"वाल्मीकिः" इत्यस्य संस्करणे भेदः

पङ्क्तिः ९:
==शोकः श्लोकत्वमागतः==
[[Image:Valmiki Ramayana.jpg|thumb|200px|श्रीमद्रामायणस्य रचनायां वाल्मीकिः]]
एकदा वाल्मिकिमहर्षिः शिष्येण भारद्वाजेन सह स्नानार्थं तमसानदीं प्रति गतवान् आसीत् । नद्याः मञ्जुलं जलं दृष्ट्वा '''रमणीयं प्रसन्नाम्बु सन्मनुष्यमनो यथा''' इत्येवं नदीजलं वर्णयति । तस्मिन्नेव क्षणे कश्चित् व्याधः द्वयोः क्रौञ्चपक्षिणोः मिथुनसमये एकेन शराघातेन हननं करोति । स्वप्रियतमस्य वियोगेन बहु दुःखितां पक्षिणीं दृष्ट्वा आर्द्रचित्तः वाल्मीकिः झटिति तस्मै व्याधाय शापं प्रायच्छत् ।तस्य मुखात् शापः श्लोकरूपेण निःसृतः । स च -
:::::मा निषाद प्रतिष्ठां त्वमगमः शाश्वतीः समाः ।
:::::यत्क्रौञ्चमिथुनादेकमवधि: काममोहितम्॥ इति ॥
 
एष एव श्लोकः रामायणस्य बीजभूतोऽभवत् । अनन्तरं वाल्मीकिः श्रीमद्रामयणं रचयितुं ब्रह्मणा आदिष्टः । नारदमहर्षिः संक्षेपेण रामायणकथाम् उपदिष्टवान् ।
 
==आश्रमे आश्रिता [[सीता]]==
"https://sa.wikipedia.org/wiki/वाल्मीकिः" इत्यस्माद् प्रतिप्राप्तम्