"उपमालङ्कारः" इत्यस्य संस्करणे भेदः

No edit summary
(लघु) clean up, added underlinked tag using AWB
पङ्क्तिः १:
{{Underlinked|date=जनुवरि २०१४}}
 
उपालङ्कारस्तु एकः [[अर्थालङ्कारः]] वर्तते ।
 
Line ७ ⟶ ९:
यत्र उपमानोपमेययोः सहृदयहृदयाह्लादकत्वेन चारुसादृश्यमुद्भूततयोल्लसति व्यङ्ग्यमर्यादां विना स्पष्टं प्रकाशते तत्र उपमालङ्कारः । इयं च पूर्णौपमेत्युच्यते । हंसी कीर्तिः स्वर्गङ्गावगाहनमिव शब्दश्चेत्ये तेषामुपमानोपमेयसाधारणधर्मोपवाचकानां चतुर्णामप्युपादानात् ।
 
यत्र यस्मिन् काव्ये द्वयोर्व्स्तुनोरुपमानोपमेयत्वेन प्रसिध्दयोः सादृश्यस्य लक्ष्मीः संपत्, सहृदयहृदयाह्लादि सादृश्यमित्यर्थः, उल्लसति उद्भूततया भाति (व्यङ्गयमर्यादां विना) स्पष्टं प्रकाशते सा तथाभासमाना सादृश्यलक्ष्मीरुपमा इति लक्षणम् । हे कृष्ण ते तव कीर्तिः हंसीव स्वर्गङ्गामाकाशगङ्गामवगाहते इत्युदाहरणम् । अत्र कीर्तिहंस्योः सादृश्यलक्ष्मीः स्पष्टं प्रकाशत इत्युपमालङ्कारः
 
==उपमायाः अवयवाः==
Line १५ ⟶ १७:
संक्षेपतः उपमा द्विविधा – पूर्णा, लुप्ताचेति । यत्र चतुर्णामप्युपमावयवानामुपादानं तत्र पूर्णोपमा, यथा हंसीवेत्यादिपूर्वोदाहृते हंसी उपमानम्,कीर्तिरुपमेयम्, स्वर्गङ्गावगाहनं साधारणो धर्मः, इवशब्दः उपमावाचक इति चतुर्णामप्युपादानात्पूर्णोपमा ।
===पूर्णोपमा===
 
:गुणदोषौ बुधो गृह्णन् इन्दुक्ष्वेडाविवेश्वरः ।
Line २४ ⟶ २६:
वस्तुतो भिन्नयोरप्युपमानोपमेयधर्मयोः परस्परसादृश्यादभिन्न तयाध्यवसितयोः पृथगुपादानं बिम्बप्रतिबिम्बभावः ।
 
=== लुप्तोपमा===
 
:वर्ण्योपमानघर्माणामुपमावाचकस्य च ।
Line ६५ ⟶ ६७:
* कीर्तिः = साधारणधर्मः
* इव = उपमावाचकशब्दः
 
 
==बाह्यसम्पर्कतन्तुः==
"https://sa.wikipedia.org/wiki/उपमालङ्कारः" इत्यस्माद् प्रतिप्राप्तम्