"वैश्विकस्थितिसूचकपद्धतिः" इत्यस्य संस्करणे भेदः

(edited with ProveIt)
No edit summary
पङ्क्तिः ९:
इयं व्यवस्था दिक्सूचीरूपेणमात्रं न अपि तु भूचित्रनिर्माणाय, सर्वेक्षणकार्याय, वाणिज्यवैज्ञानिककार्येभ्यः च उपयुज्यते । निर्दुष्टसमयावगमाय अपि अस्य उपयोगः क्रियते ।
==वैश्विकस्थितिसूचकव्यवस्था==
[[चित्रम्:Good gdop.png|150px|leftright|thumb| उपग्रहाणां द्वारा सङ्केतसङ्ग्रहणम्]]
वैश्विकस्थितिसूचकव्यवस्थायाः प्रतिग्राहियन्त्राणि उपग्रहैः प्रसार्यमाणाः सङ्केतान् गृह्णन्ति । एताः सङ्केताः उपग्रहात् प्रतिग्राहियन्त्राणि प्राप्तुं कियान् कालः स्वीकृतः इत्येतस्याः गणनायाः आधारेण स्वीयं स्थानम् ऊहन्ते । सङ्केताः विद्युन्मानतरङ्गरूपेण विद्यन्ते । एतेषां तरङ्गाणां वेगः पूर्वज्ञातः विद्यते इत्यतः गणना भवति निर्दुष्टा । त्रिषु आयामेषु स्वस्य स्थानं निर्णेतुं त्रिभिः उपग्रहैः प्रसारितान् सङ्केतान् अपि च तस्य निर्णयस्य निर्दुष्टतायै अपेक्षितायाः समकालीनतायाः (Time Synchronisation) प्राप्त्यै च चतुर्थोपग्रहस्य सङ्केतान् उपयुङ्क्ते । त्रिभिः उपग्रहैः प्राप्तान् सङ्केतान् उपयुज्य क्रियमाणः स्थाननिर्णयः '''त्रिकोणीकरणम्''' (Triangulation)<ref>{{cite web | url=http://www.qrg.northwestern.edu/projects/vss/docs/navigation/1-what-is-triangulation.html | title=त्रिकोणीकरणम् | accessdate=10 फ़ेब्रुवरि 2014}}</ref> इति कुत्रचित् उल्लिख्यते चेदपि तस्य निर्देशाय '''त्रिपार्श्वीकरणम्''' (Trilateration) <ref>{{cite web | url=https://www.e-education.psu.edu/natureofgeoinfo/c5_p12.html | title=त्रिपार्श्वीकरणम् | accessdate=10 फ़ेब्रुवरि 2014}}</ref> इत्येषः शब्दः एव समीचीनः इति तत्तज्ञानाम् अभिप्रायः ।
 
"https://sa.wikipedia.org/wiki/वैश्विकस्थितिसूचकपद्धतिः" इत्यस्माद् प्रतिप्राप्तम्