"उत्तराखण्डराज्यम्" इत्यस्य संस्करणे भेदः

(लघु)No edit summary
(लघु) clean up using AWB
पङ्क्तिः ८३:
 
[[चित्रम्:Uttranchal.gif|thumb|350px|'''मण्डलानि''']]
अस्मिन् राज्ये विभागद्वयं भवति [[गढवाल]] तथा [[कुमाऊं]] इति । अस्मिन् राज्ये १३ मण्डलानि सन्ति । [[गढवाल]]विभागे [[चमोलीमण्डलम्|चमोलीमण्डलं]], [[[[देहरादूनमण्डलम्|देहरादूनमण्डलं]], [[हरिद्वारमण्डलम्|हरिद्वारमण्डलं]], [[पौडीगढवालमण्डलम्|पौडीगढवालमण्डलं]], [[रुद्रप्रयागमण्डलम्|रुद्रप्रयागमण्डलं]], [[टिहरीगढवालमण्डलम्|टिहरीगढवालमण्डलं]], [[उत्तरकाशीमण्डलम्|उत्तरकाशीमण्डलं]] चास्ति । [[कुमाऊं]]विभागे [[अल्मोडामण्डलम्|अल्मोडामण्डलं]], [[बागेश्वरमण्डलम्|बागेश्वरमण्डलम्]], [[नैनितालमण्डलम्|नैनितालमण्डलं]], [[पिथौरागढमण्डलम्|पिथौरागढमण्डलं]], [[चम्पावतमण्डलम्|चम्पावतमण्डलम्]], [[उधमसिंहनगरमण्डलम्|उधमसिंहनगरमण्डलं]] चास्ति । राज्यस्य मुख्यराजभाषा [[हिन्दी]], उपराजभाषा [[संस्कृतभाषा]] चास्ति । “चिप्को” आन्दोलनस्य आरम्भः उत्तराखण्डराज्ये ऐदम्प्राथम्येन जातः । उत्तराखण्डस्य विस्तारः ५१,१२५ चतुरस्रकि.मी अस्ति । जनसंख्या ८५ लक्षमस्ति । [[देहरादून]]-[[हरिद्वार]]-[[नैनिताल]]-नगराणि अस्य राज्यस्य प्रमुखनगराणि सन्ति । राज्यस्य ९२.५७% भागः पर्वतीयः अस्ति । ६३% भागः अरण्यप्रदेशः अस्ति । उत्तराखण्डस्य मुख्याः पर्वताः [[नन्दादेवी]] (७८१६ मी.), [[बदरीनाथः]](७१४० मी.), [[चौखम्बा]](७१३८ मी.) तथा [[त्रिशूल्]](७१२० मी.) सन्ति ।
 
==इतिहासः==
 
प्राचीन[[हिन्दू]]ग्रन्थेषु केदार-मानसखण्डयोः मिलित्वा उत्तराखण्ड इति उल्लेखः दृश्यते । उन्नतपर्वताः, दर्दराः, नद्यः, पवित्रक्षेत्राणि अस्मिन् राज्ये सन्ति । अतः “देवभूमिः” इति अस्य नामान्तरमस्ति । ’कोल्’ इति जनाः अस्य राज्यस्य पूर्विकाः आसन् । [[वेद]]काले आर्यसन्ततेः “रावत्” नामकाः जनाः आसन् । तस्मिन् काले ॠषीणां, साधूनाञ्च इष्टतमं स्थानम् आसीदेतत् । [[व्यासः|व्यासमहर्षिः]] अस्मिन्नेव स्थले [[महाभारतम्|महाभारत]]काव्यं रचितवान् इति प्रतीतिः अस्ति । अस्मात् स्थलादारभ्यैव स्वर्गारोहणयात्रा आरब्धा पाण्डवैः इति जनानां विश्वासः । एतत् स्थलम् [[अशोकः|अशोक]]काले [[बौद्धधर्म:|बौद्धधर्मप्रभावितम्]] आसीत् । [[आदिशङ्कराचार्यः|आदिशङ्कराचार्यस्य]] प्रभावेण पुनः वैदिकसम्प्रदायावृतं जातं स्थलम् । मध्यकाले [[गढवाल]],[[कुमाऊं]] च द्वे संस्थाने उत्तराखण्डे आस्ताम् । [[कुमाऊं]]संस्थाने ’चन्द्रवंशस्य’ शासकाः शासनं कुर्वन्ति स्म । [[गढवाल]]संस्थाने ’परमारवंशस्य’ शासकाः शासनं कुर्वन्ति स्म । [[नेपालदेशः|नेपालदेशस्य]] ’गूर्खा’ शासकाः [[१७९१]] तमे संवत्सरे कुमाऊंराज्यं, [[१८०३]] तमे संवत्सरे [[गढवाल]]राज्यञ्च आक्रान्तवन्तः । [[१८१६]] तमे संवत्सरे आङ्ग्लजनैः सह युद्धमभूत् । अनन्तरं [[गढवाल]]-[[कुमाऊं]]प्रदेशौ आङ्ग्लशासने आस्ताम् । [[भारतम्|भारतस्य]] स्वातन्त्र्यानन्तरं [[टिहरि]]संस्थानम् [[उत्तरप्रदेशराज्यम्|उत्तरप्रदेशराज्ये]] शासनमकरोत् ।
 
