"महादेवभाई देसाई" इत्यस्य संस्करणे भेदः

(लघु)No edit summary
(लघु)No edit summary
पङ्क्तिः ४३:
किञ्चित् समयानन्तरं स्पष्टम् अभूत् यत् हृदयाघातेन सः मृतः इति । [[मोहनदासकरमचन्दगान्धिः|महात्मा]] उक्तवान्, "तस्य कोषान् रिक्तान् कुर्वन्तु" इति । एकः सेवकः कोषयोः हस्तं स्थापयति । एकस्मात् कोषात् लेखनी, अपरस्मात् कोषात् [[श्रीमद्भगवद्गीता]] प्राप्ता तेन । रुद्धस्वरेण [[मोहनदासकरमचन्दगान्धिः|महात्मा]] उक्वान्, “'वैष्णव जन तो..' गीतं गायन्तु सर्वे । ततः रामनाम्नः गानं, [[श्रीमद्भगवद्गीता]]याः पठनञ्च करिष्यामः” इति । महादेवस्य पार्थिवशरीरं स्नपयित्वा [[मोहनदासकरमचन्दगान्धिः|महात्मनः]] प्रकोष्ठे स्थापितवन्तः । ततः महादेवस्य पार्थिवशरीरस्य समीपम् उपविश्य सर्वे [[श्रीमद्भगवद्गीता]]याः पारायाणम् अपि कृतवन्तः । तत्र [[मोहनदासकरमचन्दगान्धिः|महात्मा]] उक्तवान्, “महादेवः सर्वदा कारागारस्य बन्दिवत् जीवनं यापितवान् । अतः तस्य अन्तिमविधिः अपि बन्दिवत् एव भवेत्” इति । कारागारस्य अधिकारी चन्दनं, पुष्पाणि च आनीतवान् । चन्दनं महादेवस्य ललाटे प्रस्थाप्य सर्वे क्रमशः तं पुष्पैः अवन्दन् । वन्दनप्रक्रिया चलन्ती एव आसीत्, कारागाराधिकारिणः शवं नेतुम् आगताः । तत् दृष्ट्वा [[मोहनदासकरमचन्दगान्धिः|महात्मा]] अवदत्, “महादेवः मम पुत्रः आसीत् । कोऽपि पिता कदापि तस्य पुत्रस्य शवम् अन्यस्मै अन्तिमसंस्काराय न यच्छति । अहमेव तस्य अन्तिसंस्कारं करिष्यामि” इति । ततः [[मोहनदासकरमचन्दगान्धिः|महात्मा]] एकस्मिन् हस्ते दण्डं, अपरे हस्ते घटं नीत्वा अग्रे चलनम् आरब्धवान् । सर्वे रामनाम जपन्तः तम् अनुसृतवन्तः । एवं [[भारत]]स्य सुपुत्रः परमयात्रां प्रारभत ।
 
[[पुणे]]-महानगरस्य 'आगा खान पेलेस्' इत्यत्र महादेवस्य '[[]] समाधिः' अस्ति ।
 
{{Panorama
|image = File:Agakhanpalacepanaroma.JPG
|height = 250
|alt = आगा खान-प्रासादस्य विहङ्गं दृश्यम्
|caption = <center>'''आगा खान-प्रासादस्य विहङ्गं दृश्यम्'''</center>
}}
 
== बाह्यानुबन्धः ==
"https://sa.wikipedia.org/wiki/महादेवभाई_देसाई" इत्यस्माद् प्रतिप्राप्तम्