"मीमांसादर्शनम्" इत्यस्य संस्करणे भेदः

(लघु) clean up using AWB
No edit summary
पङ्क्तिः २:
मीमांसादर्शनं (Mīmāṃsā) [[भारतीयदर्शनशास्त्रम्|भारतीयदर्शनेषु]] अन्यतमम् । इदं दर्शनं मूलतः अनीश्वरवादि दर्शनमस्ति । यद्यपि कतिपये विचारका मीमांसादर्शनं दर्शनरुपेण स्वीकर्तुं विवदन्ति तथापि वेदानां कर्मपरतां व्याख्यां धर्मस्वरुपविचारं च दृष्ट्वाऽमुष्यदर्शनस्वरुपे आपत्तिर्नास्ति । इतरदर्शनेष्विव मीमांसादर्शनेऽपि आत्मतत्त्वस्य विचारो विहितः । अतो यथा उत्तरमीमांसायां अर्थात् वेदान्ते आत्मेश्वरयोः प्रतिपादनात् दार्शनिकता स्थिरीक्रियते तथा पूर्वमीमांसायामपि तादृशविवेचनात् दार्शनिकताऽवश्यमेव स्वीकार्या ।
 
''मन्'' धातोर्निष्पन्नो "मीमांसा” शब्दः पूज्यविचार-यथार्थवस्तुरुप-अनुसन्धानादिश्वर्थेषुअनुसन्धानादिषु अर्थेषु गृह्यते । [[वेदः|वेदस्य]] कर्मसिद्धान्तानुगतव्याख्या मीमांसादर्शनस्य प्रधानलक्ष्यमस्ति । दर्शनशास्त्रे वेदस्य रुपद्वयं प्रसिद्धमस्ति –कर्मकाण्डः ज्ञानकाण्डश्चेति । ज्ञानकाण्डः उत्तरमीमांसाया विषयोऽस्ति, यत्र वेदस्य ज्ञानपरकम् विश्लेषणं कृतम् किन्तु कर्मकाण्डः पूर्वमीमांसायाः विषयो वर्तते, अतः पूर्व'''मीमांसा''' एव कर्ममीमांसा इत्यपि कथ्यते ।
 
मीमांसदर्शने वेदविहितं कर्म एव [[धर्मः|धर्म]]रुपेण प्रतिपादितम् । तदेव इहलौकिकानां पारलौकिकानां च सुखानां साधनमस्ति । यदा कर्म एव सुखदुःखयोः मूलकारणं भवति तदा तस्य सूक्ष्मविश्लेषणकारकं शास्त्रं कर्ममीमांसैव उपयुक्तं प्रतियतेप्रतीयते । मीमांसादर्शनम् अतिप्राचीनम् अस्ति । ब्राह्मणग्रन्थैः उपनिषदग्रन्थैश्च सूचितं भवति यत् प्राक्तनैः ऋषिभिः अनेकेषु अस्पष्टविषयेषु युक्तियुक्ताः विचाराः प्रस्तुताः । ते कर्ममीमांसाया आधारतत्वरुपाः सन्ति ।
 
मीमांसादर्शनस्य सर्वाधिकं महत्त्वपूर्णं तत्त्वं धर्मविचारोऽस्ति । धर्मस्य आधारशिला कर्मकाण्डम् आधारीकृत्य तिष्ठति । उत्तरमीमांसाम् अतिरिच्य [[चार्वाकदर्शनम्|चार्वाक]] [[जैनदर्शनम्|जैन]] [[बौद्धदर्शनम्|बौद्धैः]] वैदिककर्मकाण्डस्य पर्याप्तांखण्डनं निन्दा कृताकृतम् । आत्मनो नित्यता इतरवैदिकदर्शने यथा स्वीक्रियते तथैवात्रापि अभीष्टा वर्तते । मीमांसादर्शनस्य मतानुसारं मृत्योरुपरान्तमपि [[आत्मा]] स्वकीयानां शुभाशुभकर्मणां फलानि प्राप्नोति । मीमांसायां 'स्वर्ग' नामकस्य स्वतन्त्रतत्त्वस्य परिकल्पना कृताऽस्ति । यतो हि वैदिककर्मकाण्डेषु प्रवृत्तेर्मूलाधारः स्वर्ग एवास्ति । मृत्योरनन्तरं स्वर्ग्प्राप्तिर्भवतिस्वर्गप्राप्तिर्भवति । एतत्कृते 'अपूर्व' स्य कल्पनाऽपि मीमांसकैः कृता यतो हि कर्मणि तु जीवितावस्थायामेव क्रियन्ते, किन्तु स्वर्गादीनां प्राप्तिर्मृत्योरनन्तरं भवति । कर्मसम्पन्ने सति तदुत्पन्नम् अपूर्वम् आत्मनि अवतिष्ठति तदेव च मृत्योरनन्तरं स्वर्गादि प्रापयति ।
[[चित्रम्:Yagya at Old Durga Mandir of Banaras 1.jpg|thumb|दुर्गापूजा]]
जीवनस्वर्गयोरन्तराले कर्मकाण्डजन्यम् अपूर्वमेव सेतुरुपमस्ति । अपूर्वमेव पापपुण्ययोराशयः वर्तते । [[वेदः]] कर्मविधानं करोति । वेदाः ईश्वरकृताः सन्ति अतः वेदविहितवेदविहितं कर्म एव [[धर्मः]] । अयमेव मीमांसायाः मान्यः सिद्धान्तोऽस्ति । मीमांसा स्वीकरोति यत् इदं जगत् पूर्णसत्यम् अस्ति । अस्य मिथ्यात्वं निराधारकल्पना वर्तते । मीमांसाशास्त्रं प्रवर्तकः महर्षिः [[जैमिनिः]] । अस्मिन् शास्त्रे धर्मानुष्ठानेनैव अभिमतफलसिद्धिर्भविष्यतीति मतम् । तदनुष्ठानं तु श्रुतिस्मृतिपुराणद्यनेकधर्मग्रन्थेषु प्रसिद्धमस्ति । धर्मस्य लक्षणं किम् ? धर्मे प्रमाणं किम् । इत्यादिशङ्कानां समाधानम् पूर्वमीमांसाशास्त्रादेव सिद्धं भवति । एतद् शास्त्रं द्वादशाध्यायेषु विभक्तविभक्तं भवति भगवता जैमिनिना । प्रत्येकस्मिन् अध्याये तृर्भ्योऽधिकाःत्रिर्भ्योऽधिकाः पादाः विलसन्ति ।
 
