"बौद्धधर्मः" इत्यस्य संस्करणे भेदः

No edit summary
No edit summary
पङ्क्तिः २०:
== बौद्धधर्मस्य आचारमीमांसा ==
सांसारिकदुःखेभ्यो मुक्तये भगवता बुद्धेन जटिलदार्शनिकताम् अनपेक्ष्य सरलतया आचारपद्धतिः प्रतिपादिता । बुद्धो गहनामाध्यात्मिकतां प्रश्रयं न प्रददाति स्म । अतः श्रावस्तीविहारस्य अवसरे मालुंम्यपुत्तेन अ-ध्यात्मविषये बुद्धः पृष्टः । तदा बुद्ध आचारमार्गमेव उपदिदेश । बुद्धमतेन आर्यसत्यचतुष्टयं एवं प्रकारेण निर्दिष्टम्- (१) दुःखं (२) दुःखसमुदयः (३) दुःखनिरोधः (४) दुःखनिरोधगामिनी प्रतिपत्तिश्च । अर्थात् संसारः दुःखमयोऽस्ति, दुःखानां निदानमपि विद्यते,दुःखभ्यो मुक्तिरपि लब्धुं शक्यते,मुक्तिमार्गोऽपि निर्धारितोऽस्ति । केवलम् आर्यजना एव एतान् प्राप्तुं शक्नुवन्ति,अनार्यास्तु यावज्जीवनं दुःखेष्वेव जीवन्ति ।

बुद्धमतानुसरेण आर्यसत्यमार्गस्य द्वादशकारणानि सन्ति – (१) जरामरणम्, (२) जातिः, (३) भवः, (४) उपादानम्, (५) तृष्णा, (६) वेदना (७) स्पर्शः, (८) षडायतनम् (९) नामरूपम् (१०) विनयम् (११) सं- स्कारःसंस्कारः (१२) अविद्या च । एषु प्रत्येकं पूर्वं प्रति परं कारणमविद्यत । उदाहरणार्थं जरामरणयोः कारणं जातिरस्ति, जातेः कारणं भवो,भवस्य कारणम् उपादानं भवति । एतानि द्वादशकारणानि आश्रित्य कार्यकारणभावस्य यः सि- द्धान्तःसिद्धान्तः प्रतिपादितोऽस्ति,सः बौद्धमते प्रतीत्यसमुत्पाद इत्युच्यते । प्रतीत्यसमुत्पादस्य तात्पर्यार्थो वर्तते – कस्यचिद्र् वस्तुनः प्राप्तौ अन्य्स्य वस्तुनः उत्पत्तिरिति । एवञ्चेत् अयं वस्तुतः सापेक्षः कारणतावाद इत्यपि वक्तुं शक्यते ।

प्रतीत्यसमुत्पाद एव बौद्धप्रतिपादितः कारणवादोऽस्ति । अयमेव मानवोत्पत्तिसन्दर्भे श्रृंखलाबद्ध- तांश्रृंखलाबद्धतां निर्दिशति । मानवोत्पत्तेः श्रृंखलायां द्वादश अङ्गनि त्रयः काण्डाश्चासन् । प्रथमकाण्डे अतीतेन जन्मना सम्बद्धं निदानं विद्यते,फलतः अविद्याजन्यसंस्कारा जायन्ते । द्वितीयकाण्डे वर्तमानजीवनेन सम्बन्धं निदानमस्ति यस्यान्तर्गतं विज्ञानतो भवपर्यन्तम् अष्टौ कारणानि जायन्ते । तृतीयकाण्डे भविष्यता सम्बद्धं निदानं भवति । तत्र जातिः जरामरणञ्चेति कारणद्वयं गृहीतमस्ति ।

तृतीयम् आर्यसत्यम् दुःखनिरोधात्मकमस्ति । तस्य तात्पर्यमस्ति यत् कार्यं कारणम् आश्रित्य तिष्ठति । चेत् कारणध्वंसः स्यात् तदा कार्यमपि स्वतो ध्वस्तं भवेत् । एवं चेत् मूलकारणरूपम् अविद्यां विद्यया उन्मूलितां कुर्यात् तदा तज्जन्यं किमपि कार्यं न भवितुं शक्नोति ।

