"महात्मा गान्धी" इत्यस्य संस्करणे भेदः

No edit summary
पङ्क्तिः ५:
|birth_name =
|birth_date = {{Birth date|1869|10|2|df=y}}
|birth_place = [[Porbandar#Princely Porbandar (1600 AD onwards)|Porbandar]], [[Kathiawar Agency]], [[British Raj|British-ruled India]]<ref name="Gandhi DOB">Gandhi, Rajmohan (2006), [http:httpः//books.google.co.in/books?id=FauJL7LKXmkC&lpg=PP1&pg=PA1#v=onepage&q&f=false pg 1-3].</ref><br><small>(now in [[Gujarat]], India)</small>
|death_date = {{Death date and age|1948|1|30|1869|10|2|df=y}}
|death_place = [[देहली]], [[भारतम्]]
पङ्क्तिः २६:
}}
 
महात्मा गान्धिः इति प्रसिद्धः '''मोहनदासकरमचन्दगान्धिः''' ({{lang-gu|મોહનદાસ કરમચંદ ગાંધી}}, {{lang-en|Mohandas Karamchand Gandhi}}) (क्रि.श.१८६९-१९४८) [[गुजरातराज्यम्|गुजरातराज्यस्य]] [[पोरबन्दर]]नामके नगरे जन्म प्राप्तवान् । तस्य उदारान् मानवीयान् गुणान् दृष्ट्वा कवि:कविः [[रवीन्द्रनाथ ठाकुरः]] तं ''महात्मा'' इति शब्देन सम्बोधितवान् । तत:ततः पश्चात् सर्वे भारतीया:भारतीयाः तं ''महात्मा गान्धिः'' इति एव अभिजानन्ति । भारतमातुः श्रेष्ठः पुत्रः महात्मा गान्धिः स्वातन्त्र्यान्दोलने सर्वेषां भारतीयानाम् आधारभूतः मार्गदर्शकः च आसीत् । अत एव गान्धिजयन्ती पर्व राष्ट्रियपर्वरुपेण आचर्यते । दक्षिणआफ्रिकादेशेऽपि महात्मा गान्धिः उत्तमं कार्यं कृतवान् । अस्य पिता श्री करमचन्दगान्धिः राजकोटसंस्थाने पोरबन्दरसंस्थाने च दिवान् इति प्रसिद्धः आसीत् । माता श्रीमती पुतलीबायी साध्वी व्रतोपावासादिधर्मानुसारिणी प्रेममयी च आसीत् । मोहनदासगान्धिमहोदयस्य बाल्यं पोरबन्दरनगरे उत्तमपरिसरे सहजसुन्दरम् आसीत् । मातुः सेवाभावः त्यागबुद्धिः सर्वप्रियता इत्येते गुणाः पुत्रेऽपि परिणामम् अकुर्वन् । विद्याभ्याससमये मोहनदासगान्धिः साधारणबालकः आसीत् । मोहनदासगान्धिः राजकोटनगरे प्रौढविद्याभ्यासं कृतवान् । विनयशीलः लज्जालुः विधेयः इति च सहपाठिषु प्रख्यातः आसीत् । गान्धिमहोदय:गान्धिमहोदयः सत्यम् अहिंसाम् च जीवने प्रतिष्ठापयितुं दृढव्रत:दृढव्रतः आसीत् । स:सः वैदेशिकानां शासनं मूलतः उच्छेत्तुं भारतमातुः स्वतन्त्रतायै दृढां प्रतिज्ञाम् अकरोत् ।
 