== मीमांसाशास्त्रपरिचयः ==
द्वादशाध्यायेषु प्रथमाध्यायस्य प्रथमे पादे प्रमाणविचारः कृतः । द्वितीये मन्त्राणामर्थवादविचारः प्रस्तुतः । तृतीये मन्वादिस्मृतीनामेवमाचारभूतविषयाणां प्रामाण्यविवेचन कृतम् । चतुर्थे उद्भिद- चित्रादि नामधेयानां प्रामाण्यविचारः सम्पादितः । द्वितीयाध्यायस्य प्रथमे पादे कर्मभेदचिन्तानामुपयुक्तः उपोद्घातः, द्वितीये धातुभेदाः एवं पुनरुक्त्यादिकर्मभेदानां वर्णनम् तृतीये कर्मभेदप्रामाण्याऽपवादानां प्रस्तुतीकरणम्, चतुर्थे नित्यकाम्यकर्मणां प्रयोगे भेदनिरुपणमिति द्वितीयाध्याये विचारिताः । तृतीयाध्याये अष्टौ पादाः सन्ति । प्रथमपादे अङ्गत्वबोधकेषु षट् प्रमाणेषु श्रुतेः विचारः कृतः । द्वियीये लिङ्गविचारः, तृतीये वाक्यप्रकरण्स्थानसमाख्यानां विचारः, चतुर्थे निवीतोपवीतत्वादिषुनिवीतोपवीतत्त्वादिषु अर्थवादत्वविधित्वादीनां निर्णयहेतुभूतानां श्रुत्यादीनां विरोधपरिहारात्मकौ विचारः , पञ्चमे प्रतिपत्तिकर्मविचारः प्रतिपत्त्यर्थः भवति-उपयुक्तद्रव्यस्य विनियोगः इति । षष्ठे –अनारभ्याधीतविचारः, सप्तमे- बहुप्रधानोपकारकप्रयाजादिकर्मणां विचारः, अष्टमे पादे यजमानेन क्रियमाणस्य कर्मणः विचारः इति एते अष्टौ विचाराः तृतीयाध्याये विचारिताः दृश्यन्ते । चतुर्थाध्यायस्य् प्रथमे पादे –प्रधानभूतस्य दध्यानयनस्य आमिक्षाप्रयोजनमित्यादि प्रधानस्य प्रयोक्तृत्वादिविचारः, द्वितीये –अप्रधानभूतानि यानि, यथा –वत्सापाकरणम् अनेन शाखाच्छेदे उपयोगः इत्यादि तेषां कर्मणां प्रयोक्तृत्वेन प्रदर्शनात्मकौ विचारः तृतीये –‘जुहू पर्णमयी ’ इत्यादि अपापश्लोकश्रवणादीनां कर्मणां भावाभावविचारः चतुर्थे राजसूययागगतत्वेन अक्षद्यूतादिगौणाङ्गानां विचारः प्रस्तुतः । पञ्चमाध्यायस्य प्रथमे पादे –[[वेदः|श्रुतेः]] क्रमः, श्रुत्यादिषु कर्मविचारस्यावश्यकत्वमपि संक्षेपेण प्रतिपादितम् । द्वितीये – क्रमविशेषाणाम् एवम् अनेकेषु पशुषु एकैकधर्मसमापनमित्यादिविचाराः प्रस्तुताः । तृतीये –वृध्यवृद्धिविचारः साधितः । चतुर्थे –श्रुत्यादि षट्प्रमाणानां पूर्वपूर्वप्राबल्यात्मको विचारः सम्पादितः । षष्ठाध्यायस्य अष्टौ पादाः विलसन्ति । तत्र प्रथमे पादे –कर्मणः अधिकारविषयिकी चर्चां प्रस्तुता । अर्थात् अन्धत्वादि इन्द्रियरहितानां पुरुषाणां यागादिषु नाधिकारः, किन्तु चक्षुष्मान् इत्यादि इन्द्रिययुक्तानां जनानामेव कर्मस्वधिकारः इति विस्तृतः विचारः कृतः । द्वितीये –अधिकारिणः कृते धर्मविचारः तृतीये –मुख्यस्य प्रतिनिधिभूतस्यान्यस्य ग्रहणं कदा कुत्र स्वीकर्तव्यमित्यादयः विषयाः, चतुर्थे –कर्मणः अनुष्ठानविषये कस्य लोपः भवितुं शक्यते ? इति विचारः, पञ्चमे षष्ठे च कालादिवैगुण्ये सति प्रायश्चित्तविचारः, सप्तमे-अदेयविषयस्य प्रस्तावः, अष्टमे लौकिकाग्नौ कदा इन्धनस्य् सम्पादनं कर्तव्यम् इत्येते विषयाः उपन्यस्ताः । सप्तमाध्यायस्य प्रथमे –समानमित्यादि प्रत्यक्षवचनात् अतिदेशविचारः, द्वितीये –अतिदेशशेषवाक्यानां विवेचनम्, तृतीये अग्निहोत्रनाम्ना अतिदेशस्य निर्णयः , चतुर्थे –लिङ्गादीनामतिदेशविचारः इति सप्तमाध्यायः प्रस्तुतः । अष्टमाध्यायस्य प्रथमे पादे प्रत्यक्षवचनानामभावेऽपि स्पष्टलिङ्गैः अतिदेशविचारः , तथा द्वितीये अस्पष्टलिङ्गेः अतिदेशस्य विचारः तृतीये –प्रबललिङ्गेभ्यः अतिदेशस्य विचारः एवं चतुर्थे अतिदेशवाक्यानामपवादस्य वर्णनं प्रस्तुतम् । नवमस्य प्रथमे ऊहस्य विचारः, मन्त्रस्थितानां देवतालिङ्गसंख्यादिवाचकशब्दानां मध्ये तत्तद्देवतालिङ्गदिपरिवर्तनसम्पादनात्मकः ऊहः उच्यते । द्वितीये साममन्त्रस्य ऊहविचारः, तृतीये –मन्त्रादीनामूहविचारः, चतुर्थे मन्त्राणामूहप्रसङ्गकाले आगतानामन्येषां विषयाणां विचारः प्रस्तुतः । दशमाध्यायस्य प्रथमे पादे- बाधस्य हेतुभूताः ये लोपाः तेषां विधानं विहितम् । द्वारलोपस्तु अयं भवति यत् यत्र वेदिनिष्पादनार्थं द्वारत्वेन विहितमुत्खननमित्यादि कर्मणः अभावः तत्र उत्खननात्मकं कर्म बाधितं भवति, एवमेव यत्र धान्यवितुषीकरणात्मकं कर्म न सम्पाद्यते तत्र अवधातः, एवमन्यत्रापि द्रष्टव्यः । द्वितीये पादे – तस्यैव द्वारलोपस्य विचारः अनेकैः उदाहरणैः विस्तारेण कृतः । तृतीये तु बाधस्य कार्यकारणत्वं प्रदर्शितम् । यथा प्रकृतिभूतयागे ऋत्विजः परिग्रहत्वेन गवाऽश्वादीनां दक्षिणा कार्यत्वेन विहिता, विकृतिभूतयागे तु यागस्य दक्षिणारुपेण् केवलं धेनुर्विहिता । अस्मिन यागे प्रकृतिवत् प्राप्तायाः अश्वादिदक्षिणायाः कार्यरुपायाः तस्याः बाधः विहितः इत्यादि । चतुर्थे यत्र बाधः कारणत्वेन न तिष्ठति तत्र समुच्चयानुष्ठानस्य विचारः, पञ्चमे –बाधस्य प्रसङ्गे ग्रहादीनां विचारः षष्ठे –बाधप्रसङ्गे सामविषयाणां विचारः, सप्तमे –बाधप्रसङ्गे इतरसामान्यविषयाणां विचारः, एवमष्टमे- बाधस्य उपयुक्तानां नञर्थानां विचारः इत्यष्टौ विचाराः अत्र सम्यक् प्रतिपादिताः । एकादशाध्याये तन्त्रात्मको विचारः प्रस्तुतः । एककालानुष्ठानेन यस्य सिद्धिः तत्तन्त्रमित्युच्यते, अथवा अनेकैः उद्देश्यैः सम्पत्स्यमानस्य एकस्य कर्मणः एकवारानुष्ठानात्मकतन्त्रमित्युच्यते । अध्यायस्यास्य प्रथमे पादे –तन्त्रस्योपोद्घातः द्वितीये –तन्त्रमित्युच्यते । अध्यायस्यास्य प्रथमे पादे –तन्त्रस्योपोद्घातः द्वितीये –तन्त्र-आवापयोः विचारः , तृतीये-तन्त्रस्य लक्षणात्मको विचारः चतुर्थे –विस्तृतः आवापविचारः इत्यध्यायः सम्पादितः । द्वादशाध्याये प्रसङ्ग-तन्त्री –निर्णय- समुच्चय –विकल्पानां विचारः प्रस्तुतः । प्रथमे पादे प्रसङ्गस्य विचारः द्वितीये –तन्त्रिनिर्णययोः विचारः । साधारणधर्माः तन्त्रत्वेन कथ्यन्ते, यस्मिन् एते धर्माः सः तन्त्री भवति । तृतीये समुच्चयविचारः, चतुर्थे-विकल्पस्य विचारः इति प्रस्तुतोऽयमध्यायः । द्वादशलक्षणात्मके अस्मिन् शास्त्रे तृतीय-षष्ठ-दशमाध्यायेषु (३-६-१०) अष्टौ पादाः सन्ति इत्ययं विशेषः दरीदृश्यते । एवं धर्मानुष्ठानविषये प्रमाणभूतस्य द्वादशलक्षणी इत्याख्यस्य मीमांसाशास्त्रस्य सामान्यः परिचयः । वेदोक्तधर्मानुष्ठानजिज्ञासवः मीमांसात्मकविषयविशेषान् अस्मात् ग्रन्थाद् धारयन्ति इति मे मतिः ।
 
