"उत्तरकाशीमण्डलम्" इत्यस्य संस्करणे भेदः

(लघु)No edit summary
(लघु) clean up using AWB
पङ्क्तिः ४३:
| footnotes =
}}
'''उत्तरकाशीमण्डलम्''' ({{lang-hi|उत्तरकाशी जिला}}, {{lang-en| Uttarkashi District}}) [[उत्तराखण्ड]]राज्यस्य [[गढवालविभागः|गढवालविभागे]] स्थितं किञ्चन मण्डलम् अस्ति । अस्य मण्डलस्य केन्द्रम् अस्ति [[उत्तरकाशी]] इति नगरम् । उत्तरकाशीमण्डलं कृषि-जलपात-वन्यविविधता-शिक्षणादिभ्यः प्रख्यातमस्ति । अस्मिन् मण्डले [[गङ्गोत्री]]-[[यमुनोत्री]]-मन्दिरे स्तः ।
 
== भौगोलिकम् ==
 
उत्तरकाशीमण्डलस्य विस्तारः ४,०८० च.कि.मी.-मितः अस्ति । [[उत्तराखण्ड]]राज्यस्य उत्तरभागे इदं मण्डलमस्ति । अस्योत्तरदिशि [[हिमाचलप्रदेशः]], [[चीनदेशः]] च, दक्षिणदिशि [[देहरादूनमण्डलम्|देहरादूनमण्डलं]], [[पौरीगढवालमण्डलम्|पौरीगढवालमण्डलं]], [[रुद्रप्रयागमण्डलम्|रुद्रप्रयागमण्डलं]] च, पूर्वदिशि [[चमोलीमण्डलम्|चमोलीमण्डलं]], [[चीनदेशः]] च, पश्चिमदिशि [[देहरादूनमण्डलम्]] अस्ति ।
 
== जनसङ्ख्या ==
[[चित्रम्: Uttarkashi chart.png|left|250px|]]
 
उत्तरकाशीमण्डलस्य जनसङ्ख्या(२०११) ८,०१६ अस्ति । अत्र १,६८,५९७ पुरुषाः, १,६१,४८९ स्त्रियः, ४६,३०७ बालकाः (२४,१६५ बालकाः, २२,१४२ बालिकाः च) सन्ति । अस्मिन् मण्डले प्रतिचतुरस्रकिलोमीटर्मिते ४१ जनाः वसन्ति अर्थात् अस्य मण्डलस्य जनसङ्ख्यासान्द्रता प्रतिचतुरस्रकिलोमीटर् ४१ जनाः । २००१-२०११ दशके अस्मिन् मण्डले जनसङ्ख्यावृद्धिः ११.८९% आसीत् । अत्र पुं-स्त्री अनुपातः १०००-९५८ अस्ति । अत्र साक्षरता ७५.८१% अस्ति । अत्र लिङ्गानुगुणं साक्षरतानुपातः पुं – ८८.७९% स्त्री – ६२.३५% अस्ति ।
पङ्क्तिः ६०:
== वीक्षणीयस्थलानि ==
 
अस्मिन् मण्डले बहूनि प्रसिद्धानि मन्दिराणि सन्ति । यथा – [[गङ्गोत्री]]मन्दिरं, [[यमुनोत्री]]मन्दिरं, [[शनि]]मन्दिरं, [[भैरव]]मन्दिरं, कपिलमुनेः आश्रमः, कर्णदेवता, पोखुदेवता, दुर्योधनमन्दिरम् ।
 
=== [[गङ्गोत्री]]मन्दिरम् ===
 
मानवानां सर्वाणि पापानि हरन्ती नदी अस्ति [[गङ्गा]] । अतः नदीषु [[गङ्गा]]याः पूजा सर्वाधिका भवति । [[गङ्गा]]नदी पवित्रतायाः प्रतीकः अस्ति । अतः कथ्यते यत्, अमुकजलं [[गङ्गा]]जलवत् पवित्रमस्तीति । पुराणे कथास्ति यत्, मानवानां पापशमनार्थं, पालनार्थञ्च [[विष्णुः]] गङ्गां स्वपादाङ्गुष्ठात् उद्भावयत् । [[गङ्गा]]याः उद्भवे सति तस्याः पूजा प्रारभत । एवम् एतस्मिन् स्थले [[गङ्गा]]याः पवित्रमन्दिरस्य निर्माणमभूदिति । अस्मात् मन्दिरादेव अस्य स्थलस्य नाम [[गङ्गोत्री]]ति । अन्या कथास्ति यस्यां [[भगीरथ]]नामकः राजा [[गङ्गा]]याः प्रवाहमार्गं प्रशस्तं कर्तुं तपस्तप्यत । तस्य तपसा एव [[गङ्गा]]याः अवतरणं स्वर्गात् भूलोके अभूदिति । अतः [[गङ्गा]]याः अपरं नाम [[भागीरथी]] अस्ति ।
 
=== [[यमुनोत्री]] ===
 
[[गङ्गा]]याः वर्णः श्वेतः इति कथ्यते । [[यमुना]]याः वर्णः कृष्णः श्यामः वा इति कथ्यते । [[यमुनोत्री]]यात्रा क्लिष्टतमा यात्रास्ति । [[यमुनानदी]] कालिन्दीपर्वतात् उद्भवति । [[यमुनोत्री]]यात्रायाः मार्गे मार्कण्डेयर्षेः आश्रमः अस्ति । अनुमानमस्ति यत्, तत्र स्थित्वैव मार्कण्डेयर्षिः [[मार्कण्डेयपुराणम्]] अलिखत् ।
 
अस्मिन् मण्डले अन्यानि बहूनि वीक्षणीयस्थलानि सन्ति । यथा – नेहरु इन्स्टिट्युट् ओफ माउण्टेनिंग्, विझ्डम् कोटेज्, गोबाण्ड् नेशनल् पार्क्, पुलोरा एक्वेशनस्, टिहरी शहीद स्मारक ।
पङ्क्तिः ८९:
 
{{उत्तराखण्डस्य मण्डलानि}}
 
[[वर्गः:उत्तराखण्डस्य मण्डलानि]]
"https://sa.wikipedia.org/wiki/उत्तरकाशीमण्डलम्" इत्यस्माद् प्रतिप्राप्तम्