==जन्म==
 
गान्धिवंशीया बनियाख्यवैश्यवर्णा:बनियाख्यवैश्यवर्णाः । तेऽमी पुरास्तोकानापणान्प्रतिष्ठाप्य वाणिज्यं कुर्वते स्मेति प्रतिभाति । किन्त्वस्मत्तातमारभ्यते त्रिपौरुषपर्यन्तं काठियावाडदेशस्य कतिपयसंस्थानेषु प्रधानसचिवा बभूवु:बभूवुः । ओतागान्ध्यपराख्येनोत्तमचन्दगान्धिनाखण्डितवादिना भाव्यम् । तस्यास्य पोरबन्दरसंस्थाने प्रधानपदमारूढस्य क्वचित्कूटनीतिवशात्तत्संस्थानं परित्यज्य जूनागढसंस्थान आश्रय:आश्रयः समन्वेषणीयोऽभूत् । तदा तत्रत्यनवाबप्रभोरयं सव्यहस्तेन सभाजनं चकार । तत्प्रेक्षकेण केनचित्पुरुषेण तावदविनीतवर्तनस्य हेतुं पृष्ट:पृष्टः स प्रत्याह इत:इतः पूर्वमेव मम दक्षिणो हस्त:हस्तः पोरबन्दरसंस्थानस्य वशवर्ती भवतीति ॥
मृतजानिरोतागान्धिद्वितीयां भार्यामुवाह । अस्य प्रथमभार्यायां चत्वार:चत्वारः पुत्रा द्वितीयायां च द्वौ बभूवु:बभूवुः । एते भिन्नोदरा इति बाल्य नाहमवेदम् । न च तद्वृत्ततो वा प्रकाशितम् । षण्णामेषां करमचन्दगान्धि:करमचन्दगान्धिः कबागान्ध्यपराख्य:कबागान्ध्यपराख्यः पञ्चम:पञ्चमःतुलसीदासगान्धिश्चरम:तुलसीदासगान्धिश्चरमः । द्वावेतौ भ्रातरौ पोरबन्दरसंस्थाने क्रमश:क्रमशः प्रधानसचिवावभूताम् । कबागान्धिर्हि मे पिता । स च राजास्थानिकन्यायसभायां सदस्योऽभूत् । सा सभा साम्प्रतं न विद्यते । पुरा खलु सा राज्ञश्च तद्वंश्यानां च विवादव्यवस्थापनाय प्रतिष्ठापिता भूत्या गौरवास्पदमासीत् । अपि च मे तात:तातः कियन्तं कालं राजकोटसंस्थाने क्वचिद्वाङ्कानेरसंस्थाने च प्रधानसाचिव्यमकोरत् । अस्य निर्याणकाले राजकोटसंस्थानाद्विश्रान्तिवेतनं लभ्यते स्म ॥
कबागान्धिरनुक्रमेण चतस्रो भार्या उदवहत् । द्वयोरद्ययोर्द्वे दुहितरौ चरमायां पूतलीबाईनाम्न्यामेका पुत्री त्रय:त्रयः पुत्राश्च समजायन्त । एतेषामहमेवान्तिम:एतेषामहमेवान्तिमः
मम पिता कुटुम्बवत्सल:कुटुम्बवत्सलः सत्यप्रिय:सत्यप्रियः शूर उदारश्च । परन्तु क्रोधन:क्रोधनः । मनाग्विषयासक्त इत्यपि वक्तव्यम् । स किल व्यतिक्रान्तचत्वारिंशद्वत्सरोऽपि चतुर्थी भार्यामुपायस्त । किन्त्वयमुत्कोचादिलोभपरवशो नाभूत् । यथा स्वकुटुम्बे तथा बहिरप्ययं निष्पक्षपातीति प्रथां सम्पादितवान् । अस्य राजनिष्ठा सर्वलोकविदिताभवत् । कदाचिदयं निजस्वामिनो राजकोटप्रभोष्ठाकूराह्वयस्य कृतापमानं 'असिस्टेण्ट्र पोलिटिकल् एजेण्ट्’ इति व्यपदिश्यमानराजकीयप्रतिनिधिं प्रत्यवतस्थे । क्रुद्धेन तेन प्रतिनिधिना क्षमामभ्यर्थयस्वेति कबागान्धि:कबागान्धिः समादिष्टोऽपि न तथाकर्तुं प्रत्यपद्यत । ततस्तेन कतिपयहोराकालपर्यन्तमसाववष्टभ्य स्थापितोऽभवत् । परन्तु वज्रकठोरमनस्कतामस्यावबुध्य स राजकीयप्रतिनिधिर्विमुच्यतामयमित्यादिदेश ॥
मम पितुर्द्रव्यसङ्ग्रहलोभो न कदाप्यासीत् । तदस्माकं पैतृकं रिक्थमल्पमल्पमागतम् ॥
अनुभवमेकं मुक्त्वा तस्य शिक्षाक्रम:शिक्षाक्रमः कोऽपि नासीत् । अध्ययनमपि भूयसा गुजरातीपञ्चमश्रेणीपर्यन्तमेव तस्य प्रवृत्तम् । चरित्रभूगोलपरिज्ञानं तस्य न कञ्चित् । तथाप्यस्य व्यावहारिकज्ञानसम्पन्नत्वादतिसूक्ष्मप्रश्नानां निर्णये पर:शतानांपरःशतानां जनानां शासनेऽपि प्रगल्भोऽभवत् । तेन लब्धं धार्मिकशिक्षणमत्यल्पम् ।
तथाप्यसंख्यातैर्हिन्दुजनैर्देवस्थानगमनपुराणपुण्यकथाश्रवणादिभिर्यावती धार्मियज्ञानसम्पत्तिरधिगन्तुं शक्या तावती तेनापि सम्पादिता । स्वस्य मरणात् कतिपयवत्सरेभ्य:कतिपयवत्सरेभ्यः पूर्वमस्मदीयकुटुम्बमित्रेण केनचिदब्राह्मणविदुषा बोधितो मे पिता गीतापारायणं
कर्तुमारभत । अपि च प्रत्यहं पूजासमये कतिपयश्र्लोकानुच्चै:कतिपयश्र्लोकानुच्चैः पठति स्म ॥
मम मातुर्विषये कदाप्यविस्मणीयतया यन्मे मनसि निरूढस्थितं तत्खलु सा पतिव्रता स्त्रीति । सेयं धर्मभीरु:धर्मभीरुः । प्रतिदिनमापूजापाठावसानं भोजनचिन्तामपि न कलयति स्म । हवेल्याख्यवैष्णवदेवालयगमनं तस्या:तस्याः प्रात्याहिककर्तव्येष्वेकतममासीत् । स्मारं स्मारमपि तस्याश्चातुर्मास्यव्रताचरणलोप:तस्याश्चातुर्मास्यव्रताचरणलोपः कदाचित्कोऽपि मम स्मृतिपथं नायाति । अत्यन्तकृच्छव्रतान्यपि सा सर्वात्मना समापयते स्म । आरब्धव्रतं व्याधिवशान्न कदापि पर्यत्यजत् । एकदा चान्द्रायणव्रतमाचरन्त्या रोगपीडीतयाप्यपरित्यज्य व्रतं यथावत्समापितं मम स्मृतिमुपैति । द्वित्रदिनानि यावदुपवासो नाम तस्या ईषत्कर:ईषत्करः । चातुर्मास्ये प्रतिदिनमेकमुक्तं तयाभ्यस्तमासीत् । इयताप्यपरितृप्य चातुर्मास्ये क्वचिदेकाहिकमुपवासं कुर्वती व्रतं समापयत् । अपरस्मिंश्चातुर्मास्ये सूर्यनारायणदर्शनं विना नाहारं स्वीकरिष्य इति व्रतमग्रहीत् । तदास्माभिर्बालकैर्बहि:तदास्माभिर्बालकैर्बहिः स्थित्वा गगनैकद्रष्टिभि:गगनैकद्रष्टिभिः सूर्यदर्शनं मात्रे निवेदयितुमवसर:निवेदयितुमवसरः प्रतीक्ष्यते स्म । वर्षाकालयमध्ये सूर्यदर्शनमतीवविरलमिति सर्वेषामपि विदितमेव । बहुषु दिवसेषु सहसा प्रत्यक्षीभवति सूर्ये यथा वयं 'अम्ब अम्ब सूर्यो दृश्यते’ इति ससम्भ्रममवोचाम यथा चन यावदम्बा स्वयं द्रष्टुं बहिरुपधावति तावत्सूर्यस्तिरोहितोऽभूत् यथा चानेन तस्यास्तस्मिन्दिने भोजनाभाव:भोजनाभावः प्राप्तस्तथा सर्वं स्मरमि । ईदृक् सम्भवेष्वस्माताम्लानमुखी 'न कापि चिन्ता । ममाद्य भोजनं देवता न रोचते’ इति वदन्ती स्वकार्यमनुष्ठातुं प्रतिनिवर्तते स्म ॥
सा व्यवहारकुशला । राजास्थानसम्बन्धिनामखिलवृत्तान्तानामप्यभिज्ञाभवत् । अस्या बुद्धिकौशलमवरोधजनस्य सुविदितमासीत् । अहमनेकशो बाल्ये वयसि जनन्या सह राजमन्दिरं गत्वा तत्र मदम्बाठाकूरप्रभुजनन्यो:मदम्बाठाकूरप्रभुजनन्योः संवृत्तं कथालापं श्रुतवानित्यद्यापि स्मरामि ॥
अनयोर्मातापित्रोर्गर्भादहं संवत् १८३५ भाद्रपदबहुलद्वादश्यां (तथा च श्रीशालिवाहनशकस्य द्विनवत्युत्तरसप्तशताधिकैकसहस्त्रतमे शुक्लनाम्नि संवत्सरे भाद्रपदकृष्णद्वादशीतिथौ) अधुना पोरबन्दरेतिप्रसिद्धे सुदामापुर्यां जन्माग्रहीषम् ॥
पोरबन्दरे मया बाल्यमतिवाहितम् । कामप्येकां प्रति मया गम्यते स्मेति ज्ञप्तिरस्ति । गणितकोष्टकानां घट्टीकरणं मम क्लेशावहं संवृत्तम् । अपि च सहपाठिभि:सहपाठिभिः सहास्मदुपाध्यायनिन्दामशिक्षिषि । इदमुक्त्वा नान्यत् किञ्चिदपि स्मरामि । एतेन तदानीं मे बुद्ध्‌या मन्दया भवितव्यं ज्ञापकशक्त्या चापक्वया भाव्यमिति तर्कये ॥
 
