"बौद्धधर्मः" इत्यस्य संस्करणे भेदः

No edit summary
No edit summary
पङ्क्तिः १३:
बौद्धदर्शनम् ऐतिहासिककालक्रमेण जैनदर्शनस्य परवर्त्ती अस्ति । अस्येदं कारणं वक्तुं शक्यते,यत् महावीरपर्यन्तं जैनतीर्थङ्कराणाम् अन्येषां दार्शनिकानां च साहित्ये कुत्रापि बौद्धदर्शनस्य उल्लेखो नास्ति,किन्तु महावीरस्य सिद्धान्ता बौद्धनिकायेषु उपलभ्यन्ते । अनेन सिद्ध्यति यत् बौद्धधर्मो जैनधर्मापेक्षया परवर्त्ती अस्ति । इदम् ऐतिहासिकं सत्यम् अस्ति ।

बौद्धदर्शनस्य प्रवर्तको भगवान् बुद्ध आसीत् । इयमपि ऐतिहासिकी घटनाऽस्ति । बुद्धस्य पूर्वनाम् सिद्धार्थ इत्यासीत् । अस्य जन्म ई.पू.२२६ इत्यवर्तत । अस्य पिता शक्यवंशीयो नृपः शुद्धोदन आसीत् । अस्य माता मायादेवी अस्य जन्मनः एकसप्ताहनन्तरमेव दिवङ्गताऽभवत् । अस्य जन्मसमये कपिलवस्तुनो राजज्योतिर्विद्भिः भविष्यवाणी कृता,यदमुष्य महाभिनिष्क्रमणं भविता,धर्मप्रवर्तकश्चायं भवेत् इति ।

तदनुसारमेव सिद्धार्थः एकोनविंशतिवर्षीयायां वयसि स्वपत्नीपुत्रौ परित्यज्य सांसारिकदुःखानाम् आत्यन्तिकविनाशाय उपायान्वेषणप्रयोजनात् राजभवनमपि त्यक्तवान् । सः चिरशान्तिलाभाय ज्ञानार्जनाय च गह- नंगहनं वनं प्रविष्टवान् । ज्ञानान्वेषणप्रयत्ने सर्वप्रथमं सः सांख्यतत्त्वविदः अराडकलामस्य शिष्यत्वे सत्यानुसन्धानं कृतवा-न्कृतवान्,किन्तु असन्तुष्टे सति विविधस्थानेषु ज्ञानोपदेशानां श्रवणानन्तरम् उरुवेलायां कठोरं तपः कृत्वा आर्यसत्य- चतुष्टयं विज्ञातवान् । तस्मात्तस्य निखिलं कल्मषं विनष्टं बुद्धत्वञ्च सम्प्राप्तम् ।

तदनन्तरं सर्वप्रथमं सः सारनाथे कौण्डिन्यादीन् पञ्चशिष्यान् उपदिश्य धर्मचक्रं प्रवर्तितवान् । ज-नकल्याणायजनकल्याणाय तस्योपदेशानां भाषा मागधी आसीत् । धर्मोपदेशं कुर्वाणस्य तस्य अशीतिवर्षीयं दीर्घजीवनं वैशाखमा- सस्यवैशाखमासस्य पूर्णिमायाः पर्याप्तं महत्वं स्वीक्रियते यतो हि एषा तिथिः बुद्धस्य जन्मनिर्वाणयोः तिथिरस्ति ।

पिटकग्रन्थाः- वेदानां श्रुतपरम्परेव बौद्धधर्मस्यापि ज्ञानोपदेशाय श्रुतपरम्परा प्रचलिता आसीत् । अन्ततः अस्य ज्ञानस्य संरक्षणाय राजगृहे महाकाश्यपस्य अध्यक्षतायामेका बौद्धसंगीतिरायोजिता । तत्र बुद्धशिष्येण आनन्देन सुत्तपिटक-विनयपिटकयोः संग्रहो विहितः । सुत्तपिटकस्यैव कतिपयांशानां विस्तरेण कालान्तरे अभिधम्मपिटकस्य रचना संजाता ।

सुत्तपिटके पञ्च निकायाः सन्ति-दीर्घनिकायः, मज्झिमनिकायः, संयुक्तनिकायः, अङ्गुत्तरनिकायः, खुद्दकनिकायश्चेति । एषां धम्मपदानि जातकाश्च सुप्रसिद्धा वर्तन्ते । धम्मपदेषु बुद्धस्योपदेशानां संग्रहो विद्यते । बु- द्धस्यबुद्धस्य पूर्वजन्मानां कथा जातकेषु गृहीताः सन्ति । ग्रन्थान्तरेषु खुद्दकपाठ-उदान-इतिवृत्तक-सुत्तानिपात-विमानवत्थु-पेतवेत्थु-थेरगाथा-थेरीगाथा-निद्देस,परिसम्मिदा-मग्ग-अवदान-बु०द्धवंश-चरियापिटकादयः प्रमुखाः सन्ति ।

