"सोमनाथः" इत्यस्य संस्करणे भेदः

(लघु)No edit summary
(लघु) clean up using AWB
पङ्क्तिः ३०:
| subdivision_name3 = [http://www.somnath.org/ www.somnath.org]
}}
'''सोमनाथ'''मन्दिरं ({{lang-gu|સોમનાથ}}, {{lang-en|Somnath}}) [[गुजरातराज्यम्|गुजरातराज्यस्य]] पश्चिमभागे अर्थात् सौराष्ट्रे प्रभासपाटणपत्तने समुद्रतटे स्थितं भव्यमन्दिरं वर्तते । समुद्रस्य तरङ्गाः सोमनाथस्य पादक्षालनेच्छया पौनःपुन्येन आगच्छन्तः तस्य पादपद्मे लीनाः भवन्ति । सोमनाथः द्वादशज्योतिर्लिङ्गेषु प्रप्रथममं महत्तमञ्च ज्योतिर्लिङ्गं वर्तते । सोमेश्वरः इत्यप्यस्य नामान्तरम् । [[चन्द्रः]] (सोमः) अस्य लिङ्गस्य स्थापनां कृतवान् । अत्रैव [[कपिलानदी]]-[[सरस्वतीनदी]]-[[हिरण्यानदी]]नां सङ्गमः भवति । अत एतद् क्षेत्रं त्रिवेणीक्षेत्रमिति नाम्नापि प्रसिद्धम् ।
 
== पुराणे सोमनाथः ==
पङ्क्तिः ३६:
पुराणेषूल्लेखोस्ति यत् [[त्रेतायुगम्|त्रेतायुगे]] वैवस्वतमन्वन्तरे शुक्लपक्षस्य तृतीयायां अस्य मन्दिरस्य स्थापना बभूव । अत्रैव [[चन्द्रः]] तपः कृतवानासीत् । एतल्लिङ्गं चन्द्र एव अस्थापयत् । पौराणिककथानुसारं [[चन्द्रः]] दक्षस्य सप्तविंशतिकन्याभिः सह विवाहं कृतवान् आसीत् । परन्तु [[चन्द्रः]] (दक्षस्य लघुत्तमा कन्या) रोहिण्याम् अधिकं स्निह्यति स्म । तेन अन्ये चन्द्रपत्नीनाम् अवगणना तु भवति स्म, परन्तु तेषामपमानमपि भवति स्म । द्विवारं दक्षः स्वजामातरं "एवं न करु" इति पर्यबोधयत । परन्तु चन्द्रः स्वव्यवहारं न परिवर्तितवान् । तेन कुपितः दक्षः चन्द्रं "त्वं क्षयरोगी भव" इति अशप्यत् । [[चन्द्रः|चन्द्रे]] क्षये सति देवाः भीताः सन् [[चित्रम्:Somnath.jpg|thumb|right|350px|'''भगवान् श्रीसोमनाथः''']] [[ब्रह्मा|ब्रह्मणः]] समीपं गताः । [[ब्रह्मा]] अवदत्, [[चन्द्रः]] प्रभासपाटणक्षेत्रे शिवोपासनां करोति चेत् तस्य शापशमनं भवेत् इति । [[चन्द्रः]] सौराष्टे स्थितं प्रभासपाटणक्षेत्रम् गत्वा शिवलिङ्गञ्च निर्माय शिवोपासनां प्रारभत । [[शिवः|शिवे]] प्रसन्ने सति चन्द्रं शापमुक्तम् अकरोत् । तदा [[शिवः]] अकथयत्, इतः परम् अहमत्र सोमनाथरूपेण निवसामीति । सोमलिङ्गस्य दर्शनेन भक्तानां सर्वाणि पापानि नश्यन्ति । अपेक्षितं फलं प्राप्य मरणानन्तरं स्वर्गं प्राप्नुवन्ति इति विश्वासः अस्ति । प्रभासक्षेत्रस्य परिभ्रमणेन पृथ्वीप्रदक्षिणफलं प्राप्यते इति [[शिवपुराणम्|शिवपुराणस्य]] कोटिरुद्रसंहितायाम् उक्तम् अस्ति ।
 