== बाल्यम् ==
यदामे पिता राजास्थानिकन्यायसभासदस्यत्वमिच्छू राजकोटं प्रति प्रस्थितस्तदा मया सप्तवर्षदेशीयेन भाव्यम् । तत्राहं प्राथमिकशालां प्रवेशितोऽभवम् । तदात्वे पाठयितृणामुपाध्यायानां नामानि सम्यगहं स्मरामि । यथा पोरबन्दरपुरे तथैवात्रापि मम पाठलेखनादिषु न कोऽपि विशेषो द्रष्ट:द्रष्टः । नचाहमितरापेक्षया बुद्धिमत्तर इति गणनीयोऽभवम् । एनां शालामतिक्रम्य नगराबाह्यवर्तिन्यां पाठशालायां दिनकतिपयान्यावदध्यगीषि । तदनु द्वादशेवर्षे हाईस्कूलाख्यमुच्चविद्यालयमहं प्रविष्ट:प्रविष्टः । अस्मिन्नल्पीयसि कालेऽस्मदुपाध्यायान् वा सहपाठिनो वा नाहमनॄतं कदाप्यचकथम् । अतीव लज्जालुतया परगोष्ठीं पर्यहार्यम् । मदीयपुस्तकपाठा एव मे सहाया:सहायाः । घण्टावादनसमये पाठशालोपस्थानं शालाविरामे च गृहाभिमुखीभवनं-एवं हि मेऽभ्यास:मेऽभ्यासःअन्यै:अन्यैः सह कथालापनिस्सहेन गृहं प्रति त्वरित गतिना गम्यते स्म मा कोऽपि द्रष्ट्वा मां परिहसीदिति ॥
उच्चविद्यालये मम प्रथमवर्षपरीक्षायां यत् संवृत्तं सा घटनाद्य कथनीया भवति । तदानीन्तनविद्याभ्यासपरिक्षको जैईल्सनामा समागत:समागतः । अस्मत्परीक्षणार्थं पञ्चशबसानस्माभिरलेखयत् । तेषामेकतम:तेषामेकतमः 'केटल' इति पदमासीत् । तस्य लेखनेऽहं स्खलितमकार्षम् । अस्मदुपाध्याय:अस्मदुपाध्यायः स्वपारदरक्षाग्रेण मत्पादमभिस्पर्श्य स्खालित्यसूचनाय महान्तं यत्नमकरोत् । तथापि तत्संविदं नाहमग्रहीषम् । मत्पार्श्वस्थितबालयकस्य फलकं निरूप्य तल्लिखितानुकारेण स्खलितं मदीयं समीकर्तव्यमित्यस्मदुपाध्यायस्याशयोऽभवत् । तदेतन्मनसो मे नास्फुरत् । अन्योन्यलिखितानुकरणस्य निवारणमेवोपाध्यायानां कर्तव्यमिति मया हि गृहीतम् । मदेकवर्जमन्ये सर्वेऽपि शब्दान्निर्दोषेण व्यलेखिषु:व्यलेखिषुः । अहमेक एव मूर्ख:मूर्खःतत:ततः परमुपाध्यायो मम मुग्धतां दर्शयितुं प्रायतिष्ट । तेन तस्यैव वृथाश्रमो जातो न पुनर्मया लिखितानुकरणमशिक्षि ॥
अथाप्येतेनोपाध्यायं प्रति मे गौरवं नाहीयत। ज्येष्ठगतानां हि दोषाणां यदुद्भावनं तन्मे स्वभावदूरमासीत् । यद्यपि तदुपाध्यायस्येतरे दोषा मया क्रमेणोपलब्धास्तथापि तन्निष्ठभक्तिभावो मे नान्यथा पर्यवर्तत । ज्येष्ठानामाज्ञानुवर्तनमेवास्मत्कर्तव्यं न पुनस्तेषां चारित्रपरिशोधनमित्यर्थो मम ह्यदयंगतोऽभूत् ॥
एतस्मिन्नेव समये संवृत्तं घटनाद्वयमपि मे मनसि लग्नं भवति । शालापुस्तकानि मुक्त्वा पुस्तकानन्तरपठनं मम नेष्टमासीत् । उपाध्यायादाक्षेपवचनं वा मया तत्प्रतारणं वा न मे रोचते स्म । अतो मया दैनन्दिनीयपाठा:दैनन्दिनीयपाठाः शिक्षणीया एवापतिता:एवापतिताः । तथाप्येवं शिक्षमाणस्य मानसं सर्वदा पाठैकव्यग्रमासीदिति वक्तुं न शक्यते । एवं मयि पाठ्यपुस्तकेऽपि निरवधाने सति पुस्तकानन्तरं न हि पठ्यते स्मेति किमु वक्तव्यम् । किन्तु मम पित्रा क्रितस्थापितस्य श्रवणपितृभक्त्याख्यनाटकग्रन्थस्योपरि कथमपि मे द्रष्टिरपतत् । तमेनं तत्परतयाहमपाठिषम् । तत्कालमेव ग्रामाद्ग्रामं पर्यटन्त:पर्यटन्तः पुत्तलिकाप्रदर्शनोपजीविन:पुत्तलिकाप्रदर्शनोपजीविनः केचिदस्मद्ग्राममुपागमन् । तत्प्रदर्शितपुत्तलिकासु यात्रामुद्दिश्य स्कन्धावलम्बिवीवधेन स्वमातापितरौ वहमानस्य श्रवणस्य प्रतिकृतिरेका व्यलोकि । एतत्पुस्तकं पुत्तलिकाचेति द्वयं मिलित्वा श्रवणकथां मे मनस:मनसः कदाप्यप्रमार्जनीयामकरोत् । श्रवणस्य पितृभक्तिरादर्शरूपेण त्वया स्थापनीयेत्यात्मनात्मानमबोधयम् । श्रवणस्य मरणेन सन्तप्यमानयोस्यत्पित्रोर्विलापोऽद्यापि मे मनसि शोश्रूयत इव । मदर्थे पित्रा वितीर्णया रागमालिकया तमहमालापयम् । स रागो मे ह्रदयं व्यलीनयदिव ॥
नाटकान्तरसम्बन्धिन्यपरा तत्सदृशी घटनैका संवृत्ता । एतत्कालमेव कयापि नाटकमण्डल्या प्रयुक्तं नाटकमवलिकयितुं पितुरनुज्ञामध्यगच्छम् । तन्नाटकं हरिश्चन्द्रचरितात्मकमासीत् । तदेतल्लोचनासेचनकं मम मानसमकर्षत् । किन्त्वनुज्ञां कतिकृत्व:कतिकृत्वः प्राप्य गन्तुं शक्येत । तथाप्येतन्निमित्तं व्यसनं नैव माममुञ्चत् । निस्संख्यवारमिदं नाटकं मया स्वयं मनसा प्रयुक्त स्यात् । हरिश्चन्द्रेणेव सर्वैरपि कस्मात्सत्यवद्भिर्न भवितव्यम् । इत्येष प्रश्नो दिवानिशं मे मनसि पुस्फोर्यते स्म । सत्यानुसरणं सत्यस्यार्थे हरिश्चन्द्रवन्निर्विकल्पेन मनसा क्लेशानामनुभव:क्लेशानामनुभवः । इत्येष आदर्श एक एव मे मनस्याविरभूत् । हरिश्चन्द्रकथायामक्षरश:हरिश्चन्द्रकथायामक्षरशः सत्यत्वप्रतीतिर्मयासीत् । सर्वस्यास्य स्मरणमनेकशो मे नेत्रोभ्यामश्रूणि निरसारयत् । कथाहरिश्चन्द्र:कथाहरिश्चन्द्रः कश्चिद्वस्तुतो न जीवन् स्थित इत्यधुना मम लौकिकज्ञानमाख्याति । किन्तु हरिश्चन्द्रश्रवणावुभावपि मम ह्रदये नित्यसंनिहितौ स्त:स्तः । अद्यापि तन्नाटकपाठेन पूर्ववन्मे ह्रदयं विलीयत इत्यहं जाने ॥
 
== बाल्यविवाहः ==
पङ्क्तिः ६५:
== चौर्यं । तस्य प्रायश्चित्तम् ==
मांसाशनकालिकानाम् तत्पूर्वकालिकानां च मम केषांचिद्दुरभ्यासानामुपवर्णनमवशिष्ट भवति । ते च मद्विवाहप्राक्क लिका वा विवाहोत्तरकालीनकतिपयदिनान्तर्भाविनो वा भवन्ति ॥
मम च मम बन्धोरेकस्य च कदाचिद्धूमवर्ति सेवनोपेक्षा जाता । अस्मिन्निकटे पणस्तु नासीत् । तत् सेवने किमपि प्रयोजनमस्तीति नावामजीगणाव । न च वा तत्परिमलोऽस्मदीयं मन:मनः समाकर्षति स्म । किन्तु मुखाद्धूममोक्षे कोऽप्यानन्दविशेषोऽनुभूयत इत्यमंस्वहि । अस्मत्कनिष्ठपितृव्य:अस्मत्कनिष्ठपितृव्यः पूर्वमेव तदभ्यासी । तत्प्रभृतिभिर्जनै:तत्प्रभृतिभिर्जनैः सेव्यमानं धूमपानमवलोकमानयोरावयोरपि तत्सिसेविषा समजनि । किंत्वस्मदीयकञ्चुककोशे पणाभावात्पितृव्येन सेवितमुक्तानि वर्तिशकलानि गुप्तमेवोच्चित्य ग्रहितुं प्रावर्तावहि ॥
किन्त्वेतानि शकलानि सर्वदा न लभ्यन्ते स्म । न हि तेभ्य:तेभ्यः प्रकामं धूमोऽपि निरसरत् । तस्माद्गृहभृत्यस्य कञ्चुककोशान्मुषितलब्धाभि:कञ्चुककोशान्मुषितलब्धाभिः पञ्चषकाकिणीभिर्धूमवर्ती:पञ्चषकाकिणीभिर्धूमवर्तीः कीत्वा सम्पादयितुमारप्स्वहि । परं त्वेता वर्तय:वर्तयः कुत्र निगूहितव्या:निगूहितव्याः । ज्येष्ठसमक्षं तु तत्सेवनमशक्यमेव । एवं चोर्यमाणद्रव्येण कथंचित्कतिपथदिवसान्निरवाहयाव । एतन्मध्ये कस्यचिद्वृक्षविशेषस्य रिक्तकनालानि धूमवर्तिपानोपयोज्यानि भवन्तीत्यश्रौष्व । ततस्तान्येवानीय सेवितुमुपाक्तमावहि । किन्त्वेतदावयोर्न परितोषमजनयत् । अस्मत्पारतन्त्र्यमावां तुदति स्म । ज्येष्ठानुज्ञां विना न किञ्चिदनुष्ठातव्यमिति निर्बनधो दुस्सहोऽभवत् । पर्यन्ते परमजुगुप्सया स्वात्महत्यां विधातुं निश्चयमकार्ष्व । किन्तु कथमिदं साधयितव्यम् । विषं कुत:कुतः सम्पादनीयम् । धातुरबीजभक्षणं प्राणहरमिति पूर्वमावाभ्यां श्रुतमासीत् । वनं गत्वा तद्वीजमानैष्व । सायं प्रतीक्ष्य केदारेश्वरदेवालयं गत्वा देवाग्रस्थितदीपे घृतं दत्वा निष्पन्नदेवतादर्शनौ किंचिद्विविक्तस्थानमगाव । परं तु विषप्राशनाय न धैर्यमागतम् । सद्य:सद्यः प्राणानामनपगमे का गति:गतिः । आत्महत्यया वा तावत्को हि लाभ:लाभः । पराधीनतापि कस्मान्न सोढव्या । अथापि त्रिचतुरबीजानि गिलितानि । ततोऽप्यधिकमक्षणाय न धैर्यमलप्स्वहि । उभावपि मरणपराङ्मुखावभूव । श्रीरामदेवालयं गत्वा देवदर्शनं प्राप्य शान्तचित्ताभ्यामात्महत्याप्रसड्गो विस्मर्तव्य इति निरणायि ॥
आत्महत्यासड्कल्पस्तावत्सुकर:आत्महत्यासड्कल्पस्तावत्सुकरः । परं तत्साधनं दुष्करमित्यनुभवाद्विदितमभूत् । तदाप्रभृत्यात्महत्यासड्कल्पघोषणेन य:यः कोऽपि मां भीषयति चेत्तदहं नैवाद्रिये ॥
एवंविधप्रयत्नस्य फलितांशस्तु धूमवर्तिशकलसेवनाभ्यासस्य भृत्यकञ्चुकाद्द्रव्यमोषणप्रसड्गस्य चात्यन्तिक:चात्यन्तिकः परित्याग:परित्यागः
प्राप्तवयसो मम धूमपानेच्छा न कदापि जाता । अपि चाभ्यसोऽयमनागरिकश्च मलीमसश्चानर्थप्रदश्चेति सदा प्रत्येमि । लोके सर्वत्राप्यस्मिन्नभ्यासे कुतो हि जनानां तत्तादृश्यासक्तिरित्यद्यापि मया नावगतम् । धूमवर्तिसेविभिर्जनै:धूमवर्तिसेविभिर्जनैः सम्बाधायां धूमशकट्यां प्रयाणं मे दुष्करम् । तद्धूमेन मम श्वास:श्वासः प्रतिबद्धो भवति ॥
इतो दिनकतिपयात्परं यच्चौर्यमकारि तत्खलु पूर्वतनमप्यत्यशेत । काकिणीचौर्यकालेऽहं द्वादशत्रयोदशवर्षदेशीयोऽभवम् । ततोऽपि न्यूनवया वा । द्वितियचौर्यकालेऽहं पञ्चदशाब्दवयस्क:पञ्चदशाब्दवयस्कः । मांसाहारिण पूर्वोक्तमदग्रजस्य हस्तगतसुवर्णकटकात् खण्डमेकमहमचोरयम् । अयमग्रज:अयमग्रजः कस्मैचिज्जनाय पञ्चविंशतिरूप्यकानधारयत् । सौवर्णं घनकटकं तदीयहस्तगतमासीत् । तत:ततः शकलमेकमुत्पाट्य स्वीकरणं नाम नाभूद्दुष्कारो व्यापार:व्यापारः
अथ कृतं तदुत्पाटनम् ऋणं च निर्यातितम् । परं त्वेतदकृत्याचरणं मम दुस्सहं जातम् । इत:इतः परं नैव चौर्यं करिष्य इति निश्चयमकरवम् । अपि च पितुरग्रे स्वापराधमड्गीकरिष्यामीति मतिमकरवम् । किन्तु तत्समक्षं वक्तुमधीरोऽभवम् । न तावत्स मां ताडयिष्यतीति भयादपि तु तस्य दु:खप्रदोदुःखप्रदो माभूवमिति । अस्मन्मध्ये कमपि तेन ताडितं न हि स्मरामि । पर्यन्ते च यद्भवतु सर्वथा तं विदितार्थं करिष्यामीति निर्धारितवान् । अन्यथा तु स्वदिषस्यानड्गीकारे नान्त:शुद्धिर्भवितेतिनान्तःशुद्धिर्भवितेति मया व्यचिन्ति ॥
 