==राज्यजनसमुदायः==
पङ्क्तिः १०४:
 
===[[पुष्पकन्दरः]]===
उत्तराखण्डराज्यं पूर्वम् [[उत्तरप्रदेशराज्यम्|उत्तरप्रदेशस्य]] भागः आसीत् । इदानीं स्वतन्त्रं राज्यम् अस्ति । अत्यन्तं सुन्दरं राज्यमेतत् । फ्राङ्क् स्मित् इति साहसी एतं प्रदेशम् अन्विष्टवान् । अत्र बहुविधाः पुष्पवृक्षाः सन्ति । एषः प्रपातः १० कि.मी. दीर्घः २ कि.मी. विस्तृतः च अस्ति । विश्वे एव एतादृशः निम्नकन्दरः अन्यत्र नास्ति । सागरतीरतः ३३५२ पादोन्नते प्रदेशे एतदस्ति । भारतीयाः विदेशीयाः च तत्र गच्छन्ति । जून-मासतः सप्तम्बर-मासपर्यन्तम् तत्र गन्तुं योग्यः कालः अस्ति । शीतकाले अतीव शैत्यं भवति ।
 
===[[नैनिताल]]===
'कुमाहिल्' प्रदेशे स्थितं सुन्दरं गिरिधाम एतत् उत्तराखण्डराज्यस्य किञ्चन नगरम् । [[नैनिताल]] इत्यस्य देवानां नेत्रे इत्यर्थः । नैनादेवी-तः नैनिताल इति नाम । अत्र ६० सरांसि सन्ति । अतः सरसः मण्डलम् इति अस्य नामान्तरमस्ति । [[नैनिताल]]-नगरस्य बृहत्तमः तडागः अस्ति 'भीमताल'-तडागः । अत्र नौकाविहारः, मीनग्रहणमित्यादिकम् अतीव आकर्षकाणि सन्ति । [[नैनिताल]]-नगरे मेघाच्छादितशिखराणि, सरोवराणि, तृणावृतप्रदेशाः, अरण्यानि, समतलभूमिः च अतीवसुन्दराणि सन्ति । अतः एतं प्रदेशं "A Jewel among the Tourist Places" इति यात्रिकाः सगौरवं कथयन्ति । शिवालिकपर्वतश्रेणिः, पर्वताः, प्रपाताः च मनोहराणि सन्ति । बहुकालपर्यन्तम् एतत् गिरिधाम अदृष्टमीव आसीत् । 'ब्यारन्' इति अधिकारी मार्गभ्रष्टः अत्र आगत्य अपूर्वप्रदेशं दृष्ट्वा सन्तुष्टः अभवत् । अनन्तरं यूरोपियन् जनाः अत्र आगतवन्तः । सा.श.[[१८४१]]तमे काले एषः लघुग्रामः आसीत् । इदानी विश्वे प्रसिद्धं नगरम् अस्ति । 'क्याटर्पिल्लर्' इति धूमशकटयानं नगरदर्शनार्थम् अस्ति । अनेन सञ्चारः बालानाम् अतीव हर्षदायकः अस्ति । [[नैनिताल]]नगरे किञ्चन पक्षिधाम अपि अस्ति । शतशः विविधाः पक्षिणः तत्र दर्शनीयाः सन्ति । [[नैनिताल]]-तः पश्चिमे रामनगरम् इत्यस्मिन् स्थले राष्ट्रियोद्यानं 'जिम् कार्बेट् न्याशनल् पार्क्' अस्ति । अत्र भल्लूकाः, व्याघ्राः, गजादयः प्राणिनः सन्ति । समीपे 'राणीखेत्' अल्मोडादीनि गिरिधामनि सन्ति ।
 