[[स्कन्दपुराणम्|स्कन्दपुराणे]] “प्रभासखण्डः” इति पृथक् विभागः एव अस्ति । तत्र प्रभासतीर्थस्य एव वर्णनं कृतम् अस्ति । [[ऋग्वेद]]स्य खिलसूक्ते अपि सोमनाथक्षेत्रस्य उल्लेखः अस्ति ।
 
<poem>
पङ्क्तिः ५०:
पुरा मुख्यमन्दिरस्य पुरोभागे २०० किलोभारयुता स्वर्णशृङ्खलायुता महाघण्टा आसीत् । कर्मकराणां कार्यसमयस्य परिवर्तनावसरे एतां घण्टां वादयन्ति स्म । मन्दिरस्य पूजादिकार्यनिर्वहणाय १००० [[ब्राह्मणः|ब्राह्मणाः]] नियुक्ताः आसन् । यात्रिकाणां क्षौरकार्यार्थम् एव ३०० नापिताः नियुक्ताः आसन् । देवालयस्य नित्यनैमित्तिक-गायनवादननिमित्तं ३०० गायकानां, ५०० कलाविदां च नियुक्तिः कृता आसीत् । मन्दिरस्य निर्वहणार्थं १०,००० ग्रामेभ्यः ३० कोटिमितानां रूप्यकाणां निधिः सङ्गृहीतः आसीत् ।
[[चित्रम्:Somnath Temple 1869.jpg|thumb|right|200px|'''१८६९ तमे वर्षे सोमनाथः''']]
चन्द्रस्थापितम् एतन्मन्दिरं बहुवारं ध्वस्तं जातमस्ति । परन्तु सर्वदा शिवभक्ताः एतस्य पुनर्निर्माणं कृतवन्तः । सर्वप्रथमं [[चन्द्रः]] इदं मन्दिरं स्वर्णेन निर्मापितवान्, यस्य ध्वंसानन्तरं [[रावणः]] रजतेन मन्दिरस्य पुनर्निर्माणं कारितवान्, अस्यापि ध्वंसानन्तरं भगवान् [[विष्णुः]] चन्दनकाष्ठैः अस्य मन्दिरस्य पुनर्निर्माणं कारयामास । तदनन्तरमपि अस्य मन्दिरस्य ध्वंसः, पुनर्निर्माणश्च बहुवारं अभूत् ।[[चित्रम्:OldSom.jpg|thumb|right|200px|'''ध्वस्तं सोमनाथमन्दिरम्''']] ७२५ तमे वर्षे 'जूनायद' नामकः 'आरब'शासकः एतन्मन्दिरम् अलुण्ठत् अध्वंसत च । ततः ८१५ तमे वर्षे नागभट्टनामकः कश्चन राजा पुनर्निर्माणं कारितवान् । पुनः १०२६ तमे वर्षे 'महमद गजनी' नामकः यवनराजा मन्दिरम् अलुण्ठत् । एषोऽपि मन्दिरं ध्वस्तं कृतवान् परन्तु कथं चेद् असख्यकानां यात्रिकानां वधं कृत्वा, अन्ते मन्दिरं अग्निसात्करोत् । पश्चाद् १०२६-१०४२ मध्ये राजा भीमदेवः पुनर्निर्माणं कारितवान् । १७०६ तमे वर्षे मोगल राजा औरङ्गजेब सोमनाथं अलुण्ठत् अध्वंसत च ।
 