== मीमांसाशास्त्रस्य प्रयोजनवत्त्वम् ==
पङ्क्तिः १८:
ननु अत्र विहितः अध्ययनविधिः दृष्टार्थः उत अदृष्टार्थः ? यदि अध्ययनविधिः अदृष्टार्थत्वेन मन्यते तर्हि विचारशास्त्रस्यास्य आरम्भणे आवश्यकत्वं नास्ति यतो हि वेदाध्ययने गुरुमुखानूच्चारणात्मकं कर्म अध्ययनमित्युच्यते । वेदमन्त्रोच्चारणेन न कोऽपि दृष्टार्थस्य सिद्धिः भविष्यति, एवं विधिशास्त्रं निरर्थकमित्यपि आपतेत् । तस्मात् विधिशास्त्रस्य स्वर्गादिसाधनवत्त्वं यददृष्टं तत् फलत्वेन उच्यते । एतददृष्ट अनुमानादिप्रमाणेन कल्त्यते । एवं स्वर्गरुपादृष्टफलं, केबलपाठमात्रेणैव सिद्धि चेत् मीमांसाशास्त्रारम्भणे नास्ति कश्चिदुपयोगः । यदि भवति अध्ययनविधेः दृष्टफल, तदानीमर्थज्ञानं न सिध्यति । विधेः अनुकूलत्वेन विचारशास्त्रस्यास्य आवश्यकत्वात् शास्त्रमेतत् आरम्भणीयं भवति । यदि अध्ययनविधेः अर्थावबोधात्मकं दृष्टफलं न मुख्यं, स्वर्गादिरुपफलमेव तस्य मख्यमित्युच्यते तर्हि पाठरुपा ध्ययनविधिना एव स्वर्गफलं सिध्यति । अनेनापि हेतुना विचारशास्त्र स्याऽनपेक्षितत्वात् एतन्मीमांसाशास्त्रं न आरम्भणीयमिति आगते पूर्वपक्षे सिद्धान्ती समाधत्ते ।
 
