"बौद्धधर्मः" इत्यस्य संस्करणे भेदः

No edit summary
No edit summary
पङ्क्तिः ११:
::::प्रत्यक्षं क्षणभङ्गुरं च सकलं वैभाषिको भाषते । इति ॥
बौद्धदर्शनप्रचारणं पालिभाषायाम् आसीत् । संस्कृतावगणना एव बुद्धमतनाशकारणेषु अन्यतमा इति [[विवेकानन्दः|विवेकानन्दादयः]] कथितवन्तः इति अत्र स्मर्तव्यम् । प्रत्यक्षम् अनुमानम् इति द्वे प्रमाणे बौद्धाः अङ्गीकुर्वन्ति ॥
बौद्धदर्शनम् ऐतिहासिककालक्रमेण जैनदर्शनस्य परवर्त्ती अस्ति । अस्येदं कारणं वक्तुं शक्यते,यत् महावीरपर्यन्तं जैनतीर्थङ्कराणाम् अन्येषां दार्शनिकानां च साहित्ये कुत्रापि बौद्धदर्शनस्य उल्लेखो नास्ति,किन्तु म- हावीरस्यमहावीरस्य सिद्धान्ता बौद्धनिकायेषु उपलभ्यन्ते । अनेन सिद्ध्यति यत् बौद्धधर्मो जैनधर्मापेक्षया परवर्त्ती अस्ति । इ- दम्इदम् ऐतिहासिकं सत्यम् अस्ति ।<br />
बौद्धदर्शनस्य प्रवर्तको भगवान् बुद्ध आसीत् । इयमपि ऐतिहासिकी घटनाऽस्ति । बुद्धस्य पूर्वनाम् सिद्धार्थ इत्यासीत् । अस्य जन्म ई.पू.२२६ इत्यवर्तत । अस्य पिता शक्यवंशीयो नृपः शुद्धोदन आसीत् । अस्य माता मायादेवी अस्य जन्मनः एकसप्ताहनन्तरमेव दिवङ्गताऽभवत् । अस्य जन्मसमये कपिलवस्तुनो राजज्योतिर्विद्भिः भविष्यवाणी कृता,यदमुष्य महाभिनिष्क्रमणं भविता,धर्मप्रवर्तकश्चायं भवेत् इति ।<br />
तदनुसारमेव सिद्धार्थः एकोनविंशतिवर्षीयायां वयसि स्वपत्नीपुत्रौ परित्यज्य सांसारिकदुःखानाम् आत्यन्तिकविनाशाय उपायान्वेषणप्रयोजनात् राजभवनमपि त्यक्तवान् । सः चिरशान्तिलाभाय ज्ञानार्जनाय च गह- नं वनं प्रविष्टवान् । ज्ञानान्वेषणप्रयत्ने सर्वप्रथमं सः सांख्यतत्त्वविदः अराडकलामस्य शिष्यत्वे सत्यानुसन्धानं कृतवा-न्,किन्तु असन्तुष्टे सति विविधस्थानेषु ज्ञानोपदेशानां श्रवणानन्तरम् उरुवेलायां कठोरं तपः कृत्वा आर्यसत्य- चतुष्टयं विज्ञातवान् । तस्मात्तस्य निखिलं कल्मषं विनष्टं बुद्धत्वञ्च सम्प्राप्तम् ।<br />
"https://sa.wikipedia.org/wiki/बौद्धधर्मः" इत्यस्माद् प्रतिप्राप्तम्