"मोक्षः" इत्यस्य संस्करणे भेदः
Content deleted Content added
(लघु) added Category:सारमञ्जूषा योजनीया using HotCat |
(लघु) clean up, added underlinked tag using AWB |
||
पङ्क्तिः १:
{{Underlinked|date=जनुवरि २०१४}}
{{हिन्दूधर्मः}}
मोक्षशब्दः
: '''मोक्षस्य न हि वासोऽस्ति न ग्रामान्तरमेव वा ।'''
: '''अज्ञानतिमिरग्रन्थिनाशो मोक्ष इति स्मृतः ॥'''
Line ६ ⟶ ७:
मरणानन्तरं स्वकर्मानुसारं पुनः नूतनं जन्म गृह्णाति । एव भ्रममाणस्य तस्य यदा वासनाक्षयः भवति तदा अस्मात् जन्ममरणचक्रात् स मुक्तिं प्राप्नोति । स एव मोक्षः ।
अन्ये पुनः षडरिपूणां प्रभावात् मुक्तिः नाम मोक्षः इति मन्यन्ते । मनुष्यमात्रं सुखसंपादनार्थं दुःखनिवारणार्थं च प्रयतते । तत्र किं कर्तव्यम्, किम् अकर्तव्यम् इत्यस्मिन् विषये धर्मेण कृतं मार्गदर्शनं स सम्यक्तया जानाति । दुर्योधनस्य
अस्माकम् ऋषिमुनिभिः सूक्ष्मेक्षिकया मानवप्रवृत्तीः अभ्यस्य प्रामुख्येन षडविकाराः निर्धारिताः । तेभ्यश्च रिपुः इति संज्ञा प्रदत्ता । काम क्रोध-लोभ-मोह-मद-मत्सराः इति षडरिपवः विश्रुताः एव । प्रत्येकस्य अन्तः करणे एते विकाराः निभृतरुपेणा निवसन्ति एव । मनसः दुर्बलायाम् अवस्थायां ते उपरि आगच्छन्ति । तपः पूताः योगिनः अपि अस्मिन् विषये न अपवादाः । विश्वामित्रमेनकयोः –आख्यानम् तु सर्वेषां सुपरिचितमेव ।
एवम् इन्द्रियाणां निग्रहेण, संयमेन, विकाराणां षडरिपूणाम् उपरि विजयः तेषां च प्रभावात् मुक्तिः एव मोक्षः । यदि विकाराणां प्रभावः न स्यात् तर्हि तस्य प्रज्ञा स्थिरा भवति । एतादृशः विकाररहितः मनुष्यः अनुपमं सुखम् अद्वितीयं च आनन्दम् अनुभवति । स आत्मस्वरुपं साक्षात्करोति, परमात्मनः अंशत्वं प्रत्यक्षीकरोति । स एव जीवन्मुक्तः । इयमेव कृतार्थता मनुजजन्मनः इति ।
[[
[[वर्गः:पुरुषार्थाः]]
[[वर्गः:चित्रं योजनीयम्]]
|