"बलिचक्रवर्ती" इत्यस्य संस्करणे भेदः

विष्णुभक्त स्य प्रह्लादस्य सुतः बलिः । सः असु... नवीनं पृष्ठं निर्मितमस्ति
 
No edit summary
पङ्क्तिः १:
{{WPCUP}}
बलिचक्रवर्ती
 
विष्णुभक्त स्य प्रह्लादस्य सुतः बलिः । सः असुराणां चक्रवर्ती । सः बाल्ये एव पितामहस्य सभ्रातृकस्य हिरण्यक शिपोः विष्णुना मरणं शुश्राव । सः विद्वेषिणः सुरान्‌ मर्दितुं ससैन्यः अमरावतीं ययौ । भीतः इन्द्रः राज्यं त्यक्त्वा पलायामास । बलिः असुरान्‌ सर्वान्‌ आहूय देवराजधान्यामेव न्यवसत्‌ । तस्य महान्तं यागं कर्तुं अपेक्षा प्रादुरभूत्‌ । इन्द्रः चगद्रक्षकं श्रीविष्णुं गत्वा सर्वपि उदन्तं निवेद्य बलिं निगृह्य अमरावतीं मह्यं प्रयच्छ इति प्रार्थयत । भगवानपि तथेत्यवोचत्‌ । अदितिः भर्तारं प्रार्थयामास ‘भगवन्‌, पुरणपुरुषः यथा मम पुत्रत्वमेति तथा अनुगृह्यताम्‌’ इति । क श्यपस्य वचनं सत्यं क र्तुं भगवान्‌ पुराणपुरुषः बलिनिग्रहाय पृष्णेः अलंचकार । पृष्णिगर्भ इति ख्यातः सः वामनः गुरुणा सकाले उपनयक र्मणा द्विजत्वं प्रापितः । उपेन्द्रः सः यदृच्छया बलेः यागभूमिं जगाम । तत्र ऋ त्विजः राजा च वटोः दिव्येन तेजसा आक र्षिताः क्षणं संभ्रान्ता अभूवन्‌ । चक्र वर्ती तु वटुं उद्दिश्य प्राह ‘हे वटो त्वत्तेजसा अतीव संतुष्टोऽस्मि । वरं वृणीष्व । वाञ्छितं ते ददामि’ इति । संतुष्टः वामनः चक्र वर्तिने आशिषः वाचयित्वा स्वपादेन पादत्रयमितां भूमिं अयाचत । एतत्‌ श्रुत्वा सार्वभौः जहास । पुरोधाः शुक्रः दानं निरुध्य ‘सः मायावी अच्युतः’ इति चक्र वर्तिनं स्मारयामास । तथापि सत्यवाक्‌ राजा तस्मै तस्य वाञ्छितं उदक दानेन प्रायच्छत्‌ । वामनः त्रिविक्र मो बभूव । पादेनैके न भूमिं अन्येन पादेन अन्तरिक्षं च आक्रम्य तृतीयपादक्षेपणाय स्थानं निर्दिश इति अवोचत्‌ । अनिरीक्षितं आगतं विष्णुपादं दृष्टा पितामहः तं संपूज्य यागभूमिं आगच्छत्‌ । चक्रवर्ती देवानां सन्दर्शनेन तुष्टः तृतीयं पादं स्वमूर्धनि निवेशयितुं प्रार्थ्य अवनतशिरा बभूव । भगवान्‌ त्रिविक्र मः बलिं अनुगअह्य रसातले निवेश्य तेन प्रार्थितः तस्य नित्यं सन्दर्शनदानं कुर्वन्‌ तस्य प्रासादस्य गृहपालश्च भूत्वा रक्षति ।
"https://sa.wikipedia.org/wiki/बलिचक्रवर्ती" इत्यस्माद् प्रतिप्राप्तम्