आहत्य, सप्तदशवारम् अस्य मन्दिरस्य ध्वंसः कृत: आसीत् इति उल्लेखो मिलति । अधुना यद् मन्दिरमस्ति, तस्य पुनर्निर्माणकार्यम् महान् नेता लोहपुरुषश्च [[सरदार् वल्लभभाई पटेलः]] १९४७ तमे वर्षे नवम्बरमासस्य ३० दिनाङ्के आरब्धवान् । १९५१ तमे वर्षे मेमासस्य ११ दिनाङ्के राष्ट्रपतिः श्री[[राजेन्द्रप्रसादः]] अत्र प्राणप्रतिष्ठाम् अकरोत् । मूलस्थाने पुनः वैभवयुतं मन्दिरं शिरः उन्नीय स्थितम् । एतत् मन्दिरम् अद्य अत्यन्तं सुन्दरम् अपूर्वशिल्पकलायुक्तमन्दिरं सञ्जातम् । प्राचीनस्य सोमनाथमन्दिरस्य अवशेषाः अट्टोपरि सङ्गृहीताः सन्ति । [[पालिताणा]]पत्तनस्य प्रसिद्धस्य शिल्पिनः प्रभुशङ्करसोमपुरा इत्याख्यस्य मार्गदर्शनेन एतत् मन्दिरं निर्मितम् आसीत् । [[महाराष्ट्रराज्यम्|महाराष्ट्रस्य]] सुप्रसिद्धवैदिकपण्डितस्य लक्षमणशास्त्रिजोशी इत्येतस्य पौरोहित्ये अत्र प्राणप्रतिष्ठा जाता । तस्य गुरुः श्रीकेवलानन्दसरस्वती अपि अस्मिन् कार्यक्रमे भागम् गृहीतवान् ।
पङ्क्तिः ५९:
=== श्रीप्रभासतीर्थः ===
 
अत्र लक्ष्मीनारायणौ विराजेते । अत्र गीतामन्दिरे श्रीमद्भग्वद्गीतायाः सर्वे ७०० श्लोकाः अष्टश्वेतप्रस्तरेषु उत्कीर्णाः सन्ति । अत्र भगवतः [[कृष्णः|श्रीकृष्णस्य]] चरणचिह्नम् अस्ति । गीतामन्दिरस्य समीपे भगवतः बलरामस्यान्तर्ध्यानस्थलमस्ति । शेषावतारी बलरामः अत्रैव पाताललोकं प्रविष्टवान् । अतः एतस्य स्थलस्य नाम देहोत्सर्गः इति ।
 
=== श्रीपरशुराममन्दिरम् ===
पङ्क्तिः ७३:
एतदेव भगवतः [[कृष्णः|श्रीकृष्णस्य]] देहोत्सर्गस्थानम् । जरा नामकः कश्चन व्याधः हरिणं मत्वा शरेण श्री[[कृष्ण]]स्य पादतले प्रहारम् अकरोत् । स्वस्य दोषे ज्ञाते सति व्याधः क्षमां अयाचत,[[कृष्णः|श्रीकृष्णः]] तं अक्षाम्यच्च । एषा लीला पिप्पलवृक्षस्याधः अभूत् । सः पिप्पलवृक्षः अधुनापि तत्रास्ति । एतत् स्थानं भक्तानां हृदयशान्तिदायकमस्ति ।
[[चित्रम्:Bhalka.jpg|thumb|left|230px|'''व्याधस्य क्षमायाचनम्''']]
 
 
 
 
 
 
 
 
 
 
 
 
 
 
 
 
 
 
== मार्गाः ==
Line ९५ ⟶ ७८:
=== धूमशकटमार्गः ===
 
[[भारतम्|भारतस्य]] [[गुजरातराज्यम्|गुजरातराज्यस्य]] च अन्यभागतः सोमनाथरेलस्थानं सरलतया प्राप्तुं शक्यते ।
 
=== भूमार्गः ===
Line १०१ ⟶ ८४:
सोमनाथः [[अहमदाबाद्]]तः ४०८ कि.मी., [[जुनागढ]]तः ७९ कि.मी., चोरवाळातः २५ कि.मी. दूरे अस्ति । एतेभ्यः स्थलेभ्यः सोमनाथं प्राप्तुं यानानि मिलन्ति ।
 
[[वर्गः:द्वादश ज्योतिर्लिङ्गानि]]
[[वर्गः:गुजरातराज्यस्य प्रेक्षणीयस्थानानि]]
[[वर्गः:गुजरातस्य तीर्थक्षेत्राणि]]
"https://sa.wikipedia.org/wiki/सोमनाथः" इत्यस्माद् प्रतिप्राप्तम्