चतुर्थम् आर्यसत्यं निर्वाण इत्यस्ति । अस्य प्राप्तै बुद्धेन मध्यममार्गस्य उपदेशः प्रदत्तः । अर्थात् निर्वाणप्राप्तये कठोरव्रतोपवासादीनामावश्यकता नापेक्षते,न च सर्वथा श्रमरहितम् आचरणं वा प्रशस्यते । उभयोर्मध्ये किमपेक्षणीयमिति विचार्य भगवता बुद्धेन यः मार्गः प्रतिष्ठापितः स एव मध्यममार्गोऽस्ति । अस्य मध्यममार्गस्य अष्टौ अङ्गनि सन्ति,अतएवायं अष्टाङ्गिकोमार्ग इत्यपि कथ्यते ।

== अष्टाङ्गिकमार्गः ==
बुद्धप्रतिपादितस्यास्य मध्यममार्गस्य अष्टौ अङ्गानि एवं प्रकारेण सन्ति-सम्यक् व्यायामः,सम्यक् स्मृतिः,सम्यक् समाधिश्चेति । अस्य अष्टाङ्गिकमार्गस्य सम्यक् पालनेन निर्वाणः प्राप्यते,एतादृशी बौद्धानां मान्यताऽस्ति ।

एवं प्रकारेण भगवान् बुद्धः अविद्याया मूलकारणं मत्वा ज्ञानेन तत्परिमार्जनस्य महत्वं प्रतिपादि- तवान्प्रतिपादितवान् । शुद्धं ज्ञानं शुद्धां मनोवृत्तिं विना नैव प्राप्यते । शरीरशुद्धये भगवता बुद्धेन शीलसमाधिप्रज्ञादीनां महत्त्वं प्र-तिपादितम्प्रतिपादितम् । शीलस्य अन्तर्गतं अहिंसा-सत्य-अस्तेय-ब्रह्मचर्य-अपरिग्रहाणां समावेशो भवति । अत्र नैतिकसुखसाध-नानांनैतिकसुखसाधनानां परित्यागोऽपि गृहीतः । समाधिः द्वितीयं साधनमस्ति । समाधेः पूर्व जन्म-स्मृति-उत्पत्ति-विनाशादीनां ज्ञानं बाधकनियमानां बोधश्चापेक्षते । प्रज्ञा तृतीयं साधनमुच्यते । प्रज्ञाऽपि त्रिधा प्रतिपादिता-श्रुतमयी प्रज्ञा,चिन्तामयी प्रज्ञा,भावनामयी प्रज्ञा चेति ।

== बौद्धचिन्तनस्य दार्शनिक आधारः ==
बौद्धदर्शनस्य यच्चिन्तनसमग्रं वर्तते तस्य आधारः अध्यात्मवादो नास्ति । बौद्धचिन्तनस्तु संघात-वादसत्तावादयोरेव विस्तारोऽस्ति । आत्मचिन्तनं दुःखनिवृत्तेर्मुख्यं साधनमस्ति,तथापि बुद्धेन आत्मनोऽस्तित्वमेव निराकृतम् । तन्मतानुसारेण आत्मा केवलं मनोवृत्तीनां पुञ्जमात्रमस्ति । यतोहि मानसप्रवृत्तिभ्योऽतिरिक्तं तस्यात्म-तत्वस्यतस्यात्मतत्वस्य किमपि अस्तित्वं नास्ति । तत् आत्मतत्त्वन्तु रूप-वेदना-संज्ञा-संस्कार-विज्ञानादीनां पञ्चस्कन्धानां समुच्चयो-ऽस्तिसमुच्चयोऽस्ति । रूपं भौतिकः पदार्थोऽस्ति । कस्यपि वस्तुनः साक्षात्करः संज्ञा भवति । तया संज्ञया उत्पन्नयोः सुखदुःखयोर-थवासुखदुःखयोरथवा औदासीनस्य भावो वेदना कथ्यते । भूतकालिकेन अनुभवेन उत्पद्यमानः,स्मृतिकारणभूतानां मानसिकप्रवृत्तीनां स्वभावः संस्कारोऽस्ति । अयमेव चैतन्यविज्ञानमिति नाम्ना ज्ञायते ।

