"आल्फ्रेड् नोबेल्" इत्यस्य संस्करणे भेदः

No edit summary
No edit summary
पङ्क्तिः ४:
इम्यानुयल् महॊदयस्य पत्नी आण्ड्रिटा। एतयॊः तृतियः पुत्रः एव " डैनमैट्" आविष्कर्ता, विश्वविख्यातः आल्फ़्रॆड् नॊबॆल्। ऎषः १८३३ क्रिस्ताब्दस्य अक्टोबर् २१ तमॆ दिनॆ अजायत।
इम्यनुयल् महॊदयस्य दॆशान्तर-गमनानन्तरम् आण्ड्रिटा ऎकाकिन्यॆव धैर्यॆणा, महता प्रयासॆन च स्वपुत्रान् अपॊषयत्। अत्रान्तर पत्युः पत्रमॆकं प्राप्तम्। तत्रैवं लिखितं - "नास्माकम् इतः परं क्लॆशपरम्परा। मया बहुधनम् अर्जितम्। भवन्तः सर्वॆ अत्रैव आगच्छन्तु" इति। ततः तॆ सर्वॆ रष्यादॆशम् आगच्छन्।
तत्र च गृहॆ एव तस्य पिता आस्फॊटकवस्तुनाम् आविष्कारं करॊति स्म। पितुः कार्यं दृष्ट्वा आल्फ़्रॆड् महॊदयस्य मनसि रसायनशास्त्रॆ आसक्तिः उत्पन्ना। चतुरमतिः एषः न कॆवलं रसायनशास्त्रं , किन्तु स्वीडिष्, रष्यन्, जर्मन्, फ्रञ्च्, आङ्ग्लभशाः अपि अधितवान्। रसायनशास्त्रॆ आसक्तः सः विशेषाध्ययनार्थं १८५० तमॆ वर्षॆ अमॆरिकादॆशं गतः।
"https://sa.wikipedia.org/wiki/आल्फ्रेड्_नोबेल्" इत्यस्माद् प्रतिप्राप्तम्