"साङ्गलीमण्डलम्" इत्यस्य संस्करणे भेदः

No edit summary
No edit summary
पङ्क्तिः १५:
| subdivision_name2 = मिरज, कवठे महाकाळ, जत, आटपाडी, तासगाव, पलुस, वाळवा, शिराळा, विटा-खानापुर, कडेगाव
| subdivision_type3 = विस्तारः
| subdivision_name3 =,८९७५७७ च.कि.मी.
| subdivision_type4 = जनसङ्ख्या(२०११)
| subdivision_name4 =२०२८,४८२२,७८१ १४३
| government_type =
| governing_body =
पङ्क्तिः ३७:
 
 
'''साङ्गलीमण्डलं''' ({{lang-mr|सांगली जिल्हा}}, {{lang-en|Sangli District}}) [[महाराष्ट्र]]राज्ये स्थितं मण्डलम् । अस्य मण्डलस्य केन्द्रं [[साङ्गली]] इत्येतन्नगरम् | दुग्ध-फल-मन्दिर-योद्धॄणां मण्डलमिदम् कथ्यते । 'बत्तीस-शिराळा' स्थानार्थं प्रसिद्धम् इदं मण्डलम् । दाडिम-द्राक्षाफलानां विदेशविक्रयणार्थंउत्पादनप्राचुर्यात् मण्डलमिदं प्रसिद्धम् । मिरज उपमण्डलंउपमण्डले सङ्गीतसाधननिर्माणार्थंसङ्गीतसाधनानां निर्माणप्राचुर्यात् तथा प्रसिद्धम् ।
 
==भौगोलिकम्==
 
साङ्गलीमण्डलस्य विस्तारः ८५७७८,५७७ चतुरस्रकिलोमीटर्मितः अस्ति । अस्य मण्डलस्य पूर्वदिशि [[कर्णाटकराज्यम्|कर्णाटकराज्यं]], पश्चिमदिशि [[रत्नगिरिमण्डलम्]], उत्तरदिशि [[सोलापुरमण्डलम्|सोलापुरमण्डलं]], दक्षिणदिशि [[कर्णाटकराज्यम्]] अस्ति । अस्य मण्डलस्य मुख्यनद्याः सन्ति [[कृष्णा]], [[वारणा]], [[माणगङ्गा]] च । अस्मिन् मण्डले ४००-४५० मिल्लीमीटर्मितः वार्षिकवृष्टिपातः भवति । मण्डलस्य पश्चिमसीमाप्रदेशे सह्यावल्या: प्रमुखा श्रेणी वर्तते ।
 
== कृषि: उद्यमाश्च ==
 
अस्य मण्डलस्य तण्डुल:, यवनाल:(ज्वारी), 'बाजरी', कलाय:, हरिद्रा, 'सोयाबीन', इक्षु:, गोधूम:, द्राक्षाफलानि, दाडिमफलानि च इत्येतानि प्रमुखसस्योत्पादनानि सन्ति । [[भारत]]देशे प्रचलति हरिद्राविक्रयणे ८०% हरिद्रा अस्मिन्नेव मण्डले उत्पाद्यते, हरिद्राया: निक्षेपश्च(storage) भवति । तथा साङ्गलीमण्डलपरिसर: [[भारत]]देशस्य 'शर्करा कक्ष्या'(sugar belt) कथ्यते । शर्करानिर्माणोद्यम:, दुग्धव्यवसाय: च प्रचलत: अत्र । शर्करानिर्माण-क्षेत्रे 'सहकारि'-सङ्घा: सन्ति । १९९० तमवर्षपर्यन्तं य: शर्करा-उद्यम: एशियाखण्डे बृहत्तम: आसीत् स: अत्रस्थैव । साङ्ग्लीमण्डलं मदिरानिर्माणोद्यमे प्रवेशं कुर्वन्नस्तिकुर्वदस्ति, 'कृष्ण-व्हेली-वाईन-पार्क', पलुस इति [[महाराष्ट्र]]शासनस्य प्रकल्प: विश्वे ख्यात: । मण्डलमिदं मदिराया: विदेशविक्रयणे अग्रणीअग्रगण्यं वर्तते । केन्द्रसर्वकारेण कृषिनिर्यातप्रक्रियाकेन्द्रत्वेन(Agri−Export Processing Zone‌) साङ्गलीमण्डलं विज्ञापितम् अस्ति । साङ्गली-खाद्योद्यानम्(Sangli Food Park) इति प्रकल्प: शासनयोजनायां विद्यते । <br>
शर्करा-उद्यमा:, 'आय.टी.पार्क' इत्येता: उद्यमा: प्रचलन्ति ।
==जनसङ्ख्या==
 
