"विश्वेश्वरः" इत्यस्य संस्करणे भेदः

(लघु) clean up using AWB
पङ्क्तिः १:
द्वादश ज्योतिर्लिङ्गानाम् आवल्याम् '''विश्वेश्वरः''' सप्तमं ज्योतिर्लिङ्गम् अस्ति । विश्वेश्वरः अस्ति जगत्प्रसिद्धे [[काशी]]क्षेत्रे । एतत् [[भारतम्|भारत]]स्य अत्यन्तं प्राचीनं तीर्थक्षेत्रम् अस्ति । “काश्यां मरणान्मुक्तिः” इति उक्तिरेव अस्ति । परमपवित्रायाः [[गङ्गा|गङ्गायाः]] तटे स्थितम् एतत् दिव्यक्षेत्रं भारतीयानां तत्रापि शिवभक्तानां परमं श्रद्धाकेन्द्रम् । काश्याः उल्लेखः [[वेदाः|वेदेषु]], [[उपनिषत्|उपनिष्त्सु]], [[रामायणम्|रामायणे]], [[महाभारतम्|महाभारते]], [[पुराणम्|पुराणेषु]], बौद्ध-जैनसाहित्येषु सर्वत्र अपि अस्ति एव । [[स्कन्दपुराणम्|स्कन्दपुराणस्य]] काशीखण्डे अस्य नगरस्य महत्त्वं वैभवं च वर्णयन्तः १५,००० श्लोकाः सन्ति । महाभारतानुसारं दिवोदासनामकः राजा [[इन्द्रः|इन्द्रस्य]] इच्छानुसारम् एतत् नगरं निर्मितवान् इति । एतत् नगरं [[शिवः|शिवस्य]] देवसाम्राज्यस्य राजधानी । एतत् सप्तमोक्षदायकेषु नगरेषु अपि अन्यतमम् ।
 
एतत् काशीनगरं वाराणसी, बनारस्, अविमुक्तकम्, आनन्दकाननम्, महाश्मशानम् इत्यपि वदन्ति । “कास्” इत्युक्ते तेजः, प्रकाशः इति अर्थः । ज्ञानदातॄणां विद्यावतां भूमिः इति कारणात् एतत् नगरं “काशी” इति उक्तम् । वारणा, असी इत्येतयोः द्वयोः नद्योः मध्ये एतत् नगरं स्थितम् अस्ति इति कारणात् “वाराणसी” इति उच्यते । अष्टभ्यः शतकेभ्यः पूर्वम् एतत् नगरं “बनारा” नामकस्य महाराजस्य राजधानी आसीत् । तस्मात् “बनारस्” इति नाम प्राप्तम् । “अवि” इत्युक्ते पापम् इत्यर्थः । देवगङ्गायाः शिवस्य च सान्निध्यं पापं नाशयति अथवा पापात् मोचयति इति कारणात् “अविमुक्तकम्” इति उच्यते । सत्-चित्-आनन्ददातुः शिवस्य एव आनन्ददायकं क्षेत्रम् इति कारणात् “आनन्दकाननम्” इति उच्यते । शिवः श्मशानवासी, शिवस्य वासस्थानं, पञ्चभूतानाम् एकीभवनस्थानं च इति कारणात् “महाश्मशानम्” इति उक्तम् अस्ति । एतदेकं शक्तिपीठम् अपि । सतीदेवी अत्र विशालाक्षीरूपेण स्थिता अस्ति ।
 
अत्र काश्यां विश्वनाथस्य पदतले प्रवहतः नदीजलस्य रोगनिवारकशक्तिः अस्ति इति । विश्वेश्वरमन्दिरस्य समीपे एव “ज्ञानवापि” नामकः कूपः अस्ति । गङ्गायाः आगमनात् पूर्वम् अस्य एव कूपस्य जलेन शिवस्य अर्चनं क्रियते स्म । तदर्थमेव “जटिल”नमकः ऋषिः अस्य कूपस्य खननं कारितवान् इति । विधर्मीयाणाम् आक्रमणावसरे सर्वदा विश्वनाथस्य मूललिङ्गम् अस्मिन् कूपे एव गोपयन्ति स्म । तस्मादेव कारणात् यद्यपि काश्याः उपरि नैकवारम् आक्रमणं सञ्जातं तथापि शिवलिङ्गम् अद्यापि अभग्नम् एव अस्ति । अत्र काश्यां विश्वेश्वररः एव चक्रवर्ती, हरेश्वरः मन्त्री, ब्रह्मेश्वरः कथावाचकः, भैरवेश्वरः नगरक्षकः, तारकेश्वरः धनाधिपतिः, तत्र विद्यमानानि सहस्रशः शिवलिङ्गानि एव प्रजापालकाः । अतः काश्यां यत्किमपि लिङ्गम् अर्चन्ति चेदपि तत् विश्वनाथस्य एव अर्चनं भवति । विश्वेश्वरमन्दिरस्य पार्श्वे एव अक्षयवटवृक्षः अस्ति । तं वृक्षं परितः प्राचिनमन्दिराणाम् अवशेषाः सन्ति । काश्यां विद्यमनां चक्रपुष्करिणीम् “आदितीर्थम्” इति वदन्ति । एतत् तीर्थं श्रीहरेः चक्रेण निर्मितम् इति । एतत् [[विष्णुः|विष्णोः]] तपोभूमिः । कदाचित् शिवः [[पर्वती|पार्वत्या]] सह विष्णोः मेलनार्थम् अत्र आगतः । तदा अत्रत्यां चक्रपुष्करिण्याः दर्शनेन सन्तुष्टः सः नृत्यम् अकरोत् । तदवसरे तस्य कर्णाभरणम् पुष्करिण्यां पतितम् । तदारभ्य तस्याः पुष्करिण्याः नाम् “मणिकर्णिका” इति जातम् । मणिकर्णिकाघट्टे विद्यमाने श्मशाने एव सत्यवान् [[हरिश्चन्द्रः]] श्मशानवासी आसीत् ।
 
 
"https://sa.wikipedia.org/wiki/विश्वेश्वरः" इत्यस्माद् प्रतिप्राप्तम्