===पिण्डारी===
[[File:Pindari glacier, Uttarakhand, India.jpg|thumb|right|300px|पिण्डारी ग्लेषियर्]]
एतत् हिमालयप्रदेशस्य अत्यन्तं सुन्दरं स्थलम् । अत्र हिमनद्यः पर्वतशिखरेभ्यः अवतरन्ति । एषा हिमनदी ३ कि.मी. दीर्घा , अर्ध कि.मी. विस्तृता अस्ति । एषा ३३५३ मीटर् उन्नतप्रदेशे अस्ति । समीपे सुन्दरतृणभूमिः अस्ति । अत्र पर्वतारोहणं कर्तुं अवकाशः अस्ति । स्वर्गसदृशस्थलमेतत् इतः हिमालयपर्वतश्रेण्याः आरम्भः भवति । सर्वैः जीवने एकदा अवश्यं दर्शनीयमेतत् स्थलम् ।
 
===[[जिम् कार्बेट् राष्ट्रियोद्यानम्]]===
उत्तराखण्डराजस्य नैनितालपौरीमण्डलयोः भागः एषः । अभयारण्यमेव ५२३ चतुरस्र कि.मी. अस्ति । कुमाऊं-पर्वतप्रदेशे [[रामगङ्गानदी]] प्रवहति । एतत् सा.श.१९३५ तमे वर्षे रक्षितारण्यं घोषितमस्ति । प्रख्यातः मृगयाविहारी मृगयाप्रियः लेखकः 'जिम् कार्बेट्' कदाचित् अनेकजनान् व्याघ्रेभ्यः रक्षितवान् । नरभक्षकव्याघ्राणां जीवनविषये अध्ययनं कृत्वा पुस्तकं Man eaters of kumaon लिखितवान् । अत एव अरण्यं प्रति तस्य नाम एवम् आगतम् अस्ति । अस्य राष्ट्रियोद्यानस्य Tiger Country इत्यपि नाम अस्ति । अत्र किञ्चन पक्षिधाम अपि अस्ति । मृगाः, व्याघ्राः, गजाः, भल्लूकाः अत्र सन्ति । अत्र विविधाः पक्षिणः सन्ति । अतः खगवीक्षकस्वर्गः (Bird Watcher’s Paradise) इति कथयन्ति ।
 
===[[देहरादून्]]===
प्रवासिजनाः एतं प्रदेशं द्रष्टुम् इतः मस्सूरीप्रदेशं गन्तुं तत्र गच्छन्ति । तत्र अत्यन्तम् उत्तमं खगवीक्षणस्थानम् अस्ति । तस्य कारणम् तु तत्र विद्यमानम् अरण्यसंशोधनकेन्द्रं एव विश्वे तस्य स्थानं प्रप्रथमम् अस्ति । तत्र भारतीयसर्वेक्षणविभागस्य केन्द्रम् (सर्वे आफ् इण्डिया) अस्ति । ततः ८ कि.मी. दूरे चोरगुहा (राबर्सकेव्) इति स्थलम् अपूर्वमस्ति । भव्यानि अरण्यानि, पर्वतप्रदेशाः, नदीतीरप्रदेशाः च अस्माकं मनः आकर्षन्ति । अत्र जलं किञ्चिद्दूरं गुप्तगामीनी भूत्वा पश्चात् दूरे फेनरूपेण बहिरागच्छति । समीपे १४ कि.मी. दूरे उष्णजलनिर्झरिण्यः सहस्रधारा इति स्थले सन्ति । मृगवनम् आकर्षकम् अस्ति ।
 
===[[मसूरी]] गिरिधाम===
अत्र अतीव सुन्दरपर्वतशिखराणि सन्ति । एतत् विनोदविहारस्य स्थानम् । [[हिमालयः|हिमालयशिखराणि]] अत्र गोचरी भवन्ति । इतः ११ कि.मी.दूरे 'केम्प्रीफालस्', 'भट्टफाल्स्, स्तः । अत्युन्नतं स्थानं 'लालतिल'-नामकं प्रसिद्धं स्थानम् अत्र अस्ति । सागर-स्तरतः २००० मीटर् उन्नतप्रदेशोऽयं 'क्यामल्स् बाक्स्'-'गन् हिल्'-स्थानके अतीवोन्नते स्थाने स्तः । अत्र शिखरपर्यन्तं गन्तुं विद्युच्चालिततन्त्रीस्यन्दनव्यवस्था अस्ति । 'लाक् मण्ड्ल्' (३५ कि.मी.) स्थले [[शिव]]देवालयः अस्ति । अत्रैव [[कौरवाः]] [[पाण्डवाः|पाण्डवान्]] लाक्षागेहे मारयितुं प्रयत्नं कृतवन्तः इति [[महाभारतम्|महाभारते]] उल्लिखितम् । सहस्रधारस्थले ९ मीटर् उन्नतः कश्चन जलपातः अस्ति । अत्रत्यं जलं गन्धकमिश्रितम् अतः स्नानेन आरोग्यवर्धनं भावति इति विश्वासः ।
 
