"रामानुजाचार्यः" इत्यस्य संस्करणे भेदः

(लघु) clean up using AWB
पङ्क्तिः १२:
|honors= श्रीवैष्णवतत्त्वशास्त्रस्य आचार्यः ।
|Literary works = वेदान्तसङ्ग्रहम्, श्रीभाष्यम्, गीताभाष्यम्, वेदन्तदीपम्, वेदान्तसारम्, शरणागतिगद्यम्,श्रीरङ्गगद्यम्, श्रीवैकुण्ठगद्यम्, नित्यग्रन्थम्,
|quote=
|footnotes=
}}
Line १८ ⟶ १७:
 
==जीवनम्==
क्रि.श. १०१७तमे वर्षे दक्षिणभारतस्य [[तमिळुनाडुराज्यम्|तमिळुनाडुराज्यस्य]] पेरम्बदूरुक्षेत्रस्य तिरुकुदूरुग्रामे अस्य जन्म अभवत् । रामानुजः बाल्ये [[काञ्ची]]प्रदेशे प्रकाशगुरुणा वैदिकशिक्षां प्राप्तवान् । पश्चात् आलवन्दार् यामुनाचर्यस्य प्रधानशिष्यः अभवत् । गुरोः इच्छानुसारं ब्रह्मसूत्रस्य, विष्णुसहस्रनाम्नः, दिव्यप्रबन्धनस्य च टिकां लेखितुं सङ्कल्पितवान् । क्रमेण गृहस्थाश्रमं त्यक्त्वा श्रीरङ्गस्य यतिराजयतिना सन्न्यासदीक्षां प्राप्तवान् । मैसूरुप्रान्तस्य श्रीरङ्गतः चलन् रामानुजः शालग्रामं प्राप्य तत्र वासम् अकरोत् । तस्मिन् प्रदेशे द्वादशवर्षाणि वैष्णवमतस्य प्राचारम् अकरोत् । पश्चात् अस्य प्रचारार्थमेव समग्रदेशस्य भ्रमणम् अकरोत् । क्रि.श. ११३७तमे वर्षे रामानुजाचार्यः ब्रह्मलीनः अभवत् ।
 
==विशिष्टाद्वैतदर्शनम् ==
रामानुजाचार्यस्य दर्शने परमस्त् सम्बन्धे स्तरत्रयं विस्वस्तम् । ब्रह्म अर्थात् ईश्वरः, चित् अर्थात् आत्मा, अचित् अर्थात् प्रकृतिः । वस्तुतः चित् इत्युक्ते आत्मतत्त्वम्, अचित् इत्युक्ते प्रकृतितत्त्वम्, ईश्वरेण पृथक् न भवन्ति । विशिष्टरूपेण ब्रह्मणः एव रूपाणि भवन्ति ईश्वरेण आधारितानि च भवन्ति इति एव रामानुजाचार्यस्य विशिष्टाद्वैतसिद्धान्तः । यथा शरीरम् आत्मा च पृथक् न स्तः तथैव आत्मनः उद्देशं पूरयितुं शारीरं कार्यं करोति । एवमेव ब्रह्मणः पृथक् चित् अथवा अचित् तत्त्वस्य न किमपि अस्तित्वं भवति । रामानुजाचार्यस्य मतानुगुणं भक्तिः नाम पूजा, भजनं कीर्तनम् नास्ति । किन्तु भक्तिः नाम ईश्वरस्य ध्यानम् अथवा प्रार्थना एव । सामाजिकपरिप्रेक्ष्येण रामानुजाचार्यः भक्तिं जातिवर्गतः पृथक् न कृतवान् सर्वेषां भक्तिः साध्या इति दर्शितवान् ।
 
==बाह्यनुबन्धाः==
"https://sa.wikipedia.org/wiki/रामानुजाचार्यः" इत्यस्माद् प्रतिप्राप्तम्