"ऋग्वेदः" इत्यस्य संस्करणे भेदः

(लघु) clean up using AWB
पङ्क्तिः ५:
ज्ञानार्थकविद्धातोः निष्पन्नः वेदशब्दः । अपौरुषेयं वाक्यं वेदः इति सायणाचार्यः । इष्टानिष्टपरिहारयोः अलौकिकमुपायं यो वेदयति सः वेदः इति भाष्यभूमिकायाम् । वेदः एव श्रुतिः आम्नायः आगमः इत्यादिः श्रूयते । ब्रह्मणः मुखात् निर्गतं वेदं चतुर्धा विभज्य कृष्ण्द्वैपायनः वेदव्यासः सञ्जातः । एवं वेदाः चत्वारः ऋग्-यजु-साम-अथर्वणः इति ॥
 
==ऋग्वेदः==
 
ऋच्यते स्तूयते यया सा ऋक् । तादृशीनामृचां समूह एव ऋग्वेदः । यत्रार्थवशेन पादव्यवस्था सा ऋगिति मीमांसकाः । स ऋग्वेदः सूक्तमण्डलभेदेन द्विधा विभक्तः । तत्र सूक्तं चतुर्विधम्- ऋषिसूक्तदेवतासूक्तच्छन्दः सूक्तहोऽर्थसूक्तभेदात् । एकर्षिदृष्टमन्त्राणां समूहो ऋषिसूक्तम् । एकदेवताकमन्त्राणां समूहो देवतासूक्तम् । समानछन्दसां मन्त्राणां समूहो नामच्छन्दः सूक्तम् । यावदर्थसमाप्तानां मन्त्राणां समूहोऽर्थसूक्तम् । सुष्ठूक्तत्वात्सर्वं सूक्तमित्याख्यायते ।
पङ्क्तिः २०:
==ऋग्वेदकालः==
अधुना लोके सर्वत्र उपलभ्यमानेषु सर्वेषु ग्रन्थेषु प्राचीनतमः अयम् ऋग्वेदः सर्वज्ञानस्याधारभूतः भवति । अस्य रचनाकालस्य निर्णये सर्वपण्डितमण्डलेषु भिन्नाभिप्रायो दृश्यते । तथापि अस्माभिः भारतीयैः वेदस्य अपौरुषेयत्वं मन्यमानैः ऋग्वेदस्यास्यापि अनादित्वं प्रकल्पितम् । अत्र मन्त्रद्रष्टार एव ऋषयः न तु कर्तारः ॥
वेदस्य अपौरुषेयत्वम् अङ्गीकर्तुमसमर्थैः पाश्चात्यकोविदैः ऋषिप्रणीतः वेदः इति निर्धार्य प्राचीनतमस्य अस्य कालः क्रि.पू.२००० वर्षतः ६००० पर्यन्तं मन्यते । परन्तु लोकमान्यबालगङ्गाधरमहाभागेन वेदवर्णितनक्षत्रविष- यकसूचनामवलम्ब्य गणितेन ज्योतिषेण च वेदरचनाकालः क्रि.पू.६००० वर्षतः पूर्वमेवेति निश्चयः कृतः । वेदगतभूगर्भशास्त्रसिध्दान्तमनुसृत्य डा. अविनाशचन्द्रमहोदयेन अनेकलक्षवर्षपूर्वमेव अस्य रचना सम्पन्ना इति प्रख्यापितम् । इत्यम्भूते सति अस्मत्प्राचीनैः यद्वेदस्य अपौरुषेयत्वम् अनादित्वं च कल्पितं तत्स्वीकारे का क्षतिः ? एवमेव वेदरचनाकालवादेन अस्माभिः ज्ञातुं शक्यते वेदेषु प्राचीनस्य ऋग्वेदस्य कालः अपि ॥
 
==ऋग्वेदस्य क्रमीकरणम्==
"https://sa.wikipedia.org/wiki/ऋग्वेदः" इत्यस्माद् प्रतिप्राप्तम्