===[[हिमालयः]]===
[[हिमालयः]] [[उत्तराखण्डराज्यम्|उत्तराखण्डप्रदेशस्य]] सुन्दरं स्थलम् । [[उत्तराखण्डराज्यम्|उत्तराखण्डराज्यमेव]] पर्वतानाम् स्थानमस्ति । अत्र पर्वतेषु सदा तुषारावृतं दृश्यं द्रष्टुं शक्यते । प्रपातेषु सदा शीतलं जलं प्रवहति । तृणावृतानि समतलानि आकर्षकानि भवन्ति । गढवालप्रदेशस्य विस्तारः ५००० चतुरस्रकि.मी. अस्ति । अत्रैव [[चमोलीमण्डलम्|चमोली]], [[पौरीगढवालमण्डलम्|पौरीगढवाल]], [[टिहरीगढवालमण्डलम्|टिहरीगढवाल]], [[देहरादूनमण्डलम्|देहरादून]]मण्डलानि सन्ति । गढवाल प्रवासिजनानां स्वर्गमिति कथयन्ति । अत्र यात्रा साहसिकानामेव साध्या । पर्वतारोहिणाम् उत्साहः भवति । जलक्रीडासु जनाः मग्नाः भवन्ति । "रिवर् राप्टिङ्ग्" , "मौण्टन् बैकिङ्ग्" इत्यादीनि जनानां प्रियाणि भवन्ति । पर्वतशिखरेषु [[त्रिशूल्]], [[कामेट्]], [[धुनगिरि]] इत्यादीनि अतीव प्रसिद्धानि सन्ति । [[नन्दादेवी]] अत्युन्नतः पर्वतः अस्ति । अत्र कठिनशिलारोहणं साहसिकानां प्रियं भवति । तुषारावृतप्रदेशे धावनमपि अत्र साहसप्रियाणाम् इष्टं भवति। [[मसूरी]] इवात्रापि अतीव शैत्यं भवति । [[हृषीकेशः]], [[अल्मोरा]], [[राणिखेत्]], [[मसूरी]], [[यमुनोत्री]], [[केदारेश्वरः|केदारनाथः]], [[बदरीनाथः]] च अत्रैव समीपे विद्यमानानि क्षेत्राणि । प्रतिक्षेत्रेषु सहस्राधिकाः जनाः दर्शनं प्राप्नुवन्ति ।
 
===[[बदरीनाथः]]===
पङ्क्तिः १२९:
 
===[[केदारनाथः]]===
सर्वतः हिमाच्छादितानि गिरिशिखराणि सन्ति । [[केदारनाथः|केदारनाथप्रदेशं]] रुद्रहिमालयः इति कथयन्ति । सुमेरुपर्वतः गन्धमादनगिरिः च अस्यैव भागौ स्तः । [[केदारनाथः|केदारनाथक्षेत्रं]] [[द्वादशज्योतिर्लिङ्गानि|द्वादशज्योतिलिङ्गक्षेत्रेषु]] अन्यतमम् अस्ति । नरनारायणानां प्रार्थनया [[शिवः]] अत्र ज्योतिर्लिङ्गरूपेण स्थितवान् इति [[शिवपुराणम्|शिवपुराणे ]] अस्ति । एतत् हिन्दवानां परमपवित्रं श्रद्धाकेन्द्रम् । [[केदारनाथ]]स्य समीपे मन्दाकिनीनद्याः उगमस्थानमस्ति । [[केदारनाथः|केदारनाथस्य]] क्षेत्रं सागरस्तरतः ११७०० पादपरिमितौन्नत्ये स्थलम् अस्ति । [[केदारनाथ]]मन्दिरे बृहच्छिला एव [[शिव]]लिङ्गमिति आराध्यते। [[गौरीकुण्डः]] इति पवित्रजलवापी अस्ति । श्री[[शङ्कराचार्यः]] [[केदारनाथ]]क्षेत्रे कैवल्यम् अवाप्नोत् । एतत् स्थलं भक्तानां यात्रास्थलं , प्रकृतिप्रियाणां साहसप्रियाणां एतत् प्रियं स्थानम् ।
 
