"होय्सळवंशः" इत्यस्य संस्करणे भेदः

(लघु) (Script) File renamed: File:Somnathpur.jpgFile:Relief sculpture at Chennakeshava temple in Somanathapura.jpg File renaming criterion #2: Change from completely meaningless names into suitable n...
पङ्क्तिः १०४:
योय्सळानां प्रशासनकाले [[संस्कृतम्|संस्कृतभाषा]]साहित्यानि अतीव जनप्रियानि अभवन् । [[कन्नडभाषा]]विदुषां राजाश्रयः आसीत् । द्वादशशतके काश्चन साहित्यकृतयः [[चम्पू]]शैल्या रचिताः । अन्याः विशिष्टशैल्यः अपि विश्रुताः अभवन् । साङ्गत्यम्, षट्पदी, रगळे इत्याद्याः अधुनिकशैल्यः आगताः । तीर्थङ्कराणां महिमाप्रशंसनं जैनकृतयः अकुर्वन् । [[कन्नडभाषा|कन्नड]]साहियपरम्परायाम् अद्यापि विश्रुताः जन्नः, रुद्रभट्टः, नागचन्द्रः, हरिहरः,राघवाङ्कः चेत्यादयः होय्सळराजाश्रयम् आप्नुवन् । क्रि.सा. १२०९तमे वर्षे जैनकविः जन्नः यशोधरचरितम् इति कृतिम् अरचयत् । ग्रामदेवतायै बालकौ बलिं दातुकमस्य राज्ञः कथा अत्र निरूपिता । अस्य ग्रन्थस्य रचनार्थं होय्सळराजः वीरबल्लाळः जन्नकवये कविचक्रवर्ती इति उपाधिम् अयच्छत् । द्वीतीयः विरबल्लाळस्य आस्थानमन्त्री चन्द्रमौलेः आश्रये स्मार्तब्राह्मणः रुद्रभट्टः प्रथमः विप्रकविः । तस्य चम्पूशैल्याः जगन्नातविजयः इति प्रसिद्धा कृतिः विष्णुपुराणाधृता । प्रथमनरसिंहस्य आस्थाने शोभितः कविः हरिहरः (हरीश्वरः इत्यपि नामान्तरम्) प्राचीनजैनचम्पूशैल्या गिरिजाकल्याणम् इति कृतिम् अरचयत् । दशविभागयुतस्य अस्य ग्रन्थस्य कथावस्तु शिवपार्वत्योः परिणयः । वचनसाहित्यस्य परम्परायाः प्रथमवीरशैवकविः हरहरोऽपि अन्यतमः । [[हळेबीडु]]प्रदेशस्य करणिकानां कुले जतः हरिहरः [[हम्पी]]प्रदेशे अनेकवर्षाणि आसीत् । तत्रैव वसन् शताधिकरगळेसाहित्यानि व्यरचयत् । एतानि हम्पीविरूपाक्षस्य गुणगानं कुर्वन्ति । राघवाङ्कः स्वस्य हरिश्चान्द्रकाव्यम् इति काव्यद्वारा षट्पदीतिशैल्याः परिचयं प्रथमवारं कारितवान् । [[कन्नडभाषा]]याः व्याकरणनियमान् कदादित् उल्लङ्घितवान् अपि एषा कन्नडसहित्यस्य श्रेष्ठा कृतिः इति परिगणिता । [[संस्कृतम्|संस्कृतभाषया]] [[मध्वाचार्यः]] [[ब्रह्मसूत्राणि|ब्रह्मसूत्राणां]] भाष्यं रचितवान् । अपि च वैदिकशाखाः विमर्शस्य च लेखान् अपि व्यलिखत् । स्वग्रन्थानां प्रमाणग्रन्थाः इव वेदानां पर्यायेन पुराणानि परिगणितवान् । [[विद्यातीर्थः|विद्यातीर्थेन]] रचितः रुद्रप्रश्नाभाष्यम् होय्सळकालस्य ख्यातग्रन्तः ।
 
[[चित्रम्: SomnathpurRelief sculpture at Chennakeshava temple in Somanathapura.jpg|thumb|सोमनाथपुरे होय्सळशिल्पम्]]
===शिल्पकलावैभवम्===
होय्सळराजानां साम्राज्यविस्तरणस्य अपेक्षया कलानां शिल्पकलासंवर्धनम् एव प्रधानम् । अस्मिन् विषये आधुनिकसंशोधः बहुमुख्यः भवति । दक्षिणतः पाण्डैः उत्तरतः सेवुणैः च आक्रमणस्य भयम् अस्ति चेदपि होय्सळानां देवालयनिर्माणकार्यं न स्थगितम् । पश्चिमस्य [[चालुक्यवंशः|चालुक्यानां]] शिल्पकलाशैल्याः शाखा इव प्रवर्धिता होय्सळशैली । होय्सळानां मन्दिरशिल्पकलासु सूक्ष्मक्षदनस्य प्रामुख्यम् अस्ति । मन्दिरस्य गोपुरस्य विमाने औन्नत्यस्य स्थौल्यंस्य चापेक्षया कलासूक्ष्मस्य विषये एव आदरः प्रदत्तः । मृदुशिलाः देवालयनिर्माणे उपयोजयन्ति स्म । [[बेलूरु]]चेन्नकेशवदेवालयः, (क्रि.शा. १११७) [[हळेबीडु]]होय्सळेश्वरदेवालयः (क्रि.श. ११२१) [[सोमनाथपुरम्|सोमनाथपुरस्य]] चेन्नकेश्वदेवालयः (क्रि.श. १२७९) अरसीकेरे (क्रि.श. १२२०) अमृतपुरम् ( क्रि.श. ११९६) यळेशपुरस्य एळ्ळेश्वरदेवालयः (क्रि.श. १२३८) बेळवाडी (क्रि.स. १२००) जुग्गेहळ्ळि (क्रि.सा. १२४६) [[शिवमोग्गामण्डलम्|शिवमोग्गामण्डलस्य]] सागरोपमण्डलस्य नाडकलसि (क्रि.श. १२१८) मन्दिराणि होय्सळानां शिल्पकलायाः उत्कृष्टोदाहरणानि । [[हासनमण्डलम्|हासनमण्डलस्य]] दोड्डगद्दवळ्ळि महालक्ष्मीदेवालयः महालक्ष्मीदेवालयः, कोरवङ्गलस्य बूचेश्वरदेवालयः, हारनहळ्ळि लक्ष्मीनरसिंहदेवालयः, मोसळे चेन्नकेशवनागेश्वरदेवालयः, इत्यदिषु मन्दिराणां बहिः भारतीयपुर्णाणानां कथाः प्रदक्षिणक्रमेण चित्रिताः ।
"https://sa.wikipedia.org/wiki/होय्सळवंशः" इत्यस्माद् प्रतिप्राप्तम्