"नञ्जुण्डुय्य" इत्यस्य संस्करणे भेदः

(लघु) clean up using AWB
पङ्क्तिः १७:
 
==वृत्तिजीवनम्==
[[कर्णाटकम्|कर्णाटकस्य]] कोळ्ळेगालप्रदेशे सब् रिजिस्टार्, मद्रास्नगरे लिपिकारः, क्रि.श. १८८५तमे वर्षे [[मैसूरु]]प्रान्तस्य नञ्जनगूडुपत्तने न्यायाधीशः चाभवत् । क्रि.श. १८८६तमवर्षे सहायकायुक्तः उपायुक्तः, मुख्यकार्यदर्शी च भूत्वा सेवामकरोत् । अन्ते मुख्यन्यायालयस्य प्रधानन्यायाधीशः सन् सेवां कृत्वा क्रि.श. १९१६तमवर्षे निवृत्तः अभवत् । पश्चात् क्रि.श. १९१६तः १९२० पर्यन्तं [[मैसूरुविश्वविद्यालयः| मैसूरुविश्वविद्यालयस्य]] सर्वप्रथमः उपकुलपतिः अभवत् ।
 
==कौटुम्बिकजीवनम्==
पङ्क्तिः २६:
 
==व्यक्तिवैशिष्ट्यम्==
एच्.वि.नञ्जुण्डय्यः [[कर्णाटाकम्|कर्णाटाकस्य]] साहित्यपरिषदः संस्थापकाध्यक्षः अभवत् । एष बाल्यकाले एव अध्ययने अतीव आसक्तः आसीत् । प्रवासे गच्छति अपि एषः श्रुतान् दृष्टान् लिखित्वा रक्षति स्म । विविधस्थानेषु जीवतां जनानां रीतिं नीतिं राजतन्त्रं, आहारव्यवारान् ज्ञात्वा वैशिष्ट्यं च अभिलिखति स्म । आङ्ग्लानां विषये तेषां प्रशासनविषये च अधिकगौरवयुक्तः आसीत् । यतो हि त्रिंशत् कोटिभारतीयान् सर्वदा नियन्त्रणे स्थापयितुं स्वाधीनं कर्तुं शक्ताः आङ्ग्लाः अवश्यं समर्थाः इति वदति स्म । क्रि.श. १९११तमे वर्षे [[नवदेहली|देहली]]चक्रवर्तिनः राज्याभिषेकावसरे सञ्चलितसभायां नञ्जुण्डय्यः आह्वानितः आसीत् । प्रवासकाले ग्रामात् ग्रामम् अटन् विद्यालयानां सन्दर्शनं कृत्वा तत्र विद्यमानान् दोषान् परिमार्जयितुम् अयतत । अनेन लिखितेषु ग्रन्थेषु जीवनमौल्यस्य विषये अस्य आदरः दृश्यते । बालानां कार्याणां विषये प्रश्नाधिकारः पालकानां नास्ति इति विश्वासस्य कालः सः । अग्रे तानि यथा सत्पजाः सद्गृहस्थाः भवेयुः तथा अपात्यानाम् आचरविचारान् परिष्कृत्य मार्गदर्शनं पितॄणां कर्तव्यम् इति नञ्जुण्डय्यस्य अभिमतः आसीत् । नञ्जुण्डय्यः [[मैसूरुविश्वविद्यालयः|मैसूरुविश्वविद्यालयस्य]] संस्थापनार्थम् अविरतं प्रयत्नं कृतवान् । एतदर्थं विदेशीयविश्वविद्यालयानां सम्प्रर्कयित्वा विषयसङ्ग्रहं कृतवान् । सङ्गृहितविषयान् राज्ञे श्रीकृष्णराजवोडेयर् वर्याय समर्प्य विश्वविद्यालयस्य प्रतिष्टापनार्थम् आग्रहं कृतवान् ।
 
==प्रमुखयोगदानानि==
[[कन्नडाभाषा|कन्नडाभाषया]]लेख्खबोधिसि, व्यवहारदीपिके, व्यवहारधर्मशास्त्र, रात्रियल्लि कम्बनि इत्यादयः ग्रन्थाः अनेन रचिताः । आङ्ग्लभाषया मैसूर् ट्रैब्स् एण्ड् क्यास्ट्, टियर्स् इन् दि नैट्, रिलिज़न् एण्ड् मारल् एजुकेशन्, आङ्ग्ल् इण्डियन् एम्फैर् (क्रि.श. १९१५तमवर्षे) विश्वविद्यालस्य भाषाणां च प्रेमी नञ्जुण्डय्यः पारितोषिकद्वयं दातुं पर्याप्तनिधिं सङ्ग्रहितवान् । एकं स्नातकोत्तरक्ष्यायाः अत्युत्तमछात्राय राजमन्त्रप्रवीन एच्.वि.नञ्जुण्डय्य स्वर्णपदकम्, अपरं महाराज्ञीमहाविद्यालयस्य अत्युत्तमायै विद्यार्थिन्यै अन्नपूर्णम्मपुरस्कारः इति ।
 
{{कन्नडसाहित्यपरिषदः अध्यक्षाः}}
"https://sa.wikipedia.org/wiki/नञ्जुण्डुय्य" इत्यस्माद् प्रतिप्राप्तम्