विनयपिटकस्य त्रयो भागाः सन्ति-सुत्तविभङ्गोऽथवा पातिमोक्खः,भिक्खुपातिमोक्खः,महावग्ग-चूलवग्गादयश्चेति । अभिधम्मपिटके सप्त ग्रन्थाः सन्ति-पुग्गलपज्झतिः धातुकथाः,धम्मसंगतिः,विभंगः,पट्ठान-प्रकर-णम्,कथावस्तु,यमकश्चेति । त्रिपिटकवत् ‘मिलिन्दपन्हो’ अपि बौद्धधर्मे सुप्रसिद्धोऽस्ति ।एषा रचना नागसेनस्यास्ति।
== बौद्धधर्मस्य आचारमीमांसा ==
सांसारिकदुःखेभ्यो मुक्तये भगवता बुद्धेन जटिलदार्शनिकताम् अनपेक्ष्य सरलतया आचारपद्धतिः प्रतिपादिता । बुद्धो गहनामाध्यात्मिकतां प्रश्रयं न प्रददाति स्म । अतः श्रावस्तीविहारस्य अवसरे मालुंम्यपुत्तेन अ-ध्यात्मविषयेअध्यात्मविषये बुद्धः पृष्टः । तदा बुद्ध आचारमार्गमेव उपदिदेश । बुद्धमतेन आर्यसत्यचतुष्टयं एवं प्रकारेण निर्दिष्टम्- (१) दुःखं (२) दुःखसमुदयः (३) दुःखनिरोधः (४) दुःखनिरोधगामिनी प्रतिपत्तिश्च । अर्थात् संसारः दुःखमयोऽस्ति, दुःखानां निदानमपि विद्यते,दुःखभ्यो मुक्तिरपि लब्धुं शक्यते,मुक्तिमार्गोऽपि निर्धारितोऽस्ति । केवलम् आर्यजना एव एतान् प्राप्तुं शक्नुवन्ति,अनार्यास्तु यावज्जीवनं दुःखेष्वेव जीवन्ति ।

बुद्धमतानुसरेण आर्यसत्यमार्गस्य द्वादशकारणानि सन्ति – (१) जरामरणम्, (२) जातिः, (३) भवः, (४) उपादानम्, (५) तृष्णा, (६) वेदना (७) स्पर्शः, (८) षडायतनम् (९) नामरूपम् (१०) विनयम् (११) संस्कारः (१२) अविद्या च । एषु प्रत्येकं पूर्वं प्रति परं कारणमविद्यत । उदाहरणार्थं जरामरणयोः कारणं जातिरस्ति, जातेः कारणं भवो,भवस्य कारणम् उपादानं भवति । एतानि द्वादशकारणानि आश्रित्य कार्यकारणभावस्य यः सिद्धान्तः प्रतिपादितोऽस्ति,सः बौद्धमते प्रतीत्यसमुत्पाद इत्युच्यते । प्रतीत्यसमुत्पादस्य तात्पर्यार्थो वर्तते – कस्यचिद्र् वस्तुनः प्राप्तौ अन्य्स्य वस्तुनः उत्पत्तिरिति । एवञ्चेत् अयं वस्तुतः सापेक्षः कारणतावाद इत्यपि वक्तुं शक्यते ।

प्रतीत्यसमुत्पाद एव बौद्धप्रतिपादितः कारणवादोऽस्ति । अयमेव मानवोत्पत्तिसन्दर्भे श्रृंखलाबद्धतां निर्दिशति । मानवोत्पत्तेः श्रृंखलायां द्वादश अङ्गनि त्रयः काण्डाश्चासन् । प्रथमकाण्डे अतीतेन जन्मना सम्बद्धं निदानं विद्यते,फलतः अविद्याजन्यसंस्कारा जायन्ते । द्वितीयकाण्डे वर्तमानजीवनेन सम्बन्धं निदानमस्ति यस्यान्तर्गतं विज्ञानतो भवपर्यन्तम् अष्टौ कारणानि जायन्ते । तृतीयकाण्डे भविष्यता सम्बद्धं निदानं भवति । तत्र जातिः जरामरणञ्चेति कारणद्वयं गृहीतमस्ति ।

"https://sa.wikipedia.org/wiki/बौद्धधर्मः" इत्यस्माद् प्रतिप्राप्तम्