"पार्वती" इत्यस्य संस्करणे भेदः

(लघु) clean up, added deadend tag using AWB
पङ्क्तिः १:
{{Dead end|date=जनुवरि २०१४}}
 
[[File:Munneswaram Shiva family.jpg|thumb|150px|'''पार्वत्याः परिवारः''']]
लयकर्तुः परमशिवस्य शक्तिरूपा पार्वती । सैव तस्य पत्नी च । विघ्नेश्वरस्य गणपतेः, स्कन्दस्य च माता सा । तस्याः नामानि रूपाणि च अनेकानि । हैमवती, गिरिजा, दाक्षायिणी इतीमानि नामानि । सा हिमवतः पुत्री, जन्मान्तरे दक्षप्रजापतेश्च पुत्री आसीदिति वदन्ति । एवमेव शिवा, मृडानी, रुद्राणी, शर्वाणी इतीमानि तस्याः नामानि सा महादेवस्य रुद्रस्य महिषी इति कथयन्ति ।<br />
Line ६ ⟶ ८:
देव्याः शक्त्याः सौम्यासौम्ये द्वे रूपे भवतः । पार्वती उमा चेति शिवस्य पत्नीरुपेण सा सौम्यं रूपं वहति । तदा तस्याः द्वौ हस्तौ एव । दक्षिणहस्तेन कुमुदं धरन्ती सर्वालङ्कारभूषिता पत्युः पार्श्वे दृश्यते सा । यदा एकाकिनी तदा चतुर्भिः हस्तैः भूषिता दृश्यते । द्वाभ्यां हस्ताभ्यां कमलं कुमुदञ्च धरन्ती अपराभ्यां वरदाभयमुद्रे प्रदर्शयति । शिवस्य अर्धाङ्गिनी सा अर्धनारीश्वरस्य तस्य देवस्य वामभागम् अलङ्करोति । <br />
काली, दुर्गा, चामुण्डा, महिषासुरमर्दिनी इति तस्याः असौम्यानि अर्थात् उग्ररूपाणि सन्ति । एषु रूपेषु सा बहूनि आयुधानि,रुण्डमालां च धरति । अनेन रूपेण जनानां पापानि विनाशयति ।
 
 
{{सनातनधर्मः}}
 
 
[[वर्गः:देव्याः नामानि]]
"https://sa.wikipedia.org/wiki/पार्वती" इत्यस्माद् प्रतिप्राप्तम्