आत्मनः स्वरूपं स्पष्टीकर्तुं नृपो नागसेनो मिलिन्दे रथस्य प्रत्येकम् अवयवस्य सम्बन्धे प्रश्नं करो-तिकरोति,मिलिन्दश्च प्रत्येकस्य प्रश्नस्य नकारात्मकम् उत्तरं प्रददाति । वस्तुतः स्वतन्त्ररूपेण अश्वाः रथं न सन्ति,न च वल्गा एव रथमस्ति,काष्ठमयं शकटमपि रथं नास्ति । एतादृश्यां स्थितौ रथस्य प्रत्येकम् अवयवाः रथं सन्तीति स्वीक्रियते। तथैव स्वतन्त्ररूपेण कश्चिदपि आत्मा नास्ति । अपितु व्यवहारे दृश्यमाणानां भौतिकाना मानसिकानाञ्च व्यापाराणां समूह एव आत्मा उच्यते ।

सन्तानवादः- बौद्धदर्शनानुसारं जीवो जगच्चेत्युभयमेव अनित्यमस्ति । इदं स्कन्धपञ्चकं स्थिरं ना-स्तिनास्ति । क्षणे क्षणे चैतत् परिवर्तितं भवति । यथा दीपस्य ज्वाला सततमेकैव दृश्यते,किन्तु सा प्रतिक्षणं परिवर्तते । त-दानीम्तदानीम् इदमनुभवोऽपि नैव जायते यत् तैलवर्तिकयोः संयोगाद् दृश्यमाणा दीपशिखा प्रतिक्षणं नूतनं तैलं वर्तिकांश-ञ्चवर्तिकांशञ्च ज्वालयितुं तस्मित्रेव प्रविष्टा भवति । एवं प्रकाशशिखारूपेण पूर्वतो विद्यमाना ज्वाला विनश्यत्येव । बौद्धदर्शने मुख्यतः परिणामस्य सिद्धान्तोऽभिमतोऽस्ति । अतो जगतःसत्यत्वमेकशोऽस्वीकृतम् अकुर्वाणैः तस्य परिणामात्मकता स्वीकृता । परिणाम एव सत्यमस्ति किन्तु अस्य परिणामस्य मूले किमप्यन्यत् सत्यतत्वं नास्ति । बुद्धस्य वैचारिक-सूक्ष्मताया एषाऽद्वितीया कल्पना वर्तते ।
== बौद्धदर्शनस्य धार्मिको विकासः ==
बौद्धधर्मे महायानसम्प्रदायः थेरावादं स्वीकृतवान्,अतएव तस्य अपरा हीनयानसंज्ञाऽपि सञ्जाता। बौद्धधर्मस्य विविधेषु यानेषु बोधविषये अर्थात् जीवनमुक्तिनिरूपणविषये एकरूपता नास्ति । एषां त्रयाणां यानानां तिस्रो जीवनमुक्तयः सन्ति-श्रावकबोधिः, प्रत्येकबुद्धबोधिः,सम्यक् सम्बोधिश्चेति । एषां सर्वेषां साधनापद्धतिः भिन्नाऽस्ति । बौद्धदर्शनस्य विकासो बौद्धधर्मेण सह नैव जातः । यदा बौद्धधर्मस्य प्रचण्डः प्रचार आसीत् तदा बौद्धदर्शनस्य सिद्धान्ताः अस्तंप्राया आसन् । किन्तु यदा कदा बौद्धविदुषां बुद्धोपदेशानां गाम्भीर्ये प्रवेशो जातः,तदारभ्य बौद्धधर्मः स्वत एव शिथिलो जातः ।

