"बाल गङ्गाधर तिलक" इत्यस्य संस्करणे भेदः

(लघु) Shubha इति प्रयोक्त्रा बालगङगाधरतिलकः इत्येतत् बालगङ्गाधर तिलकः इत्येतत् प्रति चालितम्
Reverted to revision 265618 by Shubha: समग्रस्य विषयस्य रक्षणाय.
पङ्क्तिः १:
{{Infobox person
<small>''This|name article has to be merged with [[ = बालगङ्गाधरतिलकः]]''</small>
{{निर्वाचित लेख}}
|image = Bal G. Tilak.jpg
<br>
|caption =
<br>
|other_names = लोकमान्यः तिलकः
[[चित्रं:Bal G. Tilak.jpg|thumb|right|बालगङ्गाधरतिलकः]]
|birth_date = {{Birth date|1856|07|23|df=yes}}
बालगङ्गधरतिलकः (मराठी: बाळ गंगाधर टिळक) महाराष्ट्रे रत्नगिरिमण्डले चिखल् नाम्नि ग्रामे जातः । षड्पञ्चाशदुत्तराष्टादशशततमे (१८५६) वर्षे जुलैमासस्य त्रयोविंशति दिनाङ्के जन्म लेभे । रामचन्द्रतिलकः तस्य पिता प्रसिध्दः गणितव्याकरण्शास्त्रपण्डितः, विमर्शकश्च । माता पार्वतीबाई । पितेव अयमपि महान् गणितक्याकरणपण्डितः। विद्यार्थिदशायामेव देशसेवातत्परः अभवत् । न्यायशास्त्रेऽपि पट्ट्भद्रो जातः तिलक्महाशयः । पुण्यपत्तने कतिचन वर्षाणि गणितशास्त्रे अद्यापकत्वेन आसीत् सः । तिलक् महाशयः मराठिभाषया केसरी इति, आङ्ग्लभाषया मराठा इति च पत्रिकाद्वयं प्राकाशयत् । स्वीयान् अभिप्रायान् जनबाहुल्ये प्रचारितवान् । स्वपत्रिकायां स्वराज्यमाहात्म्यं, स्वातन्त्र्यस्य आवश्यकताञ्च स्वेच्छया निर्भीत्या स्पष्टीकृतवान् । स्वातन्त्र्यं मम् जन्मसिद्ध: अधिकारः इति अगर्जत् । निरन्तरम् उद्यमशीलं तं पाश्चात्याः भारतीयानाम् असन्तोषजनकः इति अभिवर्णितवन्तः।
|death_date = {{Death date and age|1920|08|01|1856|07|23|df=yes}}
|birth_place = [[रत्नगिरिः]], [[महाराष्ट्रराज्यम्]], [[भारतम्]]
|death_place = [[मुम्बै]], भारतम्
|movement = Indian Independence Movement
|organization = Indian National Congress
}}
 
[[File:Tilak With Family.jpg|thumb|बालः बालगङ्गाधरः स्वकुटुबज्येष्टैः सह]]
द्विनवत्युत्तराष्टादशशततमे (१८९२) वर्षे लण्डन् नगरे विद्वत्सम्मेलनम् अभवत् । तत्र वेदानां प्रचीनताम् अधिकृत्य पत्रमेकं समर्पितवान् । शर्मण्य- (जर्मन्) देशीयभाषाशास्त्रपण्डितः माक्स्मुल्लर् अमुं बहुधा प्रशंसितवान् । त्रिणवत्युत्तराष्टादशशततमे(१८९३) वर्षे शिवाजिजयन्तीम्होत्सवं गणेशचतुर्थी महोत्सवञ्च देशीयानां सङ्घीभावाय प्रचालयत् । उत्सवकारणेन प्रजानां परस्परस्नेहभावः वृध्दिं प्राप्नोतु इति तस्य आशयः। १८९६-९७ वत्सरेषु महाराष्ट्रे साङ्क्रामिकरोगेभ्यः, दुर्भिक्षात् च् जनान् रक्षितुं सदीक्षामध्यतिष्टत् । तिलक्- महाशयस्य कीर्तिं प्रतिष्टाञ्च सोढुं असहमानाः अभवन् आङ्ग्लपालकाः । अतः १९०८ तमे वर्षे तं माण्डले कारागृहे निर्बध्दवन्तः । षड्वर्षाणि कारागृहे अतिष्टत् । कारागृहेऽपि सः निरन्तरं ग्रन्थपठनेन ग्रन्थलेखनेन च कालं यापयति स्म । तत्रैव गीतारहस्यनाम्ना भगवद्गीतायाः व्याख्यानं महाराष्ट्र्भाषया अलिखत् ।
 
