"औरङ्गाबादमण्डलम्" इत्यस्य संस्करणे भेदः

No edit summary
(लघु) clean up using AWB
पङ्क्तिः ११:
| subdivision_name = {{flag|India}}
| subdivision_type1 = जिल्हा
| subdivision_name1 = [[औरङ्गाबादमण्डलम् ]]
| subdivision_type2 = उपमण्डलानि
| subdivision_name2 =कन्नड, सोयगाव, सिल्लोड, फुलम्ब्री, [[औरङ्गाबाद् (महाराष्ट्रम्)|औरङ्गाबाद]], खुलताबाद, वैजापुर, गङ्गापुर, पैठण
पङ्क्तिः ३९:
[[चित्रम्:वेरुळ-कैलास.jpg|thumb|right|200px|वेरुळ-कैलासमन्दिरम्]]

'''औरङ्गाबादमण्डलं''' ({{lang-mr|औरङ्गाबाद जिल्हा}}, {{lang-en|Aurangabad District}}) [[महाराष्ट्र]]राज्ये स्थितं किञ्चन मण्डलम् । अस्य मण्डलस्य केन्द्रम् [[औरङ्गाबाद् (महाराष्ट्रम्)]] इत्येतन्नगरम् । अत्रस्थानि अजिण्ठा-वेरूळ-लयनानि जगत्प्रसिद्धानि । महाराष्ट्रराज्यस्य एकमेव मण्डलमिदं यत्र द्वे विश्वपरम्परास्थाने (World Heritage Sites) स्त: ।

==भौगोलिकम्==

औरङ्गाबादमण्डलस्य विस्तारः १०,१०० चतुरस्रकिलोमीटर्मितः अस्ति । अस्य मण्डलस्य पूर्वदिशि [[जालनामण्डलम्|जालनामण्डलं]], पश्चिमदिशि [[नाशिकमण्डलम्]], उत्तरदिशि [[जळगावमण्डलम्|जळगावमण्डलं]], दक्षिणदिशि [[अहमदनगरमण्डलम्]] अस्ति । अस्मिन् मण्डले ७३४ मि.मी. मित: वार्षिकवृष्टिपातः भवति । अस्मिन् मण्डले द्वे प्रमुखनद्यौ स्त: । ते [[गोदावरी नदी]], [[तापी]] च । अन्तुर, सतोण्डा, अब्बासगड इत्यादय: पर्वतावल्य: सन्ति ।

==कृषि: उद्यमाश्च==

अत्रस्था: प्राय: ७०% जना: कृषिकार्यं कुर्वन्ति । यवनाल:(ज्वारी), कार्पास:, बाजरी, तण्डुल:, गोधूम:, इक्षु:, तमाखु:, पलाण्डु:, जम्बीरं, द्राक्षाफलानि, भूमिजम्बुकफलानि, आम्रफलानि इत्यादीनि कृष्युत्पादनानि सन्ति । ऊर्णा, कार्पास: इत्येताभ्यां सम्बद्धा: उद्यमा:, वनस्पतीजन्यतैलोत्पादनोद्यमा: च सन्त्यत्र । कार्पास-कौशेयाभ्यां निर्मितं वस्त्रं 'हिमरू' नाम्ना प्रसिद्धम् । हिमरू-वस्त्रनिर्माणोद्यमा: सन्ति अत्र । 'पैठणी' नामक: शाटिकाप्रकार: आमहारष्ट्रं प्रसिद्ध: । 'पैठणी'निर्माणोद्यमा: सन्ति अत्र । स्वयञ्चलितवाहनानां निर्माणोद्यमा:, 'बिअर्', 'व्हिस्की' पेयप्रकारनिर्माणोद्यमा: अत्र प्रचलन्ति ।

==जनसङ्ख्या==
पङ्क्तिः ५५:
== ऐतिहासिकं किञ्चित् ==

एवं हि कथ्यते यत् [[औरङ्गाबाद् (महाराष्ट्रम्)|औरङ्गाबादनगरं]] मलिक अम्बर इत्यनेन आवासितम् । परं अस्य मण्डलपरिसरस्य इतिहास: तु पुरातन: । अत्र सातवाहन-वौस्तोक-[[चालुक्यवंशः|चालुक्य]]-[[राष्ट्रकूटवंश:|राष्ट्रकूट]]-यादवराजानाम् आधिपत्यमासीत् अत्र । अनन्तरं मोघलाधिपत्यम् अत्रासीत् । मोघलाधिपत्ये एव अत्रस्थानां स्थापत्यकलानुगुणं नैकानां भवनानां निर्माणं कृतम् इति ज्ञायते । बहूनि ऐतिहासिकभवनानि सन्त्यत्र ।

==उपमण्डलानि==
पङ्क्तिः ८१:
==वीक्षणीयस्थलानि==

औरङ्गाबादमण्डले बहूनि वीक्षणीयस्थलानि सन्ति । यथा -

=== [[अजिण्ठा-वेरूळ]]===
पङ्क्तिः ८९:
एतेषां लयनानां वैशिष्ट्यम् अस्ति यत् एतानि अखण्डशिलाभ्य: निर्मितानि सन्ति । पुरातनकाले साधनानां न्यूनता तु आसीदेव । तथापि पाषाणशिल्पिभि: महता कौशलेन एतानि लयनानि कृतानि सन्ति । अत: बहव: पर्यटका: आकर्षिता: भवन्ति ।
* देवगिरी तथा दौलताबाद् भुईकोट

* खुलताबाद - औरङ्गजेब इत्यस्य 'कबर'-समाधिस्थलम्

* बीबी का मक्बरा

* घृष्णेश्वर-मन्दिरम् - द्वादशज्योतिर्लिङ्गेषु अन्यतमम्

* पैठणनामकं सन्त-एकनाथस्य जन्मस्थलम्

* जायकवाडी-जलबन्ध:

* औरङ्गाबाद-गह्वरा:

* भोसले गढी

* चान्द मिनार

==बाह्यसम्पर्कतन्तु:==
"https://sa.wikipedia.org/wiki/औरङ्गाबादमण्डलम्" इत्यस्माद् प्रतिप्राप्तम्