==[[अल्मोडा]]==
[[हिमालयः|हिमालयपर्वत]]श्रेण्यां स्वर्गमिव प्रकाशामानं गिरिधाम अल्मोरा । एतत् गिरिधाम दर्शकानां स्वर्गः इति ख्यातमस्ति । अत्र कन्दराः पर्वतशिखराणि नद्यः (रामगङ्गा, कोशी) सर्वाणि दिव्यानि भव्यानि च सन्ति । अत्र समतले वाटिकाः सन्ति । पर्वतारोहिणां प्रियं स्थानमस्ति । अल्मोरातः कारूददेवि मन्दिरपर्यन्तं जनाः आरोहणं कुर्वान्ति । [[स्वामी विवेकानन्दः]] इतः एव भारतयात्राम् आरब्धवान् इति इतिहासः। [[उत्तराखण्डराज्यम्|उत्तराखण्दराज्यतः]] कुमांव् ट्रान्सपोर्ट् इति संस्था प्रवासव्यवस्थां करोति । स्वयं वाहनैः अपि गन्तुं शक्यते ।
 
==गौमुखम्==
[[उत्तरकाशीमण्डलम्|उत्तरकाशीमण्डलस्य]] एतत् प्रमुखस्थलमस्ति । सागरस्तरतः ४२५५ मीटर् उन्नतप्रदेशे एतदस्ति । अत्र पञ्चदश हिमनदीभिः एका गुहा निर्मितास्ति । एषा गौमुखम् इव दृश्यते इति स्थलस्य नाम गोमुखम् इति आगतम् । [[भागीरथी]] नदी अत्र सञ्जाता । अत्र शान्तिः पवित्रता सौन्दर्यं च सहजतया अस्ति । अत्र नदीस्नानम् अतीव पुण्यफलदम् इति जननां विश्वासः । अत्र अपाय स्थानानि बहूनि सन्ति । अत्र नदी वेगेन प्रवहति । अत्र कदाचित् हिमशिलाप्रपातः भवति । रक्षकपुरुषाः अत्र दर्शनं कृत्वा शीघ्रं निवर्तितुं जनान् सूचयन्ति ।
 
==[[हिमालययात्रा]]==
पङ्क्तिः १४२:
==[[हरिद्वारम्|हरिद्वारं]] [[हृषीकेशः]] च==
[[गङ्गानदी|गङ्गानद्याः]] अपूर्वसौन्दर्यं द्रष्टुं शक्यते । [[हरिद्वारम्]] अथवा [[हरद्वारम्]] इति प्रख्यातं प्राचीनं पत्तनमेतत् हरेः पादौ अत्र स्तः इति [[हरिद्वारम्]] इति नाम आगतमस्ति । ब्रह्मकुण्डप्रदेशे हरिपादौ स्तः अमृतकुण्डं हरि की पायरि इत्यपि कथयन्ति । [[गङ्गा]]तीरे [[गङ्गा]]मातुः मन्दिरमस्ति । [[लक्ष्मी]]मन्दिरं श्री[[राम]]मन्दिरं नीलधारा, पावनधाम, दक्षप्रजापतिमन्दिरम् इत्यादिदर्शनीयानि सन्ति । [[गङ्गा]]तीरे अनेक गुरुकुलानि सन्ति । अत्रानेकधर्मशालाः सन्ति । [[गङ्गा]]स्नानम् अत्र पवित्रकार्यमस्ति ।
[[हरिद्वारम्|हरिद्वारतः]] १४ कि.मी. दूरे [[हृषीकेशः|हृषीषिकेश]]क्षेत्रमस्ति । अत्र [[गीता]]भवनं, स्वर्गाश्रमः, ऋषिकुण्डं, वराहमन्दिरं, त्रिवेणिघट्टः भरतमन्दिरं, शिवानन्दाश्रमः इत्यादीनि सन्ति । लक्ष्मणझूला सेतुद्वारा [[गङ्गा]]याः पारं कर्तुं शक्यते । इतः [[हिमालयः|हिमालययात्रायाः]] आरम्भः भवति । हरिद्वारहृषीकेशनगरयोः वैशिष्ट्यं [[गङ्गा]] प्रवहति। इतः जनाः परिशुद्धं गङ्गाजलं गृहं नयन्ति । [[गङ्गा]]नद्याः उभयपार्श्वयो: स्नानघट्टाः निर्मिताः सन्ति ।
 
 
==बाह्यानुबन्धः==
Line १५५ ⟶ १५४:
{{भारतस्य राज्यानि केन्द्रशासितप्रदेशाः च}}
{{उत्तराखण्डस्य मण्डलानि}}
 
[[वर्गः:उत्तराखण्डराज्यम्]]
[[वर्गः:भारतस्य राज्यानि]]
"https://sa.wikipedia.org/wiki/उत्तराखण्डराज्यम्" इत्यस्माद् प्रतिप्राप्तम्