मदपराधवृत्तान्तमखिलमेकस्मिन् पत्रे विलिख्य तत्तस्मै प्रदाय क्षमाभ्यर्थनीयेत्यवधार्य तथा च लिखितपत्रखण्डं तस्य हस्ते न्यधाम् । तत्र न केवलं स्वापराधाभ्युपगतिरुपन्यस्ता परं स्वस्मिन्दण्डपातनमपि प्रार्थितमभूत् । अपि चास्य कॄते भवता विषादो न कर्तव्य इत्यभ्यर्थ्य न पुनरेवमपरात्स्यामीति प्रतिज्ञाक्षरमप्यलेखि ॥
जनकाय पत्रिकां ददानस्य मम शरीरं कम्पते स्म । तत्कालमसौ भगन्दरव्याधिना सन्तप्यमान:सन्तप्यमानः शयनपतितोऽभवत् । तदानीं तु फलकमेकध्यशेत । पत्रं समर्प्य तदग्रेऽहमुपाविशम् ॥
स च पत्रमवाचयत् । नयनाभ्यां मुक्ताफलसन्निभा अश्रुबिन्दवो नि:सृत्यनिःसृत्य पत्रमार्द्रीकुर्वेन्ति स्म । कंचित्कालं पर्याकुलीभूय चक्षुषी न्यमीलयत् । तदनु पत्रमुत्पाट्य प्राक्षिपत् । अथोत्त्थाय पठितुमुपविष्ट:पठितुमुपविष्टः क्षणात्पुन:क्षणात्पुनः शयनमभजत । अहमप्यरुदम् । पितु:पितुः सड्कटं तु प्रत्यक्षमालक्ष्यते स्म । यद्यहं चित्रकरोऽभविष्यं तदा तत्कालीनदृश्यमचित्रयिष्यम् । तञ्चित्रमद्यापि मे मनश्चक्षुष:मनश्चक्षुषः स्पष्टतरं भासतो ॥
तेऽमी मुक्ताबिन्दवो मम ह्रदयकालुष्यं निरसारयन् । तत्प्रेमबाणो मम पापानि निरभिनत् । स च प्रेमा स्वानुभवैकवेद्य:स्वानुभवैकवेद्यः । तथा हि
प्रेमबाणाविषयीभवन्नर
स्तस्य तीक्ष्णगतिविन्न चापर:चापरःइत्याहु:इत्याहुः ॥ अयमेव ममाहिंसावस्तुपाठ:ममाहिंसावस्तुपाठः संवृत्त:संवृत्तः । तस्मिंन्किलावसरे पितु:पितुः प्रेमैकमन्तरा न किंचिदपरं भासते स्म । अद्य हि सैष शुद्धाहिंसाप्रयोग इत्यवगच्छामि । सेयमहिंसा विश्वव्यापिनी कस्य वा शीलं न परिवर्तयेत् । अपरिमेय:अपरिमेयः खलु तस्या:तस्याः प्रभाव:प्रभावः ॥ ईदृक्षशान्तिमयी महनीया क्षमा मम पितुर्निसर्गसिद्धा नाभवत् । मया हि चिन्तितं यदसौ सललाटघातं क्रोधेन मां शप्स्यतीति । परन्त्वयमगाधशान्तिरसपरिप्लुतोऽभवत् । इदं हि विशुद्धान्त:करणेनविशुद्धान्तःकरणेन मया स्वापरधाड्गीकरणस्य फलमिति तर्कयामि । इदं हि मन्ये कृतापराधस्य शुद्धतमं प्रायश्चित्तं यत् क्षमितुरग्रे स्वापराधातां प्रकटमड्गीकृत्य पुनस्तदकरणे प्रतिज्ञानं नाम । जानेऽहमेवंविधया मम प्रवृत्त्या पिता नि:शड्क:निःशड्कः समजनीती । मद्विषयिणी च तत्प्रीतिरमेवा पर्यवर्धतेति ॥
 
