ ⟶ २११:
[[वर्गः:मीमांसादर्शनम्]]
|