"पुरन्दरदासः" इत्यस्य संस्करणे भेदः

No edit summary
(लघु) clean up using AWB
पङ्क्तिः १५:
|origin = [[Kshemapura]], [[Shivamogga]], [[Karnataka]] state, [[India]]
|genre = [[Carnatic music]]
|occupation = [[Carnatic music|Carnatic]] [[vocalist]]
|parents = Varadappa Nayak (father)<br>Leelavati (mother)
|spouse = Saraswati bai
पङ्क्तिः २४:
 
==पीठिका==
'''पुरन्दरदासः''' (Purandara Dasa) श्रेष्ठः कीर्तनकारः । [[भारतम्|भारतदेशस्य]] [[महाराष्ट्रराज्यम्|महाराष्ट्रराज्यस्य]] [[पुणे]] (पुण्यपत्तनम्) जनपदस्य [[पुरन्दरदुर्गम्|पुरन्दरदुर्गे]] '''पुरन्दरदासः''' क्रि.श [[१४८०]] तमे वर्षे जन्म प्राप्तवान् । एतस्य पितुः नाम "वरदप्पः" , मातुः नाम "लक्ष्मम्मा" इति । एतस्य पिता बहु धनिकः आसीत् । पुरन्दरदासस्य पुर्वाश्रमस्य नाम "श्रीनिवासनायकः" अथवा "शीनप्पनायकः" इति । एतस्य पत्न्याः नाम "सरस्वतीयम्म" । एतयोः चत्वारः पुत्राः आसन् वरदप्पः, गुरप्पः, अभिनवप्पः, मध्वपतिः चेति । [[कर्णाटकस्य दासपरम्परा|हरिदासपरम्परयां]] समागताः गीताकाराः एते । पुरन्दरदासः [[कर्णाटकस्य दासपरम्परा|दासपरम्परायाम्]] अग्रगण्यः । नारदस्य अवतारः एषः इति जनाः विश्वसन्ति । [[कर्णाटकसङ्गीतम्|कर्णाटकसङ्गीतस्य]] पितामहः इति अस्य ख्यातिः । एषः कथं पुरन्दरदासः अभवत् इति एका लघुकथा अस्ति । एतस्य पत्नी सरस्वतम्म उत्तमा सात्विका, उदारमनाः सद्गुणी च आसीत् । पाण्डुरङ्गः(श्रीहरिः) निर्धनब्राह्मणस्य वेषं दृत्वा षण्मासान् यावत् शीनप्पनायकं ’दानं'दानं करोतु’ इति याचनां कृत्वा अन्ते जामिताम् अनुभूय सरस्वतियम्मायाः समीपं गतवान् । तदा सा करुणया स्वनासाभरणं दत्तवती । एतस्य नासाभरणस्य कारणतः शीनप्पनायकस्य मनसि वैराग्यम् आगत्य सः पुरन्दरदासः अभवत् इति कथा श्रूयते । पुरन्दरदासः [[व्यासरायः|व्यासरायस्य]] शिष्यः आसीत् । भक्तिरसेन पूरितानि अनुभवगीतानि रचितवान् । [[कर्णाटकराज्यम्|कर्णाटके]] सर्वत्र एतानि गीतानि गीत्वा भक्तिपथं प्रसारयितुं कारणीभूतः अभवत् । एतस्य गीतेषु पुरन्दरदासः इति अङ्कितम् अस्ति । पुरन्दरदासः शलिवाहनशके १४८६ तमे वर्षे रक्ताक्षिसंवत्सरे पुष्यमासस्य अमावास्या दिने स्वस्य ८४ तमे वर्षे दिवङ्गतः । अनेन सह दासपद्धतेः अन्ये च प्रमुखाः [[कनकदासः]] [[जगन्नाथदासः]] [[विजयदासः]] [[कमलेशविठलः]] इत्यादयः गीसङ्गीतैः लोके भक्तिमार्गं समदर्शयन् । पुरन्दरदासस्य सर्वेषां कीर्तनानाम् अने पुरन्दरविठल इति अङ्कितं दृश्यते । पुरन्दरदासस्य १०००कीर्तनानि अद्यापि उपलभ्यानि सन्ति । अस्य सर्वाणि कीर्तनानि कन्नाडजानां कृते भक्तिमार्गप्रचोदकानि सन्ति । [[कर्णाटकसङ्गीतम्|कर्णाटकसङ्गीतविदुषाम्]] अतिप्रियः दासवरेण्यः । ५लक्षाधिकपद्यानि लिखामि इति पुरन्दरदासस्य सङ्कल्पः आसीत् । किन्तु ४,७५०००पद्यानि विरचय्य स्वावतारं समापितवान् । तस्य पुत्रः२५०००पद्यानि विरचय्य तस्य आशयं समापितवान् इति पण्डितानाम् अभिप्रायः अस्ति ।
 
==बाल्यम्==
पङ्क्तिः ४१:
 
==बाह्यानुबन्धाः==
[[वर्गः:दासपरम्परा]]
[[वर्गः:सारमञ्जूषा योजनीया]]
[[वर्गः:चित्रं योजनीयम्]]
[[वर्गः:विषयः वर्धनीयः]]
 
* [http://www.dvaita.org/haridasa/dasas/purandara/purandara.html ಪುರಂದರ ದಾಸರು]
 
* [http://www.vishvakannada.com/archives/html/vol5no1/purandar.htm ಪುರಂದರ ದಾಸರ ಬಗ್ಗೆ ಪು.ತಿ.ನ. ಅವರ ಲೇಖನ]
 
* [http://www.rasikas.org/wiki/purandaradasa ರಸಿಕ ಫೋರಮ್ ವಿಕಿಯಲ್ಲಿ ಪುರಂದರ ದಾಸರ ಬಗ್ಗೆಯ ಲೇಖನ]
 
*[http://www.nadatarangini.org/ Annual Purandara Dasa and Thyagaraja Aradhana in D.C., Maryland and Virginia]
*[http://www.youtube.com/watch?v=UOPCIjKRmcQ Bhagyada Lakshmi Baaramma] A popular Purandara Dasa composition in Sri Raagam
Line ५९ ⟶ ५१:
{{भारतस्य शास्त्रीसङ्गीतकाराः}}
'''स्थूलाक्षरैः युक्तः भागः'''
 
[[वर्गः:दासपरम्परा]]
[[वर्गः:सारमञ्जूषा योजनीया]]
[[वर्गः:चित्रं योजनीयम्]]
[[वर्गः:विषयः वर्धनीयः]]
"https://sa.wikipedia.org/wiki/पुरन्दरदासः" इत्यस्माद् प्रतिप्राप्तम्