पङ्क्तिः ४०:
सौत्रान्तिकमते बाह्मार्थानुमेयवादः स्वीक्रियते । एतदनुसारेण बाह्मपदार्था इन्द्रियज्ञानगम्या न सन्ति । यतो हि पदार्थाः क्षणिकाः सन्ति,परिणामस्वरूपं इन्द्रियार्थसन्निकर्षकाले ज्ञानानुभवकाले च पदार्थाः परिवर्तिता एव जायन्ते । अतएव तस्मिन् क्षणे पदार्थान्तरमेव अभिमुखं भवति । एवं बाह्मपदार्थानां सत्ता प्रत्यक्षगम्या नास्ति,अनुमानेनैव तद् विज्ञायते । अयं सिद्धान्त एव बाह्मार्थानुमायेववादो भवति ।
=== योगाचारसम्प्रदायः ===
योगाचारस्य सिद्धान्तः विज्ञानवादोऽस्ति । विज्ञानवादस्य विचारधारानुसारेण बाह्म-सत्ताया अस्तित्व एव स्वीकर्तुं नैव शक्यते,यतो हि बाह्मजगतः प्रयोजनकाले मनसि निपतितस्य प्रतिबिम्बस्य आधा-रेणैवआधारेणैव तद् विज्ञायते । अत्र प्रतीतेराधारः ज्ञानमस्ति,अतएव ज्ञानम् अथवा विज्ञानमेव सत्यतत्त्वमस्ति । चितं मनस् इत्याद्या विज्ञानस्यैव संज्ञाऽस्ति । विज्ञानमेव चेतनक्रियासम्बन्धवशादेव चित्तमित्युच्यते,मनःक्रिया सम्बन्धवशादेव मन इति कथ्यते । विषयग्रहणस्य साधनतया एव विज्ञानं सिद्ध्यति ।
=== माध्यमिकसम्प्रदायः ===
माध्यमिकानां सिद्धान्तः शून्यवादोऽस्ति । शून्यवादमतानुसारेण बाह्मपदार्थोऽपि सत्यं नास्ति,आन्तरपदार्थोऽपि सत्यं नास्ति,विज्ञानमपि सत्यं नास्ति । शून्यमेव सत्यं वर्तते । अथ शून्यम् किं अस्तीति विचार्यते ।शून्यं किं अभावोऽस्ति? अत्र माध्यमिकानां मतं वर्तते यत् शून्यं न तु भावरूपमस्ति,न चाभावरूपमेवास्ति । इदन्तु अनिर्वचनीयं विद्यते । सर्वेभ्यो भिन्नतया एवास्य शूनसंज्ञाऽस्ति ।

पङ्क्तिः ४७:
शून्यवादिनां बौद्धानां मतानुसारेण सत्यं द्विविधमस्ति-व्यवहारिकं पारमार्थिकं च । लोकव्यवहारे प्रचलितं सत्यं व्यावहारिकं स्वीक्रियते । अस्यैव अपरं नाम सांवृतिकम् इत्यपि वर्तते । पारमार्थिकं सत्यं तु अनुपन्नम् अनिरुद्धम् अनुच्छेद्यम्,अशाश्वतं चास्ति । पारमार्थिकं सत्यं बुद्धिगम्यं नास्ति ।संवृत्तिर्नाम आच्छादनक्रियाया अस्ति। एवं सांवृत्तिकं तद्भवति यद् हि आच्छादकं भवति । आच्छादकं तत्त्वन्तु अविद्या वर्तते । तयैव अविद्यया यदा अन्यत् तत्त्वम् आच्छाद्यते,तदा व्यावहारिकस्य सत्यस्य उदयो भवति ।

बौद्धेरपि अविद्यास्वरूपिण्या मायायाः कार्यद्वयं स्वीकृतम्-(१) स्वभावदर्शनस्यावरणं (२) तत्र चासत्पदार्थस्वरूपस्यारोपणम् । शून्यवादिभिः सेवृत्तिरपि द्विधा विभक्ता-(१) तथ्यसंवृत्तिः (२) मिथ्यासंवृत्तिश्चेति । पदार्थस्य यथार्थं परिज्ञाने तथ्यसंवृत्तिर्भवति किन्तु अयथार्थज्ञाने मिथ्यासंवृत्तिरस्ति । उभयोः संवृत्योर्माध्यमेन गृहीतं ज्ञानं सांवृत्तिकं भवति । तदेव व्यावहारिकं सत्यमपि उच्यते । सांवृत्तिकं सत्यमेव पारमार्थिकसत्यस्य साधनमप्यस्ति ।