== दक्षिणाफ़्रिकाप्रस्थानसज्जीकरणम्==
मया तदाधिकार्युपसर्पणं सर्वथा दोष एव । परन्तु तदीयाग्रहक्रोधगर्वानपेक्ष्य मदीयोऽपराध
स्तावदत्यल्प आसीत् । न खल्वयं बहिर्निष्कालनमार्हित् । पञ्चनिमिषाधिक:पञ्चनिमिषाधिकः कालस्तदीयो मया न क्षपित:क्षपितः । तथापि मद्वचनोपन्यास एव तस्य दुस्सहोऽभवत् । गम्यतामिति सभ्यरीत्या वक्तव्यमुचितमासीत् । किन्तु तस्याधिकारदर्पोऽत्यारूढ स्थित:स्थितः । क्षमायास्तस्मिन्नामापि न श्रूयते स्मेति पश्चादवगतोऽस्मि । स्वपार्श्चमुपागतानां यदवहेलनं तत्किल तस्य साधारणो विषय:विषयः । अणुमात्रविपर्यणाप्यसौ रोषेण ज्वलति स्म ॥
प्रायेण मम कार्याणां भूयिष्ठोंऽशस्तदीयन्यायसभायामेव परीक्षणीयोऽभवत् । न्यायतस्तस्याधिकारिण:न्यायतस्तस्याधिकारिणः समाधामकरणं ममाशक्यमासीत् । तस्य प्रसादनाय नीचै:नीचैः प्रह्वताश्रयणं न मेऽभिमतमासीत् । किं बहुना । व्यवहारेण त्वामभियोक्ष्य इति प्रथममेनं भीषयित्वा पश्चात्तष्णीमासिका न मे समञ्जसा प्रत्यभासीत् ॥
अत्रान्तरे तत्रत्यराजकीयप्रपञ्चस्य कार्यगतिविशेषाणामनुभवो मया बहुश:बहुशः समपादि । काठियावाडदेशस्य प्रायेणाल्पाल्पराज्यभूयिष्ठतया स्वभावादेव तत्र राजनीतिकुशलैर्भूयोभिर्भवितव्यम् । संस्थानानां मध्ये परस्परं कूटनीतिप्रचार:कूटनीतिप्रचारः सेवकजनानामप्यधिकारप्रेप्सयान्योन्य द्रोहचिन्तनमित्येतत्तदानीं सुप्रचरितमासीत् । राजानश्च मधुरवाचां कर्णेजपानां वचनमाकर्ण्य पराधीनप्रवृत्तयोऽभवन् । मुख्याधिकारिण:मुख्याधिकारिणः प्रागलभ्यत:प्रागलभ्यतः स्वामिनप्यशेत । यत:यतः स एव निजस्वामिनश्चक्षु:निजस्वामिनश्चक्षुः । स एव तस्य श्रोत्रम् । स एव तस्य मुखम् । तस्येच्छैव सर्वनियामिका । तस्य द्रव्यादाय:द्रव्यादायः स्वामिनो द्रव्यायतेरप्यधिकतर:द्रव्यायतेरप्यधिकतरः । नन्वत्र कचिदतिशयोक्ति:कचिदतिशयोक्तिः स्यात् परन्तु तस्य वेतनादप्यधिक आसीत्तदीयव्यय इत्यत्र न कोऽपि सन्देह:सन्देहः
वातावरणमिदं विषयमलक्ष्य । एतदीयसम्स्पर्शं कथं वा परिहरेयमित्येषैव मे सार्वदिकी चिन्ताभवत् ॥
एतेनाहं परं खेदभवापम् । इदं ममाग्रजोऽलक्षयत् । यत्र काप्युद्योगलाभे तदड्गीकरणेन मयादित:मयादितः प्रपञ्चाद्विमुक्ति:प्रपञ्चाद्विमुक्तिः स्यादित्युभावचिन्तयाव । किन्तूपप्रदानं विना प्रधानसाचिव्यं वा न्यायाधीशपदं वा कथं लभ्येत । मुख्याधिकारिणा सह कलहप्रसड्गान्मम व्यवहारेषु हानिरुदपद्यत ॥
तदानीं पोरबन्दरसंस्थानमाड्ग्लसाम्राज्येन नियमितस्याधिकारिणा:नियमितस्याधिकारिणाः शासने स्थितम् । तत्रत्यराणाप्रभोरधिकारवृद्वये मया प्रयत्न:प्रयत्नः करणीय आपतित:आपतितःमेराख्येभ्यस्तत्रत्यकृषीवलेभ्योऽत्यधिक:मेराख्येभ्यस्तत्रत्यकृषीवलेभ्योऽत्यधिकः करो गृह्यते स्म । अस्मिन्विषयेऽपि मया (अडमिनिस्ट्रेटर इत्येतदाख्य:इत्येतदाख्यः) शास्तिकर्ता द्रष्टव्योऽभवत् । सोऽधिकारी देशीयोप्याड्गलाधिकारीणं दर्पतोऽतिशयान इवालक्ष्यत । स च स्वकार्ये विचक्षण:विचक्षणः परन्तु तदीयकार्यकौशलात् कृषिकाणां न कोऽपि लाभ:लाभः समजनि । राणाप्रभोरधिकारस्य कचिद्वृद्धिप्रापणे मम प्रयत्न:प्रयत्नः सफलोऽभवत् । किन्तु कर्षकसार्थस्य भारो न लघूकृत:लघूकृतः । तदीयकष्टविचारो यथावदधिकारिणा न पर्यशोधीति मन्ये ॥
एवं च प्रसक्तविषये श्रमानुरूपं फलं मया न लब्धम् । मदीयकार्यिणां च न्यायलाभो नासिध्यत् । तदर्थे न्यायसम्पादनाय यक्तिमपि साधनं मयि नासीत् । बहुकृत्य 'पोलिटिकलएजेण्ट' इत्येतदाख्यराजकीयप्रतिनिधेर्वा 'गवर्नर' इत्येतदाख्यराजप्रतिनिधेर्वा सन्निधाने प्रार्थनापत्रं समर्पणीय मासीत् । एवं कृतेऽपि 'वयमत्र प्रस्तावे न हि प्रवेक्ष्याव:’प्रवेक्ष्यावः’ इति तेनाधिकारिणा विलिख्य प्रार्थनापत्रं निरकासयिष्यत । एवंविधार्थनिर्णय:एवंविधार्थनिर्णयः कमपि शासननियमं प्रमाणीकृत्य यदि कियते तदा स साधुरेव स्यात् । परन्त्वत्र तस्याधिकारेण:तस्याधिकारेणः स्वेच्छैव नियमिकाभवत् । ततो विनष्टक्षान्तिरहं संवृत्त:संवृत्तः
अत्रान्तरे पोरबन्दरवर्ती वणिक्‌सार्थ एको मदग्रजस्य पत्रमेवं व्यलिखत्
“ वयं दक्षिणाफ़्रिकादेशे वाणिज्यकर्तार:वाणिज्यकर्तारः । अस्मदीयो व्यापार:व्यापारः परमूर्जितो भवति । तत्रास्माकमेको महाव्यवहार:महाव्यवहारः प्रवर्तते । चत्वारिंशत्सहस्त्रसुवर्णमुद्रासाध्यकोऽयं व्यवहारस्तत्रत्य न्यायसभायां प्रवेशितोऽस्माभि : । स च बहुभिर्दिनै:बहुभिर्दिनैः प्रचलति । परमघटका न्यायवादिनो ब्यारिस्टजनाश्च तदर्थेऽस्माभि:तदर्थेऽस्माभिः स्थापिता भवन्ति । भवदीयमनुजं यदि भवन्त:भवन्तः प्रेषयेयुस्तदा नस्तेन बहू पकृतं स्यात् । सोऽप्यानुकूल्यमाप्स्यति । स खल्यस्मदपेक्षया व्यवहारसम्बद्धान्विषयानस्मदीयन्यायवादिभ्य:व्यवहारसम्बद्धान्विषयानस्मदीयन्यायवादिभ्यः स्पष्टतरं व्याख्यायात् । किं चास्य नवीनदेशदर्शनं च सेत्स्यति नूतनपरिचयश्च सम्पत्यत इति ॥
अस्य कृते मदग्रजो मया साकममन्त्रयत । प्रस्तुतोऽर्थो न हि मया स्पष्टमबोधि । व्यवहारमधिकृत्य न्यायवादिषु विषयनिरूपणमात्रं मया कर्तव्यमुताहो न्यायसभापि मयोपस्थातव्येत्यहं नाज्ञासिषम् । तथापि गमनोत्साहो मामग्रहीत् ॥
'दादा’ अबदुल्ला-वाणिज्यशालाव्यस्थापकानामेकतमं शेठ-अबदुल-करीम-झवेरीमहाशयं मदग्रजो मां पर्यचाययत् । स च श्रेष्ठी मह्यामित्थं न्यवेदयद्यथा- भवद्भिस्तावदतिश्रमो न वोढव्यो भवति । सन्ति न:नः सुह्रदो महान्त ऎरोप्यजना:ऎरोप्यजनाः । तै सहापि परिचयो व:वः सम्पत्स्यते । अस्मद्विपणिकार्येऽपि साहाय्यं कर्तुं भगतामवकाशो भविष्यति । अस्मदीयलेख्यपत्राणां भूयिष्ठो भाग आड्ग्लभाषामयो वर्तते । तत्सम्बद्धकार्येष्वस्माकं भवद्भिरुप कर्तुं शक्यते । युष्मन्निवासास्मदीयहर्म्यान्तर एव वसति:वसतिः परिकल्प्यते । तस्माद्वसतिनिमित्तव्ययभारो युष्यदुपरि न पतिष्यतीति ॥ अथाहमपृच्छम् - ‘ कियन्ति दिनानि मया व:वः सेवा कर्तव्या । कियद्वेतनं मे प्रदीयत इति ।’
"समयस्तावदेकवत्सरं नातिवर्तेत । युष्मदीयगतागतस्य प्रथमश्रेणीभाटिका प्रदीयते । किञ्च भोजनोपहारव्ययेन सह पञ्चोत्तरशतं सुवर्णमुद्राश्च प्रदीयन्ते” ।
तदेतदुद्दिष्टं मदीयगमनं न खलु न्यायवादिकार्यार्थमिति वक्तुं शक्येत । तद्धि केवलं तदीयविपण्यां भृत्यत्वस्वीकारार्थमेवेति स्पष्टम् । परं तु यथा कथा वा हिन्दुस्थानाद्बहिर्गन्तुमिच्छा मां नुदति स्म । गमनान्न केवलं नवीनदेशदर्शनं नवनवानुभवश्च सिध्यत:सिध्यतः परन्तु भदग्रजस्य कुटुम्बव्यपार्थे पञ्चोत्तरशतं सुवर्णमुद्रा:सुवर्णमुद्राः प्रेषयितुं शक्यं भविष्यति । तस्मात्किञ्चिदप्यविब्रुवंस्तदुक्तवेतनेन तदीयकार्यमनुष्ठातुं प्रतिपद्य दक्षिणाफ्रिकादेशं प्रति प्रस्थातुं सज्जोऽभवम् ॥
 
