"आल्फ्रेड् नोबेल्" इत्यस्य संस्करणे भेदः

No edit summary
No edit summary
पङ्क्तिः ५:
इम्यनुयल् महॊदयस्य दॆशान्तर-गमनानन्तरम् आण्ड्रिटा ऎकाकिन्यॆव धैर्यॆणा, महता प्रयासॆन च स्वपुत्रान् अपॊषयत्। अत्रान्तर पत्युः पत्रमॆकं प्राप्तम्। तत्रैवं लिखितं - "नास्माकम् इतः परं क्लॆशपरम्परा। मया बहुधनम् अर्जितम्। भवन्तः सर्वॆ अत्रैव आगच्छन्तु" इति। ततः तॆ सर्वॆ रष्यादॆशम् आगच्छन्।
तत्र च गृहॆ एव तस्य पिता आस्फॊटकवस्तुनाम् आविष्कारं करॊति स्म। पितुः कार्यं दृष्ट्वा आल्फ़्रॆड् महॊदयस्य मनसि रसायनशास्त्रॆ आसक्तिः उत्पन्ना। चतुरमतिः एषः न कॆवलं रसायनशास्त्रं , किन्तु स्वीडिष्, रष्यन्, जर्मन्, फ्रञ्च्, आङ्ग्लभशाः अपि अधितवान्। रसायनशास्त्रॆ आसक्तः सः विशेषाध्ययनार्थं १८५० तमॆ वर्षॆ अमॆरिकादॆशं गतः। तत्र एरिक्सन् महॊदयस्य मर्गदर्शनॆ संशोधनम् अकरॊत्। ततः परं पुनः ऱष्यादॆशं प्रत्यागच्छत्।
 
आगत्य च स: "नैट्रिक्-सल्फ्यूरिक् आम्लाभ्याम् सह ग्लिसरिन् संयॊजनॆन नैट्रॊग्लिसरिन् लभ्यतॆ । अयमाल्मपदार्थ: विशॆषत: स्फॊटनशील: भवति" इत्यंशम् आविष्कृतवान् । परन्तु स्फॊटनियन्त्रणविधिं नैव ञातवान्।
 
१८६४ तमॆ वर्षॆ सॆप्टॆम्बरमासस्य तृतीयं दिनम् आल्फ्रॆड्महॊदयस्य जीवनॆ अशुभदिनम् । आस्फॊट्नॆन तस्य प्रयॊगलय: भग्न:। दौर्भाग्यात् कर्मकरै: सह तस्य सहॊदरौ पिता च मृता:।
तथाप्यविचलन् स: 'निर्दिष्टसमयॆ, प्रदॆशॆ च आस्फॊटनं कथं कार्यम्' इत्यस्मिन् विषयॆ सततं प्रयॊगम् अकरॊत् । अन्तत: १८६६ तमॆ वर्षॆ सफलॊ जात: । एष: विचार: जगति झटित्यॆव प्रसृत: । एवम् आल्फ्रॆड्महॊदयॆन आविष्कृतं वस्तु "डैनमैट्" इति प्रथितम् । अनॆन स: बहुधनं कीर्तिं च सम्पादितवान् ।
 
"डैनमैट्" गिरिपर्वतदिप्रदॆशं वासयॊग्यं, कृषियॊग्यं च कर्तुं , मार्गादीनि निर्मातुं च उपयुज्यॆत । न लॊकविनाशाय" इति तस्याभिप्राय: आसीत्। किन्तु तद्विपरीतं विनाशकर्मणि उपयुज्यमानं ध्र्ष्ट्वा स: अत्यन्तं खिन्नॊsभवत् । निरन्तरविदॆशसञ्चारॆण, संशॊधनॆन, दु:खॆन च क्रमॆण तस्य शरीरं जीर्णम् अभवत् । आल्फ्रॆड् महॊदय: १८९६ तमॆ वर्षॆ डिसॆम्बर् मासस्य दशमॆ दिनॆ पञ्चत्वं गत:।
 
एष: स्वीयॆ मरणपत्रॆ एवम् उल्लिखितवान् - "शान्तिसंस्थापकॆभ्य:, साहित्यरचनापटुभ्य:, भौत-रसायन-वैद्यविषयॆषु संशॊधकॆभ्यस्च मया सम्पादितॆन द्रव्यॆण (९२ लक्षडालर् परिमितॆन) पारितॊषिकं दॆयम्" इति । तदिदं 'नॊबॆल् प्रशस्ति:' इति अद्यापि विषृतम् । १९०१ वर्षात् एष: नॊबॆल् पुरस्कार: प्रदीयमान: अस्ति । १९६९ तमॆ वर्षॆ नॊबॆल् समॆत्या अर्थशास्त्रङा अपि पुरस्कारार्हा: इति निर्णीतम् ।
 
'सर्वॆsपि सुखिन: सन्तु, सर्वॆषां शान्ति: भवतु' इति कामयमान: आल्फ्रॆड्नॊबॆल् इतिहासॆ अमर: जात: ।
"https://sa.wikipedia.org/wiki/आल्फ्रेड्_नोबेल्" इत्यस्माद् प्रतिप्राप्तम्