व्यावहारिकेण सत्येनेव पारमार्थिकस्य सत्यस्य बोधो जायते । जन्मतः कश्चिदपि पारमार्थिकस-त्यस्यपारमार्थिकसत्यस्य दर्शनं न करोति । अत्र पारमार्थिकं सत्यं निर्वाणरूपं भवति । निर्वाणस्तु एताद्रृशं तत्त्वं वर्तते यो हि अज्ञातो भवति,यस्य प्राप्तिरपि नूतना न भवति,यस्य विनाशोऽपि नैव जायते,यो हि न तु विराध्यति न चोत्पद्यते । अतएवा-सौअतएवासौ अनिर्वचनीयः कथ्यते । अस्यानिर्वचनीयतत्त्वस्य ज्ञातैव बौद्धमते '''तथागत''' इति नाम्ना विज्ञायते । बौद्धधर्मे व्यावहारिकपारमार्थिकसत्ययोराधारेणैव व्यावहारिक आदेशो दीयते ।

यदा साधकः पारमार्थिकसत्यस्यानुसन्धानेन एव तथागतस्य स्वरूपं शून्यतां च प्राप्नोति तदा स्वयं वर्णनातीतो भवति,यतो हि सः तदा अविद्या अस्पष्टे सति सर्वेभ्यो मतेभ्यो रहितोऽपि जायते । सः सर्वविधक्लेशेभ्यो ज्ञेयावरणेभ्यश्च मुक्तो भवति । किन्तु इदं सर्वं निर्वाणरूपं सम्यक् सम्बोधिं विना असम्भवमेवास्ति ।

सम्यक् सम्बोधिस्तु षट्पारमितानामुपलब्धेरनन्तरं प्राप्यते । षत् पारमिता एवं प्रकारेण प्रतिपादिताः- (१) ज्ञानं (२) शीलं (३) क्षान्तिः (४) वीर्यम् (५) समाधिः (६) प्रजा च । आसु षट्सु पारमितासु ज्ञान-शीलं-क्षान्तीनां सततम् अभ्यासेन पुण्यसंभारस्य प्राप्तिर्भवति । वीर्यसमाध्योरभ्यासेन ज्ञानसम्भारस्य प्राप्तिर्भवति ।उभयविधसम्भारेण प्रज्ञाया उदयोभवति । प्रज्ञापि उभयविधाऽस्ति-साधकरूपा फलरूपा च ।

यदा साधकः साधनभूतां प्रजां प्राप्य अभिमुक्तचरित संज्ञको भवति तदा उक्तज्ञानस्य आविर्भावे सति फलरूपा प्रज्ञा उत्पद्यते । प्रज्ञायाश्चरमोत्कर्षः एव बुद्धत्वप्राप्तिरस्ति । अस्यामेव अवस्थायां सर्वशून्यताया दर्शनं जायते । दुःखानाम् आत्यन्तिकी निवृत्तिरप्यत्रैव सम्भवति । शून्यतायाः प्रतीतौ सर्वविधधर्माणां स्वभावहीनता दृश्यते ।
माध्यमिककारिकायां गति-इन्द्रिय-स्कन्ध-धातु-दुःख-संसर्ग-कर्म-बन्ध-मोक्ष-काल-आत्मादीनां त-त्त्वानांतत्त्वानां व्यावहारिकस्थितेः विश्लेषणं कृतमस्ति । तत्र शून्यवादिनाम् आचार्याणां तर्कपद्धतेः सूक्ष्मता स्पष्टरूपेण परि-लक्षिता भवति । इदम् अखिलं व्याख्यानं निषेधात्मकमेवास्ति । अनया पद्धत्या जगतः सर्वा अवधारणाः निःस्वभा-वाःनिःस्वभावाः सन्ति । अस्यैव सम्प्रदायस्य बुद्धपालितादिभिः शून्यतायाः सिद्धये तर्कस्य पूर्णतया तिरस्कारो विहितः । अतएव बौद्धदर्शनस्येतिहासे माध्यमिक इति प्रासङ्गिकनाम्ना अभिहितो वर्तते ।
वैदिकदर्शनानां मुक्तेरथवा मोक्षस्य स्थाने बौद्धा निर्वाणं प्रतिष्ठितवन्तः । बौद्धदर्शनस्य विविधैः सम्प्रदायैः निर्वाणस्य निरूपणं स्व-स्व-मान्यताया आधारेण कृतवन्तः । तथापि बौद्धानां चत्वारः सम्प्रदाया हीनयान–महायानयोः रूपेण विभक्ताः सन्ति । यतो हि हीनयाने निर्वाणस्य यत् स्वरूपं प्रतिष्ठापितमस्ति महायाने तद्भिन्नरूपेण प्रतिपादितमस्ति ।

