"उडुपी" इत्यस्य संस्करणे भेदः

(लघु) clean up using AWB
पङ्क्तिः ६:
रामभोजः [[अश्वमेधयागः|अश्वमेधयाग]]समये परशुरामम् आहूय रजतपीठासने उपवेशनाय व्यवस्थां कृतवान् । यागानन्तरं तत्पीठम् [[पातालम्]] अगच्छत् । तस्मिन् स्थले शिलालिङ्गः आविर्भूतः तत्र परशुरामस्यापि सान्निध्यम् अस्ति । एतम् अनन्तासनः अथवा अनन्तेश्वरः इति कथयन्ति । अनन्तासनः एव परशुरामः । एषः देवः एव शिवबेळ्ळिनगरस्य मुख्यप्राणभूतः इव आसीत् ।
 
[[मध्वाचार्यः]] अस्मिन् देवालये एव पाठप्रवचनादिकं करोति स्म । आन्तरिकप्राङ्गणे विद्यादानादिकं प्रचलति स्म । अद्यापि पर्यायस्वामिनः प्रथमं तावत् श्रीअनन्तदर्शनं कृत्वा अनन्तरं कृष्णदेवालयं प्रविशन्ति । एषः सम्प्रदायः।
 
क्रिस्ताब्दे १२९७ तमे वर्षे हेविळम्बिसंवत्सरस्य माघशुद्धतृतीयायां मध्वाचार्याः श्रीकृष्णस्य सुन्दरप्रतिमाम् आनीय पूर्वाभिमुखं प्रतिष्ठापितवन्तः । [[कनकदासः|कनकदासाय]] दर्शनं दातुं श्रीकृष्णः स्वयं पाश्चिमाभीमुखी भूत्वा रन्ध्रदारा दर्शनं दत्तवान् । तस्य स्थानस्य [[''कनकनकिण्डी'']] इति नाम अभवत् । गोपीचन्दनशिलायां श्रीकृष्णमूर्तिम् ओडभाण्डेश्वरप्रदेशे मध्वाचार्याः प्राप्तवन्तः । ततः पूर्वम् एकस्य सार्थवाहस्य नौका चण्डमारुतेन ग्रस्ता अभवत् । मध्वाचार्याः योगबलेन नौकां रक्षितवन्तः । सार्थवाहः भक्त्या इष्टं वस्तु स्वीकर्तुं प्रार्थनां कृतवान् । मध्वाचार्याः गोपीचन्दनशिलाम् स्वीकृतवन्तः । तस्यां शिलायां श्रीकृष्णमूर्तिः लब्धा इति अभिप्रायः अस्ति । उडुपीतः ओडभाण्डेश्वरः ४ कि.मी. दूरेऽस्ति । उडुपीतः समीपे समुद्रतीरे मल्पेप्रदेशे मत्स्योद्यमः, कापुप्रदेशे दीपस्तम्भः च प्रसिद्धौ स्तः ।
पङ्क्तिः १६:
 
उडुप्याः श्रीकृष्णमन्दिरे कलासांस्कृतिकसङ्गीतकार्यक्रमाः आयोजिताः भवन्ति । मध्वसरोवरः राजाङ्गणं, काष्ठरथः, दीर्घा वृत्ताकारिका राजवीथी, गीताभवनम् इत्येते इतरविशेषाः । मध्वसरोवरे '''प्लवनयानोत्सवः (तेप्पोत्सवः)''' प्रचलति । प्रतिदिनम् उडुपिनगरं प्रति बहुजनाः आगच्छन्ति । श्रीकृष्णदर्शनं कृत्वा प्रसादं स्वीकुर्वन्ति मुख्यप्राणं च नमन्ति ।
 
 
==मार्गः==
Line ३० ⟶ २९:
*[http://shivallibrahmins.com/photo-gallery/?album=UdupiKrishna Udupi Shri Krishna photos]
*[http://www.udupirounds.com/udupi-krishna-temple.php Udupi Shri Krishna Temple and related information guide]
 
{{कर्णाटकस्य तीर्थक्षेत्राणि}}
 
[[वर्गः:कर्णाटकस्य तीर्थस्थानानि]]
Line ३५ ⟶ ३६:
[[वर्गः:सारमञ्जूषा योजनीया]]
[[वर्गः:विषयः वर्धनीयः]]
 
{{कर्णाटकस्य तीर्थक्षेत्राणि}}
"https://sa.wikipedia.org/wiki/उडुपी" इत्यस्माद् प्रतिप्राप्तम्