साङ्गलीमण्डलस्य जनसङ्ख्या(२०११) २८,२२,१४३ अस्ति । अस्मिन् १४,३५,७२८ पुरुषा:, १३,८६,४१५ महिला: च सन्ति । अस्मिन् मण्डले प्रतिचतुरस्रकिलोमीटर्मितेचतुरस्रकिलोमीटर्मिते क्षेत्रे ३२९ जनाः वसन्ति अर्थात् अस्य मण्डलस्य जनसङ्ख्यासान्द्रता प्रतिचतुरस्रकिलोमीटर् ३२९ जनाः । २००१-२०११ दशके अस्मिन् मण्डले जनसङ्ख्यावृद्धिः ९.२४% आसीत् । अत्र पुं-स्त्री अनुपातः १०००-९६६ अस्ति । अत्र साक्षरता ८१.४८ % अस्ति ।
 
== ऐतिहासिकं किञ्चित् ==
 
मण्डलपरिसरोऽयं मौर्य-सातवाहन-वाकाटक-राष्ट्रकूट-चालुक्य-शिलाहार-यादव-बहमनी-मुघल-मराठाराजानाम् आधिपत्ये आसीत् । [[भारत]]देशस्य स्वातन्त्र्यसङ्ग्राम-इतिहासे अमर: बिळाशी-सत्याग्रह: अत्रस्थजनै: कृत: । स्वातन्त्र्योत्तरकाले यदा विलीनिकरणंविलीनीकरणं जातं तदा परिसरोऽयं सातारामण्डले समाविष्ट: आसीत् । अन्तिमतया १९६० तमे वर्षे अद्यतन -साङ्गलीमण्डलस्य स्थापना जाता ।
 
== उपमण्डलानि ==
पङ्क्तिः ७३:
== लोकजीवनम् ==
 
कृषि-उद्यमभ्यांउद्यमाभ्यां सह इदानीम् आय टी पार्क इत्यादीनां सेवाक्षेत्रसम्बद्धानां उद्यमानां विकास: जायमान: अस्ति । तस्य विकासस्य प्रभाव: जनानां व्यवहारेऽपि दृश्यते । <br> पुरातनकालत: बहूनां क्रान्तिकारकाणां, साहित्यिकानां च जन्मस्थानं, कार्यस्थलं वा अयं परिसर: । सद्यकालेऽपिसद्य:कालेऽपि तस्य प्रभाव: अस्ति एव । <br> व्यापारिकेन्द्रत्वेन अपि अस्य परिसरस्य विकास: जायमान: अस्ति । <br>'बत्तिसशिराळा' इत्यस्मिन् स्थाने नागपञ्चमीदिने एका यात्रा प्रचलति । 'नाग' इति सर्पजाते: सर्पाणांनागानां शोभायात्राशोभायात्रां जना: कारयन्ति, पूजनं च कुर्वन्ति । बागणी इत्यत्र यात्रा प्रचलति । एवम् उत्सवप्रिया: अत्रस्था: जना: ।
 
== व्यक्तिविशेषा: ==
पङ्क्तिः ८३:
अस्मिन् मण्डले बहूनि प्रसिद्धानि वीक्षणीयस्थलानि सन्ति । तानि -
 
* दण्डोबा -अभयारण्यम्
* चान्दोली -जलबन्ध:, अभयारण्यं च
* मिरज इत्यत्र 'दर्गा'
* सागरेश्वर/सङ्गमेश्वरमन्दिरम्, अभयारण्यम् (हरिपूर)
* प्रचितगड -कोट:
* नागपञ्चमीदिने यात्रा, बत्तीस शिराळा
* गणेशमन्दिरम्, तासगाव
* शुकाचार्यस्य गह्वर:, भिवघाट
* गणेशदुर्ग -कोट:
* दत्तमन्दिरम्, औदुम्बर
* भूमिकोट:, बागणी
 
"https://sa.wikipedia.org/wiki/साङ्गलीमण्डलम्" इत्यस्माद् प्रतिप्राप्तम्