==स्वदेशयात्रा==
प्राय:प्रायः षण्णवत्युत्तराष्टशताधिकैकसहस्त्रतमस्य कैस्तशताब्दस्य मध्यभागे 'पोंगोला’ नाम-कनौकायानेन स्वदेशं प्रति प्रयाणमड़्‌गीकृतवान् । एषा तरणि:तरणिः कलकत्तानगरगामिन्यासीत् ॥
अस्यां नौकायां केचिदेव पान्था अविद्यन्त । तेषामांग्लाधिकारिणौ द्वावास्ताम् । ममैताभ्यामधिकपरिचयो जात:जातः । अनयोरेकेन सह चहुरंगक्रीडया प्रत्यहमेकहोराकालमत्यवाहयम् । नौकायां वैद्यमहाशयो मे द्राविडभाषास्वयंबोधिनीमदात् । तत्पुस्तकेन तालिमभाषां शिक्षितुमुपाकमे । मुसलमानजनैर्निकटसम्बन्धाधिगमायोर्दूभाषाशिक्षणं तथा च मद्रासप्रदेशवर्तिनां भारतीयानां स्नेहसंपादनाय तामिलभाषाशिक्षणं चावश्यकमिति नातालदेशे मदनुभवाद्विदितमासीत् ॥
उर्दूभाषां मया सह शिक्षमाणेनाड्ग्लेयामित्रेणानुबोधित:शिक्षमाणेनाड्ग्लेयामित्रेणानुबोधितः सन्नौकाबाह्यशालामध्युषितेषु पथिकेषूर्दूमहापण्डितमेकमन्विष्याग्रहीषम् । आवयोरध्ययनव्यासड्ग:आवयोरध्ययनव्यासड्गः सम्यगेव प्राचलत् । अधिकारी मदपेक्षया प्रकृष्टतरमेधाशक्तिमानभूत् । सकृदवलोकनादसौ नैकमप्युर्दूशब्दं व्यस्मरत् । मम तावदक्षरपाठ एवानेकश:एवानेकशः क्लिष्टतरोऽलक्ष्यत । तदपेक्षया भूय:भूयः प्रयस्यन्नपि नाहं तत्समान कोटिमारोदुमशकम् ॥
द्राविडभाषाभ्यासो मे प्रचलित स्म । अभ्यासेऽस्मिन्न किमपि साहाय्यं मयालभ्यत । किन्तु मन्निकटस्थिता 'तामिलस्वयंबोधिनी’ समीचीनं पुस्तकमासीत् । अत:अतः साहाय्यान्तरं नात्यन्तमावश्यकमासीत् ॥
अथेदानीं पाठका:पाठकाः पोंगोलाख्यनौकाप्रवहणस्य मुख्याधिकारिण:मुख्याधिकारिणः परिचय कारयितव्या:कारयितव्याः । आवयोर्मैत्री परस्परं समवर्धत । आसीदयं प्लीमथभ्रातृसंप्रदायानुवर्ती । अस्मदीयकथालापविषयस्तु न तावज्जलयानविद्याज्ञानं यावदाध्यात्मिको विचार:विचारः । स किल नीतिधर्मश्रद्धयोर्भेदं प्रत्यपादयत् । तदीयद्रष्टया कैस्तवेदोपदेशो लेशतोऽपि क्लिष्टवाड़्‌म्यो नाभूत् । तस्य सौन्दर्यं नाम तद्गता सरलता आबालस्त्रीपुरुषमखिलजनैरापि कैस्ते तन्महाबलिदाने च यदि विश्वास:विश्वासः कियते नूनं तर्हि तत्पापानां परिहारो भविष्यतीति कथयति स्म । तमेनमनुचिन्तयतो मम प्रिटोरियाभ्रातर:प्रिटोरियाभ्रातरः स्मरणमागता:।स्मरणमागताः। नीतिनियमोपेता:नीतिनियमोपेताः सर्वेऽपि धर्मास्तस्य नीरसा अभूवन् ॥
अस्या:अस्याः सर्वस्या अपि धर्मचर्चाया मदीयशाकाहारित्वमेव हेतुरासीत् । कुतो मांसं भवता न भक्षणीयम्। गोमांसमक्षणे को दोष:दोषः । यथा सस्यवृक्षादय:सस्यवृक्षादयः फलमूलादयश्च मनुष्योपभोगायैत्र देवेन निर्मितास्यथापि ननु हिनाजातय:हिनाजातयः सर्वेऽपि प्राणिनो मनुष्यजातेरुपभोगायैव सृष्टो:सृष्टोः । एवंविधा प्रश्नमाला आध्यात्मिकवार्ताप्रवेशमपरिहार्यमकरोत् ॥
आवयोरभिय्रायसांगत्यं नैवासिध्यत् । धर्मनीत्योर्नास्ति पारमार्थिको भेद इत्यभिप्रायो मयि दाढर्चमापद्यत । किन्तु मुख्याधिकारी तद्विरुद्धं निजाभिप्रायमेव नि:संशयेननिःसंशयेन संगतममन्यत ॥ गतेषु चतुर्विंशतिदिनेषु प्रमोदावहमिदं समुद्रयानं समाप्तिमगमत् । हुगलीनदीसौन्दर्यावलोकनेनान्दमनुभवन् कलकत्तानगरे नौकायानादवतीर्य तस्मिन्नेव दिने धूमशकट्या मोहमयीनगरं प्रायासिषम् ॥
 