''स्वाध्यायोऽध्येतव्यः'' इत्यत्र वर्तमानेन तव्यप्रत्ययेन अभिधा भावनायाः बोधो जायते । तव्यप्रत्ययेन विहितं विधानं बिध्यर्थे भवति । विध्यर्थम् एव भावना इति गीयते । भावना द्विविधा अभिधाभावना आर्थिभावना चेति कथ्यते । अभिधीयते अर्थः अनेन इति व्युत्पत्त्या शब्दस्यैव अभिधा इति व्ययहारः । अभिधाभावना एव शाब्दीभावना अथवा प्रेरणा इत्युच्यते । उद्देश्यत्वेन यत्र पुरुषप्रवृत्तिः सा आर्थिभावना इति भण्यते । शाब्दीभावना इयं तव्यप्रत्ययस्य वाच्यभूता भवति, यतः "स्वाध्यायोऽध्येतव्यः” इति वाक्यश्रवणेन अध्ययने मम प्रवृत्तिः बोध्यते इति स्वयमेव प्रतीतिरुत्पद्यते । यस्य वाक्यस्य श्रवणं कथं विहितं, तदनु तद्वाक्यस्यार्थः नियमेन प्रतीयते इति हेतोःशब्दश्रवणेन अध्येतव्यः इति शब्दश्रवणेनतव्य तव्यस्यइत्यस्य वाच्यभूता प्रवृत्तिः भवति इति सिद्धम् ।
 