हीनयाने निर्वाणस्य स्वरूपम्- हीनयानमतानुसारेण संसारः दुःखमयोऽस्ति । दुःखस्य त्रयः प्रका-राःप्रकाराः सन्ति-दुःखदुःखता,संस्कारादुःखता एवं विपरिणादुःखता च । शारिरिकैः मानसिकैश्च कारणैः उत्पाद्यमान दुःखं दुःखतासंज्ञकमस्ति । उत्पत्तिशीलस्य विनाशशीलस्य च जगतः वस्तुभिः उत्पाद्यमानं दुःखं संस्कारदुःखता कथ्यते । यैः कारणैः सुखमपि दुःखरूपे परिणतं भवति तैः कारणैः उत्पद्यमानं दुःखं विपरिणदुःखता भवति । प्राणी विविध-दुःखेभ्यः कथं मुक्तोभवेत् इति विचार्य बुद्धेन चतुर्ण्णाम् आर्यसत्यानामुपदेशः प्रदत्तः । एषामार्यसत्यानाम् आचारण-मेव सांस्कारिकपदार्थानां नश्वरतायाः अनात्मतायाश्च ज्ञानं दुःखनिवृत्तेः सदुपायो वर्तते । एवम् अष्टाङ्गिकमार्गस्य अनुसरणं प्रथम उपायोऽस्ति,सांसारिकपदार्थान् प्रति ह्येताभावो द्वितीय उपायोऽस्ति,आत्मनोऽस्तित्वस्य अस्वीकृतिः तृतीय उपायोऽस्ति । एषाम् त्रयाणाम् उपायानाम् अनुपालनेन त्रिविधदुःखनाम् उन्मूलनं भवति । एतादृश्याम् अवस्थायां पुष्टजीवस्य पुनः बन्धरूपता न जायते । इयमेव अवस्था निर्वाणस्यास्ति ।

महायाने निर्वाणस्य स्वरूपम्- महायानमतानुसारेण निर्वाणस्य कृते उभयविधानाम् आवरणानां क्षयः आवश्यको भवति । क्लेशावरण-ज्ञेयावरणयोः क्षतिः क्रार्मकाऽस्ति । पूर्वं क्लेशावरणं नश्यति,तदनन्तरं ज्ञेयाव-रणस्य विनाशो भवति । हीनयाने स्वीकृतं निर्वाणस्य स्वरूपं महायानस्य दृष्टिकोणेन अपूर्णमस्ति,यतो हि क्लेशाव-रणस्य विनाशानन्तरमपि ज्ञेयावरणम् अवशिष्टं भवति ।

यद्यपि हीनयानमतेन क्लेशावरणविनाशेन आत्मनो निषेधो विहितः । यतो हि आत्मनः सुखादीनां कृते एव मानवस्य प्रवृत्तिर्जायते । अतएव दुःखादयो भवन्ति । आत्मदृष्ट्यैव इमे विषमपरिणामा भवन्ति । अतः आत्मनो निषेधे सत्येव दुःखानां स्वत एव नाशो भविष्यति । अयमेव हीनयानस्य नैरात्म्यवादो वर्तते । तस्य द्वौ भेदो कथितौ-पुद्गलनैरात्म्यवादो धर्मनैरात्म्यवादश्च । एवं पुद्गलनैरात्म्येन प्राणी स्वतः क्लेशमुक्तो भवति ।

"https://sa.wikipedia.org/wiki/बौद्धधर्मः" इत्यस्माद् प्रतिप्राप्तम्