== वर्णद्वेषः==
== वर्णद्वेष:==
न्यायाधिदेवतामविषमतुलाधरीं निष्पक्षपातिनीमन्धामपि कुशलां वृद्ववनितां सांप्रदायिका -
श्चित्रयन्ति । न खलु मनुष्याणां मुखदर्शनेन परन्तु पारमार्थिकयोग्यतानुगुण्येन न्यायनिर्णयो देव इति बोधयितुमेव दैवेन सा द्रष्टिविधुरा न्यधायि । नातालदेशस्य न्यायवादिसभा यथा तत्प्रत्यन्यायस्थानमेतत्तत्प्रतिकूलमाचरेत्तथा कारयितुं प्रवृत्ता ॥
तस्मिन्न्यायस्थाने मया न्यायवादित्वेन प्रवेशो लिप्सित:लिप्सितः मन्निकटे मोहमयीनगरस्योच्च न्यायस्थानेन प्रदत्तं प्रमाणपत्रं स्थितम् । तत्र न्यायवादित्वेन प्रवेशावसरे विदेशलब्धं प्रमाण पत्रमर्पणीयमासीत् । नातालदेशे न्यायसभां प्रविविक्षुणा प्रार्थनापत्रेण सह चारित्रप्रशंसापत्रद्वय मवश्यमेव प्रेषयितव्यमासीत् । तदेतदैरोप्यजनप्रदत्तं चेत् प्रशस्यतरमित्यालोच्य शेठअबदुल्ला महाशयद्वारा कृतपरिचयाभ्यामैरोप्यजनाभ्यां प्रमाणपत्रं समपादयम् । प्रार्थनापत्रं च केनापि न्यायवादिना मदर्थे समुपस्थापनीयमासीत् । प्रायश:प्रायशः प्रार्थनापत्राण्येवंविधानि राजकीयमहान्यायवादिनैव (अटर्नी जनरल) विनार्थग्रहणं समर्प्यन्ते स्म । एस्कूंबमहाशयस्तदानीं तत्पदामध्यास्त । स किल दादा- अबदुल्ला-कंपनीपक्षेऽपि न्यायवाद्यभूत् । स एष मया द्रष्ट:।द्रष्टः। सोऽपि मम प्रार्थना पत्रिकां समर्पयिष्यामीति हर्षुल:हर्षुलः प्रतिज्ञातवान् ॥
अतान्तरे न्यायवादित्येन मम प्रवेशं प्रत्यवतिष्ठमानन्यायदिसभाया:प्रत्यवतिष्ठमानन्यायदिसभायाः सकाशात्सूचना पत्रमेकमागतम् । प्रत्यवस्थानहेतुश्च मम प्रार्थनापत्रेण सहाड्ग्लविदेशीयलब्धं प्रमाणपत्रं न प्राहायीति । किन्तु प्रधानहेतुरन्योऽभूत् पुरा खलु न्यायवादिप्रवेशनियामकशासनस्य निर्माणाकाले कृष्णवर्णा वा हरिद्रवर्णा वा मनुष्या न्यायवादित्वाड्गीकाराय प्रार्थनापत्राण्येवं समर्पयेरन्निति केनापि स्वप्नेपि न चिन्तितम् । नातालदेशो हि श्चेवजनानां साहसेनैवाभिवृद्धि भागत:भागतः । अतस्तत्रत्यन्यायसभाषु प्राधान्यमैरोप्याणामेव रक्षणीयम् । कृष्णवर्णेषु प्रवेशितेषु शनै:शनैः शनैराड्ग्लेयानां प्राधान्यमल्पीभूय स्वात्मरक्षापि तेषां दुष्कार स्यात् ॥
एतदर्थं न्यायवादिसभया कश्चित्प्रख्यातन्यायवादी नियुक्त:नियुक्तः । स च दादा-अबदुल्ला-कम्पनीजनै:कम्पनीजनैः कार्यवान् । तस्मादयमबदुल्लाशेठमहाशयद्वारा मामाकार्य प्रस्तुतार्थमधिकृत्य मया सह निर्व्याजस्पष्टमभाषत । तस्मै मदीयपूर्वचरित्रजिज्ञासवे सर्वं न्यवेदयम् । अथ सोऽब्रवीत् - भवत्प्रतिकूलतया वक्तव्यं किमपि नास्ति । अत्रैव लब्धजन्मनां धूर्तानामेकतमैर्भवद्भिर्भवितव्यमिति मे शड्का । किं च भवता प्रार्थनापत्रस्य मूलप्रमाणपत्रराहित्यात् स संशयो बलवत्तरोऽभूत । अन्यदीयप्रमाणपत्रयोजका जना न किलात्र द्रश्यन्ते । ऎरोप्यजनसकाशादानी तप्रशंसापत्रद्वयहमकिंचित्करं मन्ये । भवद्विषयमेतौ किं वा विधाताम् । तयोर्भवत्परिचयोऽपि कीद्रयो व स्यादिति ॥
अहमवोचम् - अत्र सर्वेऽपि मम नूतना एव। अबदुल्लाशेठमहाशयस्य परिचयोऽपि मे प्रथमं जात इति । तेन पुन:पुनः कथितम् -
उक्तपूर्वं हि भवद्भि:भवद्भिः यदबल्लाशेठमहाशयो भवन्तश्चैकस्थलादागता इति । तत्र भवत्पितरि प्रधानसचिवे सति नूनमबदुल्लाशेठमहाशयेन युष्मत्कुटुम्बपरिचयवतैव भाव्यम् । तत्सकाशाद्भवद्भि:तत्सकाशाद्भवद्भिः प्रशंसापत्रमानीयते यदि न मे किंचित्प्रतिबंधकं तिष्ठेत् । अथाहमपि भवत्प्रवेशं प्रतिरोद्धुं न शक्नुयामिति न्यायवादिसभां प्रति सप्रमोदं लिखेयमिति ॥
अहमेतदाकर्ण्य क्रोधमूर्च्छितोऽभवम् । परन्तु मया निगृहीत:निगृहीतःकोप:कोपः । अथाहमात्मन्येवाचिन्तयम् । अबदुल्लाशेठमहाशयादेव यद्यपि प्रशंसापत्रमानेष्यत तथाप्यांग्लमहापुरुषात्पत्रमेतदा नेतव्यमित्यवदिष्यन् । मदीयन्यायवादित्वांगीकारस्य मदीयजन्मचरित्रयोश्च क:कः संबन्ध:संबन्धः । दारिद्र्याद्वा दुश्चरित्राद्वा लब्धजन्मा भवत्वयं जन:जनः । तदेतत्कथमप्रतिकूलतया प्रयुज्यत इति । किन्तु सर्वमेतन्निगीर्य प्रत्यवोचम् - यद्यप्येनमर्य्थविस्तरं न्यायवादिसभा जिज्ञासितुमधिकारिणीति नाहमड्गीकरोमि तथापि भवदपेक्षानुसारेण प्रशंसापत्रमेकं अबदुल्लाशेठमहाशयादानेतुं सज्जोऽस्मि स्थित इति ॥ अथाबदुल्लाशेठप्रदत्तं प्रमाणपत्रं तस्मै न्यायवादिने प्रादायि । तेन चाड्गीकृतम् । परंत्वे तन्न्यायवादिसभायै नारोचत । तत्सदस्या मम प्रवेशयोग्यतां प्रति प्रत्यवातिष्ठन्त । प्राड्विवाकश्च श्रीएस्कूंबमहाशयस्य प्रत्युत्तरमशुश्रूषुरेव प्रार्थनापत्रं निरकासयत् ॥ तत:ततः प्रधानप्राड्विवाकेनेत्थमभ्यधायि । प्रार्थयिता मूलप्रमाणपत्रं नोपस्थापितवानिति फल्गुरयं वाद:वादः । यद्यनेन प्रेषितं प्रमाणपत्रं मृषात्मकं स्यात् तदासौ व्यवहारेणाभियुक्त:व्यवहारेणाभियुक्तः सन्निर्णीतस्वापराधश्चेत् न्यायदिवर्गान्निष्कासनमर्हति । धर्मत:धर्मतः परीक्ष्यमाणे कृष्णो जन:जनः श्वेतो जन इति भेदो न ग्राह्य:ग्राह्यः । न्यायवादित्वेन श्रीगांधे:श्रीगांधेः प्रवेशं निरोद्धुं न्यायसभा नाधिकारिणी । तस्य प्रार्थना पत्रमड्गीकियतेऽस्माभि:पत्रमड्गीकियतेऽस्माभिः । गांधिमहाशय क्रियतामद्यप्रमाणवचनव्याहार इति ॥
ततोऽहमुत्थाय 'रजिस्ट्रार' इति व्यपदिश्यमानं न्यायाधिकरणकार्यदर्शिनमुपसृत्य प्रमाणवचनोच्चारमकार्षम् । अवसितेऽस्मिन्कर्मणि न्यायाधीशो मामाहूय प्राह-भवत:भवतः शिरो-वेष्टनमिदानीमपनीयताम् । न्यायदिमिर्धार्यवेषसंबन्धिनो नियमा भवताप्यनुवर्तनीया इति ॥
अथ मया निरूपिता तादात्विकी मदीयपरिस्थिति:मदीयपरिस्थितिः । डरबननगरस्य न्यायसभायां यदेव शिरोवेष्टनं नापनेष्यामीति बद्धाग्रहोऽभवं तदेवात्राहमपनीतवान् । नैवापनेष्य इत्यभिनिवेशबंधस्यात्रापि न किल कारणानि नाविद्यन्त । किंत्वेतदपेक्षया महत्तरायोधनमुमुद्यमाय मामकी शक्ती रक्षितव्याभवत् । शिरोवेष्टनधारणाभिनिवेशमात्रे न खलु युद्धाभियोगकुशलता व्ययीकर्तव्या । तत्कौशलप्रयोगाय प्रशस्यतार:प्रशस्यतारः समय:समयः प्रतीक्षणीय:प्रतीक्षणीयः
एवंविधा मदनुमति:मदनुमतिः (मदीयनिर्बलता वा) अबदुल्लाशेठप्रभृतिमित्राणामनभिमताभवत् । न्यायवादिना मया शिरोवेष्टनधारणाधिकारो न परित्याञ्य इति तेऽमन्यन्त । अहमेतान्बोधयितुं प्रवृत्त:प्रवृत्तः देशानुरूपरिधानमावश्यकमिति तेभ्यो न्यवेदयम् । पुनरप्येतानवोचम्-हिन्दु-प्रत्यवस्थातव्यम् । किन्तु नातालसद्रशविदेशवर्तिनीन्यायसभाकृत्यकारिणो मम न्यायसभासंप्रदायविरूद्धमाचरणं न खल्वनुमोदनीयमित्यादिसयुक्तिकवादै:खल्वनुमोदनीयमित्यादिसयुक्तिकवादैः मदीयमित्राण्यहं समादधि । किन्तु विषयस्तावदेकोऽपि संदर्भभेदात् मिन्नद्रष्टयावेक्षणीय इति यत्तत्त्वं तदत्र प्रसंगेऽप्युपयोक्तव्य मित्युपदेशो मदीयस्तेषां ह्रढयंगमोऽभूदिति वक्तुं न शक्यते । अन्याभिप्राये सहिष्णुतामूलं यत्सुखं तन्मदीयजीवने सत्यानुवर्तिनो मम सम्यग्यिदितमभूत् । तदेवत्तत्त्व सत्याग्रहस्य जीवितमित्यनुभवसिद्धमासीत् । ईद्रशक्षमावृत्तिवशादनेकशो मम प्राणापाय:प्राणापायः सृह्रदसंतापश्च समजनि । परन्तु सत्यं वज्रकठोरं कमलवत्कोमलं च भवति ॥
एवं न्यायवादिसभया प्रत्यवस्थितोऽहं भूय:भूयः ख्यातिमगमम् । बहूनि वृत्तपत्राणि न्यायवादिसभयानुष्ठितमकृत्यमसूयानिमित्तकमिति च प्राहु:प्राहुः । किं च व्याख्यानटीकादिभिरीद्रशैर्मम कार्यं भूय:भूयः सुकरमासीत् ॥
 