अनया शाब्दीभावनया एव अध्ययने स्वर्गादिफलप्रयुक्तेषु यागादिषु पुरुषस्य प्रवृत्तिरुत्पद्यते । अस्याः प्रवृत्तेः नाम आर्थिभावना इति । यतः इयं पुरुषस्य अर्थरुपे प्रयोजने योजयति । इयमार्थिभावना तव्यप्रत्ययस्य वाचकरुपा भवति । उद्देश्यत्वेन यत्र पुरुषप्रवृत्तिः इति वाक्ये वर्तमानोद्देश्यपदेन सुखदुःखादयः नोच्यन्ते, किन्तु साध्यं यत् तदुच्यते । यत्र कियायाः फलमस्ति तदिति विवेकः । [[वेदः]] अनादिः नित्यः सिद्धश्च । अतः अयं [[वेदः]] साध्यः न भवति, अर्थात् उद्देश्यत्वेन तव्यप्रत्ययः एकः एव । शाब्दीभावनायाः आश्रयः तव्यप्रत्ययः पुरुषाश्रयः आर्थिभावना इति विवेकः ।
पङ्क्तिः ३९:
 
== गुरुमतपदौचित्यविचारः ==
एवमेव "गुरुमतम्” इत्युक्ते प्रभाकरस्य । अत्र कारणमेतद् भवति एकवारं प्रभाकरः गुरुणां सकाशे अधीयन्नास्त । समये च तस्मिन् एकस्यां फविककायांफक्किकायां वर्तमानायां “ तत्र तु नोक्तम्, अत्रापि नोक्तमतः पौनरुक्तम्,’ इत्यस्मिन् विषये गुरोः संशयः समजनि । तत्र तु इत्यस्य तात्पर्यमेतदस्ति –तस्मिन्नपि प्रकरणे वाक्यमेतद् नोक्तम्, प्रकरणे अस्मिन्नपि वाक्यमेतद् नोक्तम्, तस्मात् पुनः उक्तं भवति इति सति पौनरुक्तं कथमिति प्रभाकरेण पृष्टे विषयेऽस्मिन् गुरुभिरपि विचारः कृतः । यदि एतद न कुत्रापि भणितं पूर्वापरत्वेन तर्हि तस्य पुनरुक्तत्वं कथमागमिष्यति ? पुनरुक्तदोषस्तु अत्र जायते यत्र पूर्वमेकवारं प्रतिपाद्य तदैवान्यत्र प्रतिपाद्यत्वेन स्वीक्रियते इति तु दृष्टः । सत्येवमत्र का गतिः । इति मनः कोटिद्वयमध्यवर्ति अभूत् । ते गुरवः स्थानान्तरं गत्वा चिन्तितुमारभन्त । एताछृत्वाएतत्च्छ्रुत्वा झटिति शिष्यः प्रभाकरः तस्मिन् वाक्ये एव्ं पदपरिच्छेदं कृतवान् । यथा –तत्र तुना –तुशब्देन उक्तम्. अत्र अपिना-अपिशब्देन उक्तम, अतः पौनरुक्तमिति । एवं विकल्पितं वाक्यं दृष्ट्वा गुरोः सन्देहः निवारितः । तदा ते शिश्यानपृच्छन्, -केन एवं पदव्यत्यासः कृतः ? इति । तदा प्रभाकरस्य नाम श्रुत्वा गुरुः परमसन्तोषमवाप्य –“त्वमेव गुरुः” इति तं व्यपदिदेश । तदानीमारभ्य सः प्रभाकरः गुरुरिति प्रथां प्राप । तस्य मतं भवति गुरुमतमिति । एवं मीमांसाशास्त्रे मतद्वयम् –एकमाचार्यमतम्, अन्यत गुरुमतमिति इदानीं प्रभाकरमतानुसारमधिकरणं विवेचयामः
 
== प्रभाकरमतानुसारमधिकरणविवेचनम् ==
पङ्क्तिः ६०:
 