==प्रवेशः==
वेदकालसम्बध्दैः विषयैः "आर्यन्" नामकं ग्रन्थमपि अरचयत् सः। सर्वतोमुखप्रतिभावन्तं तिलकमहाशयं जनाः 'लोकमान्य' बिरुदेन सम्मनितवन्त:। १-८-१९२० तमे दिने तिलकमहाशयः भौतिककायं परित्यक्त्वान् । तेन उक्ताः स्वदेशवस्तुस्वीकारः, विदेशवस्तुबहिष्कारः, स्वदेशीयाशिक्षाप्रणाली, स्वराज्यसंस्थापनम् इत्याद्याः अंशाः इदानीमपि अस्माभि: अवश्याचरणीयाः । एतादृशः देशभक्तः तिलकमहाशय: अस्माकं प्रातः स्मरणीयः अस्ति। स्वातन्त्र्यं मम जन्मसिद्ध: अधिकारः इत्यपि तेन उद्घोषितम् । एतादृशीं स्फूर्तिं स्वीकृत्य वयमपि देशसेवां कुर्याम |
'''बालगङ्गाधर तिलकः''' (क्रि.श.१८५६ तः १९२०) कश्चन महान् राष्ट्रभक्तः । [[भारतस्य स्वातन्त्र्यसङ्ग्रामः|भारतस्य स्वातन्त्रसङ्ग्रामे]] प्रमुखः नेता आसीत् । स्वतन्त्रताया: आन्दोलनस्य प्रसङ्गे स: अघोषयत्‌, ''' 'स्वराज्यम्‌ अस्माकं जन्मसिद्ध: अधिकार:.''' ' तस्य प्रप्तेः अनन्तरमेव मम विरामः इति । समाचारपत्राणां प्रकाशनं सम्पादनं च कृत्वा स: देशसेवां करोति स्म । बहुबारं कारागारवासम् अनुभूतवान् स: संस्कृते विद्वान्‌ आसीत्‌ । अयं भारतीयः, राष्ट्रयवादी, समाजोत्थापकः स्वातन्त्र्ययोद्धा च । भारतीयप्रज्ञायां सम्पूर्णस्वराज्यप्राप्तेः आशाङ्कुरितः । अनेन एतं राष्टियतावादस्य पितामहः इति कथयन्ति स्म । अतीव जनप्रियः नयकः भूत्वा लोकमान्यः इत्येव खातः । अद्यापि तस्य नाम एव लोकमान्यः इति बहवः मन्यन्ते । तिलकमहोदयः इतिहासं, संस्कृतम्, हिन्दूधर्मम्, गणितम्, खगोलशास्त्रं च गहनम् अध्ययनम् अध्ययनं कृतवान् ।
 
