"महादेवभाई देसाई" इत्यस्य संस्करणे भेदः

(लघु)No edit summary
(लघु)No edit summary
पङ्क्तिः ३६:
 
== महादेवस्य मृत्युः ==
[[चित्रम्:Mahadev and kastoorba.JPG|right|400px|thumb|<center>'''दक्षिणहस्ते, वामहस्ते च क्रमेण [[कस्तूरबा]]-महादेवयोः समाधिः'''</center>]]
 
मनुष्यजीवनसम्बद्धाः महादेवस्य विचाराः अतिगहनाः आसन् । सः अवगतवान् आसीत् यत्, क्षणानन्तरं जीवने किं भविष्यति इति न कोऽपि जानाति । अतः सः जीवनं नश्वरम् इति बोधयितुम् आश्रमवासिभ्यः [[सरदार वल्लभभाई पटेल|लोहपुरुष]]स्य जीवने घटितां घटनां श्रावयति स्म । [[सरदार वल्लभभाई पटेल|लोहपुरुषः]] 'ब्रीज' इति क्रीडायाः महान् रसिकः आसीत् । एकस्मिन् दिने सः नूतनानि वस्त्राणि धृत्वा मित्रैः सह 'ब्रीज'-क्रीडायां रतः आसीत् । एकः मित्रं तस्य समीपस्थे आसन्दे एव स्थित्वा क्रीडन् आसीत् । अकस्मात् सः मित्रं [[सरदार वल्लभभाई पटेल|लोहपुरुष]]स्य उपरि एव पतितः । [[सरदार वल्लभभाई पटेल|लोहपुरुषः]] किमपि वदेत् तस्मात् पूर्वमेव [[सरदार वल्लभभाई पटेल|लोहपुरुषस्य]] ज्ञानमभूत् यत्, एषः तु मृतः इति । तस्य मित्रस्य हस्ते 'ब्रीज'-क्रीडापत्राणि तथैवासन् । परन्तु सः मृतः । ततः [[सरदार वल्लभभाई पटेल|लोहपुरुषः]] कदापि 'ब्रीज'-क्रीडां न क्रीडितवान् । एतस्याः घटनायाः उल्लेखं कुर्वन् महादेवः जीवनस्य नश्वरतां बोधयति स्म । जीवनं नश्वरम् इति विचारः ईश्वराय कार्यं करणीयम् इति महादेवं बोधयति स्म । महादेवस्य मृत्युरपि अकस्मादेव अभूत् ।
 
"https://sa.wikipedia.org/wiki/महादेवभाई_देसाई" इत्यस्माद् प्रतिप्राप्तम्