==प्रामाण्यवादविचारः==
प्रमाणानां यः भावः अर्थात् धर्मविशेषः अस्ति तदेव प्रामाण्य मित्युच्यते । यथार्थानुभवः प्रमाणमित्युच्यते । एतद् प्रमाणं प्रमा इत्यपि कथ्यते । यथार्थानुभवे वर्तमानः यः वियेषधर्मः तस्य प्रामाण्यमिति कथनात् एतत् प्रमात्वं , प्रमाणत्वमित्यादि शब्दैः व्यपदिश्यते । भावा भावभेदेन विरुद्धत्वेन अप्रमात्वमप्रमाणत्वमित्यपि कथ्यते । प्रामाण्यकारण्त्वेन यः वादः अस्ति तस्य् "प्रामाण्यवादः” इति नाम । अयं वादः द्वेधा व्यवह्रियते –जननकारणविषयकः, ज्ञापककारर्णावषयकश्चेतिज्ञापककारणविषयकश्चेति । यस्मिन् कार्यस्योत्पत्तिः भवति सः वादः जननकारणविषयकः ।ज्ञापक- कारणविषयस्तु यस्मिन् कार्यज्ञानं सम्पाद्यते सः इति । प्रामाण्यस्य कारणं भवति-स्वतः परतश्चेति । यत्र स्वतः परतश्चेति संशयः तत्र वादारम्भो भवति । स्थिते एवं के स्वतः प्रामरण्यं स्वीकुर्वन्ति , के परतः प्रामाण्यमभ्युपगच्छन्ति इति ज्ञापनाय भवत्ययं श्लोकसन्दर्भः
:'''प्रमाणत्वाप्रमाणात्वे स्वस्तः सांख्याः समाश्रिताः ।'''
:'''नैयायिकास्ते परतः सौगताश्चरमं स्वतः ॥'''
पङ्क्तिः ६८:
इति । सांख्याः प्रमाणत्वाप्रमाणत्वयोः जन्म स्वतः इति, नैयायिकाः परतः इति, बौद्धास्तु अप्रामाण्यस्य जन्म स्वतः प्रामाण्यस्य परतः इति । वेदवादिनः मीमांसकास्तु प्रामाण्य स्वतः अप्रामाण्यं परतः इति स्वस्व मतमुपस्थापयन्ति । एतेषां विस्तारः खण्डनमण्डनात्मको विचारः ग्रन्थान्तरादवलोकनीयः । स्वतः प्रामाण्यं युक्तियुक्त भवति । यतः प्रामाण्यस्य स्वतः सिद्धत्वं एतद् भवति यत् विज्ञानसामग्रीजन्यं एवं तद्भिन्नहेत्वजन्यमिति । अयं भावः –येन सामग्रीवशेन विज्ञानमुत्पद्यते, तेनैव वर्तमानं प्रामण्यमपि उत्पन्नं भवति । प्रामाण्योत्पतौ गुणमथवा दोषाभावं विहाय अन्यः हेनुः न कोऽपि तिष्ठति । दोषास्तु प्रमायाः प्रतिबन्धकमात्रत्वेनोच्यन्ते । अयं मीमांसकाभिमतः प्रामाण्यबादविचारः ।
 
सततः प्रामाण्ये मीमांसामतानुसारमनुमाने –विवादास्पद प्रामाण्यं पक्षत्वेन स्वीक्रियते, विज्ञानसामग्रीजन्यं तद्भिन्नहेतुना यदजन्यं तत् साध्यत्वेन स्वीक्रियते, अप्रमायाः अनाश्रयत्वं हेतुत्वेन तिष्ठति, घटादि-प्रमासदृशः दृष्टान्तः भवति इति विवेचनीयम् । एवं विध्यर्थवादमन्त्रनामधेयात्मकैः चतुर्भिः भागैः विभक्तः वेदः धर्मविषये स्वतः प्रामाण्यं भवति । अज्ञातार्थज्ञापकः यः वेदमन्त्रः सः विधिर्भवति । यथा “ अग्निहोत्रं जुहुयात्स्वर्गकामः” इति । प्रशंसा अथवा निन्दापरकस्य वेदवाक्यस्य अर्थवादः इति संज्ञा । यथा –“वायुर्वे क्षेपिष्ठा देवता” इति वायोः स्तुतिद्वारा “ वायव्यं श्वेतपालभेत्” इति विधेः प्रशंसां करोति । एवमेव "सोऽरोदीत्तदुद्रस्य रुद्रत्वमरुद्रत्वम्" इति विधेः प्रशंसां करोति । एवमेव “ सोऽरोदीत्तदुद्रस्य रुद्रत्वम्” अनेन वाक्येन रजतस्य निन्दाबोधनं जायते । प्रयोग समवेतार्थस्मारकत्वेन यद वेदवाक्यं सः मन्त्रः भवति । यथा –श्योनं ते सदनं कृणोमि इति । अस्य मन्त्रस्य उपयोगः पुरोडाशस्य सुखकराशयद्वारा यज्ञादिकर्मणि भवति । अर्थस्मरणं मन्तेणैव कार्यम् इति हेतोः मन्त्रस्यापि आम्नायत्वमुक्तम् । नामानिर्देशपूर्वकं यागस्य विधानं यत् तन्नामधेयत्वेन कथ्यते । यथा –“श्येनेनाभिचरन् यजेत्, उद्भिदा यजेत पशुकामः” इत्यादयः । एते चत्वारः क्रियापरकाः इति हेतोः एतेषां चतुणांमपि आम्नायत्वं सिद्धम् ।
मीमांसकाः वेदवादिनः इति हेतोः जैमिनिनोक्तम् – आम्नायस्य क्रियार्थत्वादानर्थ कयमतदर्थानाम्”आम्नायस्यक्रियार्थत्वादानर्थक्यमतदर्थानाम्” (जै० सू० १-२-१) इति । वेदस्य स्वतः प्रामाण्यमेतैः आचार्यैरेव साधितम् इत्यतः वेदार्थमीमांसारुपमेतद् मीमांसादर्शनं भवति ।
 