==वैयक्तिकजीवनम्==
परिवर्तिनि संसारे मृतः को वा न जायते |
बालगङ्गाधरतिलकस्य जन्म क्रि.श.१८५६तमे वर्षे जुलै २३तमे दिने भारतस्य महाराष्ट्रराज्ये रत्नगिरिमण्डले मध्यमस्तरस्य कुटुम्बे अभवत् । पिता गङ्गधरपन्तः, माता पार्वतीबायी । बाल्ये एव बुद्धिमतः तिलकस्य गणिते अतीव आसक्तिः आसीत् । बालः दशवर्षीयः यदा आसीत् तदा पितुः पुणेनगरं प्रति स्थानपरिवर्तनं जातम् । बालः वेर्नाक्युलर् आङ्ग्लविद्यालयं प्राविशत् । पुणेगमनानन्तरं स्वल्पावधौ एव माता दिवङ्गता । ततः षड्वर्षाणाम् अनन्तरं पिता अपि दिवङ्गतः । दुर्बलशरीरः बालः स्वीयप्रयत्नेन दृढं शरीरं सम्पादितवान् । महाविद्यालयात् आधुनिकविद्यां प्राप्तेषु युवसु बालगङ्गाधरः अपि अन्यतमः अभवत् । पदवीं प्राप्य पुणे ([[पुण्यपत्तनम्]]) नगरे स्वायत्तशालायां गणीताध्यापकत्वेन उद्योगम् आरब्धवान् । कञ्चित्कालानन्तरं तम् उद्योगं त्यक्त्वा पत्रकारः अभवत् । पाश्चिमात्यशिक्षाक्रमः भारतीयसनातनपरम्परां दूषयति अपि च भारतस्य विद्यार्थिषु हीनभावं जागर्ति इति निश्चित्य अस्य आधुनिकशिक्षाप्रणाल्याः दूषितुम् आरब्धवान् । छात्राणां कृते उत्तमा शिक्षा लभेत इति उद्देशेन [[पुण्यपुरम्|पुण्यपुरे]] (पुणेनगरे) डेक्कन् एजुकेषन् सोसैटि इति शलाम् उपाक्रमत् । सत्यभामा अस्य पत्नी ।
स जातो येन जातेन याति वंशः समुन्नतिम् ||
==राजकीयजीवनम्==
तिलकमहोदयेन उपक्रान्तः [[केसरी]] इति [[मराठीभाषा|मराठीभाषायाः]] [[वार्तापत्रिका]] अतिशीघ्रं प्रसिद्धा अभवत् । एषा जनाः स्वाभिप्रायान् प्रकटयितुं स्वतन्त्रा पत्रिका अभवत् । क्रि.श. १९०५तमे वर्षे विशेषतः [[बङ्गालराज्यम्|बङ्गालस्य]] विभजनं विरोद्धुम् अपि च विरोधनियन्तॄणां विषये तीव्रतया निन्दितुं च केसरीपत्रिका प्रबलः [[मुद्रणमाध्यमः]] अभवत् । क्रि.श.१८९०तमे वर्षे तिलकमहोदयः काङ्ग्रेस् पक्षं प्रविष्टवान् अपि अचिरात् एव स्वातन्त्र्यान्दोलने तस्य पक्षस्य औदार्यं मृदुनीतिं विरोधितावान् । [[गोपाकृष्ण गोघले]]महोदयस्य सौम्यवादं तीव्रतया निन्दितवान् । अस्मिन् विषये [[बङ्गालराज्यम्|बङ्गालस्य]] [[बिपिन चन्द्रपालः]] [[पञ्जाबराज्यम्|पञ्जाबस्य]] [[लाला लजपत राय्]] च तिलकमहोदयस्य आलम्बनं कृतवन्तौ । क्रि.श. १९०७तमे वर्षे सम्भूते सूरत् अधिवेशने काङ्ग्रेस् पक्षः तिलकस्य नेतृत्वेन घर्मदलः इति गोखलेः नेतृत्तेन मृदुदलः इति द्विधा विभक्तः । राजद्रोहस्य आक्षेपात् क्रि.श.१९०६तमे वर्षे तिलकस्य बन्धनम् अभवत् । तदा स्वपक्षे न्यायवादं करोतु इति युवानं न्यायवादिनं [[मोहम्मद् अलि जिन्ना]] इत्येतं प्रार्थितवान् । किन्तु ब्रिटिश् न्यायाधीशः अपराधी इति उद्घुष्टवान् । अतः सः क्रि.श.१९०८तः१९१४तमवर्षपर्यन्तं बर्मादेशस्य ([[ब्रह्मदेशः]]) मडाले कारावावासम् अनुभूतवान् । विमोचनानन्तरं स्वस्य सहचरराष्ट्रवदिभिः सह तिलकमहोदयः क्रि.श.१९१६तमे वर्षे काङ्ग्रेस् पक्षस्य सङ्घाटनं संवर्ध्य अखिलभारतस्य हों रूल् लीग् इति सङ्घटनस्य रचानायाम् अनिबेसण्ट् मोहम्मद् अलि जिन्ना एतयोः सहाय्यं समाचरत् ।