==‘खादी ’ जन्म==
पंचदशोत्तरैकोनविंशतिसहस्त्रतमे वर्षे दक्षिणाफ्रिकादेशतोऽहं पश्चाद्वृत्त:पश्चाद्वृत्तः । तदा मया वस्तुत:वस्तुतः 'चरखो’ न द्रष्ट:द्रष्टः । साबरमत्यां सत्याग्रहाश्रमनिर्माणकाले कतिपयान् वायदंडान् वयं प्रावेशयाम । तत्प्रवेशनादनंतरमेव प्रातिकूल्यमुत्थितम् । सर्वे वयमुदारवृत्तिग्राहिणोऽथवा कार्यपरा:कार्यपराः । नैकोऽप्यस्माकं शिल्पी बभूव । वायदंडेषु कार्यकरणात्पूर्वमस्माकमेको वयनकुशलो वयनं शिक्षयितुमावश्यक आसीत् । पर्यंते पालनपुरग्रामादेको लब्ध:लब्धः । किंतु तस्य सर्वं शिल्पिज्ञानमस्माकं न ददौ । परंतु मगनलालगांधिमहाशय:मगनलालगांधिमहाशयः शीघ्रमेव निराशो न संवृत्त:संवृत्तः । शिल्पयंत्रकार्ये स्वभावत:स्वभावतः समर्थोऽचिराच्छिल्पविद्यामग्रहीत् । अपि चैकैकश:चैकैकशः कतिपयनूतनवायका:कतिपयनूतनवायकाः शिक्षिता आश्रमे । स्वहस्तनिर्मितवस्त्रेणात्मानं वासयितुं शक्यं यथा स्यात्तथा भवितुमस्माकमुद्देश आसीत् । अतो वयं तत्क्षणमेव यंत्रनिर्मितवस्त्राणि परित्यज्याश्रमस्य सर्वे जना स्वदेशीयसूत्रैर्निर्मितानि वस्त्राण्येव धारयितुं निश्चिता बभूवु:बभूवुः । एतदभ्यासस्वीकारो महान्तमनुभवमानिनाय । वायकानां जीवितनियमान साक्षात्संपर्केणावगन्तुं शक्तानकरोत् । अपि चोत्पन्नस्य प्रमाणं सूत्रसंपादनमार्गे स्थितानंतरायान् वंचना-ग्रस्ता:ग्रस्ताः भवितुं मार्गोऽपि च पर्यन्ते सर्वदा वर्धमानं ऋणित्वं एतत्सर्वं ज्ञातुं शक्तांश्चकार । यादवस्माकमावश्यकं तावत्सर्वं लब्धुं न समर्था अभूम । अतोऽवशिष्ट:अतोऽवशिष्टः पक्षो हस्तवेम्नस्तंतुवायाद्वस्त्रं संभरणीयम् । परंतु:परंतुः सज्जस्थितवस्त्रं भारतीययंत्रसूत्रनिर्मितवस्त्रविक्रयिभ्यो वा तंतुवायेभ्यो वा लब्धुं न सुकरम् । तंतुवायैर्निर्मितं वस्त्रं सर्वं समीचीनं विदेशीयसूदेव । यतो भारतीययंत्राणी तर्कुद्वारेण तंतून्न चक्रु:चक्रुः । अद्यापि यंत्राणामुत्पादनमत्यल्पं स्वदेशीयसूत्राणां तंतुवायान् पर्यन्ते महता प्रयत्नेन लब्धुमशक्नुम । नियमस्तु तैरुत्पादितं सर्वमस्मद्धारणवस्त्राणामिति यंत्रनिर्मितसूत्राणां वस्त्रस्वीकारेण सुह्रदां च मध्ये प्रसारणेन भारीतीयसूत्रकरणयंत्राणामैच्छिकप्रतिनिधीभूता:भारीतीयसूत्रकरणयंत्राणामैच्छिकप्रतिनिधीभूताःएतद्यंत्रै:एतद्यंत्रैः सह संपर्कमजनयत् । तेन तेषां कार्यसंविधानं कार्यप्रत्यूहांश्च ज्ञातुमवकाशो लब्ध:लब्धः । यंत्राणामुद्देशे निर्मितसूत्रेण तंतुवायानधिकं कर्तुमासीत् । हस्तमेवतंतुवायैस्तेषां सहकार:सहकारः यथेप्सितो नासीत् । किंत्वपरिहार्योऽनित्यश्च । अस्मत्स्वकीयसूत्रस्य तांतवकरणे वयमातुरा:वयमातुराः स्थिता:स्थिताः । यावद्वयमेतत् कर्तुमवस्थितास्तावद्यंत्राणामालंबनं स्थास्यतीति स्पष्टम् । भारतीययंत्राणां प्रतिनिधीभूय देशसेवां कर्तुं समर्था भवेमेति नान्वभूम ॥
सप्तदशोत्तरैकोनविंशे वर्षे भरूचपत्तने संवृत्तशिक्षणपरिषदध्यक्षो भवितुं सुह्रदस्तत्र मामनैषु:मामनैषुः । तत्रैवाहं तां महासाहसिनीं गंगाबाईमहाशयामदर्शम् । सा विधवा । तथापि तस्या:तस्याः साहसं निरवधिकमासीत् । सामान्यगणनया सा यद्यपि तावच्छिक्षिता नासीत्तथापि धैर्ये ज्ञाने च सास्मत्-सुशिक्षितस्त्रीजनमतीवातिकांता । सा न केवलमस्पृश्यताकलंकं परित्यकवती परं निर्भयेनास्पृश्यैर्मिलित्वा तत्सेवामकरोत् । तस्या:तस्याः स्वीयं विषयमासीत् । यदस्या आवश्यकं तदत्यल्पम् । सा सिघटितशरीरा सहचरं विना सर्वत्र संचारं करोति स्म। अश्वारोहणं नाम तस्या:तस्याः सामान्यम् गोधरानगरे संवृत्तपरिषदि मम तया सह गाढ:गाढः परिचयोऽभूत् । 'चरखा’ संबंधे मम दु:खमस्यदुःखमस्य न्यवेदयम् । अहं राटं परिशोधयितुं निरंतरं प्रयतिष्य इत्युक्त्वा सा मम भारमल्पीचकार ॥
 
==बाल्ये सत्यप्रियतायाः पाठः==
पङ्क्तिः १८७:
{{भारतस्य स्वातन्त्र्यसङ्ग्रामः}}
 
== सम्बद्धजनाः ==
== सम्बद्धजना: ==
* [[बालगङ्गाधरतिलकः]]
 
पङ्क्तिः १९७:
==उल्लेखाः==
<references/>
"
 
[[वर्गः:गुजरातराज्यस्य जनाः]]
"https://sa.wikipedia.org/wiki/महात्मा_गान्धी" इत्यस्माद् प्रतिप्राप्तम्