==वेतस्यापौरुषेयत्वविचारः==
पङ्क्तिः ७९:
: - (ऋ० सं० १०-३०३) इति
एवमुपनिषदि-<br>
यो ब्राह्मणं विदधाति पूर्व्ं यो वै वेदांश्च प्रहिणोति तस्मै (श्वे० उ० ६-१८) इति च भवति न्यायसूत्रमपि –मन्त्रायुर्वेद प्रामाण्यवच्च तत्प्रामाण्यमाप्तप्रामाण्मात् (न्या० सू० २-१-६३) इति । एवमादिभ्मःएवमादिभ्यः मन्त्रोपनिषद्वाक्येभ्यः ईश्वरकृतत्वम् ईश्वरप्रोक्तत्वं वा वेदस्य स्पष्टमिति एतेषामाशयः ।
 
अत्रेदमवधार्यमअत्रेदमवधार्यम् । वेदः पौरुषेयो वा अपौरुषेयो वा इति विशिष्य न चिन्तनीयम् । यतः कीदृशाः अपि ते ज्ञान-विज्ञानराशयः सन्ति । गुणैकपक्षपातिभिः विद्वद्भिः तेषामर्थानुसन्धानपूर्वकमध्ययनमवश्यं कर्तव्यमेव । तैरैव वेदैः पुनरपि वयं पुरा इव जगतः गुरुत्वं प्राप्तुं ज्ञातु च शक्नुमः इदानीमित्यविस्मरणीयम् ।
 
ईश्वरस्य निः श्वासरुपेण स्थिताः वेदाः पौरुषेयाः इति स्त्यपि लौकिक पुरुषनिर्मितत्वाभावमात्रेण अपौरुषेयाः भवन्ति । यतः ब्रह्मणः लौकिकपुरुशवत जननमरणधर्मै न स्तः । ईश्वर अनादिः इत्युक्तत्वात् वेदोऽपि अनादिरिति स्वयमेव सिद्धम् । अत एव वेदाः निर्दोषाः प्रामाणिकाश्च इत्यतः मीमांसाशास्त्रे वेदस्यापौरुषेयत्वं सिद्धम् ।
 
==वेदस्य स्त्रष्टा ब्रह्म==
ईश्वर एव सम्पूर्णास्य जगतः सृष्टे कारणरुपो भवति । तेनैव निर्मितं भवति इदं जगत् । यथा –लोके कुलालः घटस्य निर्माता भवति, घटनिर्माणात् पूर्वं तद्विषयकचिन्तां मनसि कृत्वा तज्ज्ञानं बुद्धौ सम्यगवधार्य अनन्तरं घटं निर्मास्यति एव परमात्मा प्राणिनां धर्माधर्मपुरस्सरधर्माधर्मपुरस्सरं वेदोक्तरीत्या सृष्टिं करोति । यद्यपि वेदस्यापौरुषेयत्वमेव सिध्यति तथापि साक्षाद्वेदेनैव सृष्टयादयः न जायन्ते । अतः वेदस्य स्वतः अपौरुषेयत्वं ब्रह्मणा श्वासोच्छवासमुखेन प्रणीतत्वात् पौरुषेयत्वं च सिध्यतः । वेदस्य पौरुषयत्वमपि ब्रह्मणः नित्यत्वात् अपौषेयत्व च सिध्यतः वेदस्य पौरुषतत्वमपि ब्रह्मणः नित्यत्वात् अपौरुषेयत्वमेव भजते जन्मनाशरहिअत्वात् । सत्वप्राणिनां धर्माधर्माः बुध्यादयश्व् परमात्मनि वर्तन्ते । अयमीश्वरः तेषां धर्माधर्मानुसारेण चराचरप्राणिनां सृष्टिं करोति । तेषां भरणार्थं वेदानां निर्माण करोति । यथा लोके पिता पुत्रमुत्पादयति, अनन्तरं तस्य् हिताय ज्ञानं बोधयति, तेन ज्ञानेन अहितानां कर्मणां परिहारं कर्तुं तस्य् शिक्षां ददाति तथा परमेश्वरः जीवानामिष्टप्राप्तेः अनिष्टपरिहारार्थं च वेदानां सृष्टिं करोति । किं च जीवानां सुकृत-दुष्कृतकर्मणां फलमौश्वरः ददाति । पूर्वमीमांसायां तु कर्म स्वतः अपूर्वोत्पादनद्वारा स्वस्य फलं ददाति इत्यभ्युपगम्यते । ईश्वरः इत्येको वर्तते वा न वा इत्यत्र एतेषां मीमांसा नास्ति । वेदान्तदर्शने परब्रह्म इत्येकम् अनन्तमनादि अस्तीत्यभ्युपगम्यते, तद वेदस्य् निर्मातृ भवति इति च पूर्वोत्तरमीमांसयौएभेदः ।<br>
किंच मीमांसानये वेदः अपौरुषयः, तेनैव सृष्टयादि कर्मजातं चाल्यते इत्युच्यते । कर्मण मुख्यत्वं प्राबल्यत्वं च दातु मतमेतदङ्गीक्रियते । यदा बौद्धानां चार्वाकाणां च मतस्य बाहुल्यमासीत् तदा तत्तन्मतं खण्डयितुं एवं वेदोक्तकर्मानुष्ठाने जनानुरागमाकयितु आचार्याः कुमारिलभट्टापादाः कर्मणः एवं मुख्यत्वं ददुः । शारीरकमीमांसकास्तु ब्रह्मणः जगत्सृष्टिं, तस्य जगतः सृष्टयर्थ, सृष्टिंगताना जीवानां च वेदस्योपयोगः वेदस्तु यथावत् ब्रह्मणा निर्मितः –धाता यथा पूर्वमकल्पयत् (ॠ० स० १०-१६०-३) इत्यादि श्रुतेः इति वदन्ति । अतः ईश्वरापेक्षया वेदः पौरुषयः जीवापेक्षया वेदः अपौरुषेय एवेति अभ्युपगम्यते । यदि जीवापेक्षया वेदः पौरुषेयो भवति तर्हि जीवगतधर्माः ये भ्रमप्रमादादयः एते वेदेऽपि अवश्यं सम्भवेयुः । वेदे तु न तथा दृश्यते । तस्मात् वेदस्य सृष्टृ ब्रह्म इति सिध्यति ।<br>
पङ्क्तिः १२६:
मीमांसादर्शने पदार्थानां निर्धारणसम्बन्धे ऐकमत्यं नास्ति । कुमारिलभट्टाः केवलं पञ्चैव पदार्था इति स्वीकुर्वन्ति-द्रव्यम्, गुणः,कर्म, सामान्यम्,अभावश्च । द्रव्याण्यपि भट्टमते एकादश सन्ति । नवद्रव्यातिरिक्तं तमसः शब्दस्य चापि द्रव्यत्वं तेन प्रतिपादितम् । प्रभाकरः अष्टौ पदार्थान् स्वीकरोति । तन्मतानुसारेण अष्टौ पदार्था एवमुक्ताः –[[द्रव्यं]], [[गुणः]], [[कर्म]], [[सामान्यम्]], परतन्त्रता, शक्तिः सादृश्यं, संख्या चेति । एषु परतन्त्रता समवायस्यैव रुपान्तरमस्ति शक्तिसादृश्ययोः पदार्थतत्वं नूतनपरिकल्पनाऽस्ति । मुरारिमिश्राः चतुरः पदार्थान् स्वीकरोति । तन्मते चत्वारः पदार्था एवं प्रकारेण ग्राह्याः –धर्मिविशेषः, धर्मविशेषः, आधारविशेषः, प्रदेशविशेषश्च ।
 