==सामाजिकयोगदानानि==
बालगङ्गाधर तिलकमहोदयः मूलतः अद्वैतवेदान्तस्य प्रतिपादकः। अद्वैतसिध्दान्तस्य ज्ञानादेव तु कैवल्यम् इति वचने तस्य विश्वसः नासीत् । अतः तत्स्मानं पूरकं च कर्मयोगं तत्र योजितवान् । विवाहस्य वयसः कनिष्टमानः इत्यादीनि सामाजिकपरिवर्तनानि आनीतवान् । मद्यपाननिषेधस्य विषये तस्य अतीव प्रमतिः आसीत् । शिक्षायाः राजकीयस्य च जीवनविषये अस्य चिन्तनानि प्रभवायुतानि आसन् । देवनागरीलिपिम् उपयुज्य लिख्यमाना [[हिन्दिभाषा]] राष्ट्रभाषा भवेत् इति प्रथमतय उक्तवान् तिलकः एव । अग्रे महात्मा गान्धिः अपि एतं विषयं गाढम् अनुमोदितवान् । किन्तु यां भाषां तिलकमहोदयः भारतात् एव अपनेतुम् इष्टवान् सा [[आङ्ग्लभाषा]] अधुना अपि प्रधानसंवहनभाषात्वेन राजते । तथापि हिन्दी चान्यभाषाः ब्रिटिष् कालात् अद्यपर्यन्तमपि प्रादेशिकत्वेन भाष्यमाणाः सन्ति । अस्मिन् अपि तिलकमहोदयस्य योगदानम् अस्ति एव । तिलकमहोदयस्य अतिमहत् योगदानं नाम सार्वजनिकः [[गणेशोत्सवः]] । भाद्रमपदमसस्य शुक्पलक्षस्य चतुर्दशीतः आरभ्य अनन्दचतुर्दशी पर्यन्तं द्वादशदिनानि अयं सार्वजनिकगणेशोत्सवः सर्वैः मिलित्वा आचर्यते । स्वायत्तं धार्मिकाचरणं सङ्घटनस्य व्याजेन सार्वजनिकोत्सवत्वेन परिवर्तितवान् । एतम् उत्सवम् अवलम्ब्य एव जननायकाः जनसम्पर्कम् अकुर्वन् । तिलकमहोदयेन आरब्धा इयम् उत्सवपरम्परा इदनीमपि विशेषतः [[महाराष्ट्रराज्यम्|महाराष्ट्रराज्ये]] अस्ति । तिलकमहोदयः परदेशीयवस्तूनि तिरस्कृत्य स्वदेशीयवस्तूनि उपयोक्तुं जनजागरणं कृतवान् । तदानीम् एतत् स्वदेशीयान्दोलनं विशेषरूपेण जनेषु देशभक्तिं समवर्धयत् ।
[[चित्रंचित्रम्:Bal G.Gangadhar Tilak.jpg|150px|thumb|rightleft|बालगङ्गाधरतिलकः]]
==तिलकोत्तरवर्षाणि==
तिलकमहोदयः गान्धिमहात्मनः अहिंसात्मकं सत्याग्रहं दूषयति स्म । कदाचित् क्रान्तिकारीति परिगणितः कालान्तरेण प्रौढविचारशीलः इति प्रसिद्धः अभवत् । स्वातन्त्र्यान्दोलनं सामान्यजनानां समीपं नीतवान् अयं तिलकमहोदयः स्वातन्त्र्यसमरस्य जनकः इत्येव प्रथितः । भारतीयसंस्कृतेः इतिहासस्य धर्मस्य च विषये लेखनेन भारतीयानां देशभक्तिं जागरितवान् । तिलकमहोदयं राजकीयस्य आध्यात्मिकस्य च नायकः इति एतस्मिन् विषये महात्मा गान्धिः अस्य उत्तराधिकारी इति च जनाः भावयन्ति स्म । यदा बालगङ्गाधर तिलकः क्रि.श१९२०तमे वर्षे दिवङ्गतः तदा सम्मिलितेषु २लक्षजनानां मध्ये गान्धिमहात्मा उक्तवान् यत् '' अयं आधुनिकभारतस्य जनकः ''इति । दृढहिन्दुत्वस्य प्रतिपादकस्य [[विनयक दामोदर सावर्कर्]]महोदयस्य तिलकमहोदयः आराध्यः देवः अभवत् ।
 
{{भारतस्य स्वातन्त्र्यसङ्ग्रामः}}
 
[[वर्गः:भारतीयदेशभक्ताः]]
[[वर्गः:बाह्यानुबन्धः योजनीयः]]
[[वर्गः:विषयः वर्धनीयः]]
 
[[en:Balgangadhar Tilak]]
"https://sa.wikipedia.org/wiki/बाल_गङ्गाधर_तिलक" इत्यस्माद् प्रतिप्राप्तम्