जगतः सम्बन्धे मीमांसकविचारणा पृथगेवास्ति । जगत् तस्मिन्नेव रुपे सत्यमस्ति, यस्मिन् रुपे तत् अस्माकं ज्ञानेन्द्रियाणां विषयो भवति । संसारः शरीन्द्रियविषयरुपोऽस्तिइन्द्रियविषयरुपोऽस्ति अथवा भोगायतन- भोगसाधन-योग्या दिरुपेण संसारस्य अवस्थितिर्विद्यते । जगत् अनादि अनन्तं चास्ति । केषांचन मीमांसकानां दृष्टौ जगतो मूलं परमाणुरस्ति । कृतकर्मणाम अपूर्वस्य फलोन्मुखे सति अणुसंयोगात् जगत् उत्पद्यते । मीमांसकमते परमाणुः प्रत्यक्षदृष्टं सूक्ष्मकणं विद्यते न तु नैयायिकमते यथा अलौकिकप्रत्यक्षस्य विषयः । एवं मीमांसायाः सृष्टिक्रमः स्थूलोऽस्ति किन्तु य परमाणुवादं न स्वीकुर्वन्ति, तेषां दृष्टौ जगत् उत्पत्तिविनाशाभ्यां रहितं नित्यतत्त्वमस्ति अतः मीमांसकमते जगतः विनाशो न भवति ।<br>
शक्ति सिद्धान्तोऽपि मीमांसकानां स्वतन्त्रकल्पनाऽस्ति । तदनुसारं कार्यस्योपादाने शक्तिनामकं पदार्थो विद्यते यस्य सदभावाद् एव कार्योत्पत्तिर्भवति, अन्यथा वह्नौ दाहकत्वशक्तेरभावे यथा स्वरुपमात्रेण दाहकत्वं न सम्भवति । यथा वा चन्द्रकान्तो मणिः वह्नेर्दा हिकत्वाभावात् स्वरुपतः वह्निमान् अपितु दाहकत्वरहितो भवति । इतरदार्शनिकैरस्य मतस्य पूर्णतया खण्डनं कृतम् ।
"https://sa.wikipedia.org/wiki/मीमांसादर्शनम्" इत्यस्माद् प्रतिप्राप्तम्