"कठोपनिषत्" इत्यस्य संस्करणे भेदः

No edit summary
(लघु) clean up using AWB
पङ्क्तिः २:
कठोपनिषदः (Kathopanishat) काठकोपनिषदित्यपि नाम वर्तते । [[कृष्णयजुर्वेदः|कृष्णयजुर्वेदीया]] इयम् उपनिषत् । अस्याम् [[उपनिषदः|उपनिषदि]] अध्यायद्वयं वर्तते । प्रत्येकस्मिन् अपि अध्याये तिस्रः वल्ल्यः विद्यन्ते । [[यमः|यम]]-[[नचिकेताः|नचिकेतसोः]] संवादरूपेण इयम् उपनिषद् वर्तते ।
==उपनिषत्सारः==
इयमुपनिषत् [[आत्मा|आत्म]]विषयिण्या आख्यायिकया आरभ्यते । प्रामुख्येन यमनचिकेतसोः प्रश्नप्रतिवचनरुपा अस्ति ।

[[वाजश्रवाः]] लौकिककीर्तेः आशया विश्वजिद्यागं कर्तुम् उद्यतः भवति । याजकः स्वीयसमग्रायाः सम्पत्तेः दानं कुर्यादित्येषा अस्य [[यज्ञम्|यज्ञस्य]] प्रमुखविधिः । इमं विधिम् अनुसरन् सः स्वस्य सर्वसम्पत्तेः दानं कृतवान् । सः निर्धनः आसीत् इत्यतः तत्समीपे विद्यमानाः काश्चन [[धेनुः|गाः]] पीतोदका जग्धतृणा दुग्धदोहा निरिन्द्रियाः सत्यः दुर्बला आसन् । पिता ताः गाः यदि ददाति तर्हि निश्चयेन पुण्यं न प्राप्स्यति, तेन क्रियमाणं यज्ञं विफलं न भवेत् तथा मया करणीयम् इति चिन्तयित्वा तदीयः कनीयान् पुत्रः नचिकेताः स्वपितरमुपसर्प्य मां कस्मै ददाति इति द्विकृत्वः त्रिकृत्वः पृच्छति । तदा कुपितः पिता यमाय दास्यामि इति वदति ।

किञ्चित् कालानन्तर आत्मना कृतं दोषम् अवगतवान् वाजश्रवाः पुत्रं यमसमीपं प्रेषणे उद्युक्तः न भवति । तदा मनुष्यस्य क्षणभङ्गुरत्वं दर्शयित्वा प्राचीनानाम् अधुना विद्यमानानां श्रेष्ठपुरुषाणाम् उदाहरणानि यच्छन् प्रतिज्ञावचनानुगुणं व्यवहर्तुं पितरम् अङ्गीकारितवान् नचिकेताः । ततः यमलोकं गतः नचिकेताः यमस्य अनुपस्थितेः कारणतः दिनत्रयम् आहारेण विना तस्य प्रतीक्षां करोति । दिनत्रयानन्तरम् आगतः यमः स्वस्य विलम्बकारणात् बालकः निराहारः आसीत् इति बहु खिन्नः जातः । तं वरत्रयं प्रष्टुं यमः सूचयति ।

पङ्क्तिः १२:
तृतीयेन वरेण आत्मज्ञानं प्रार्थयति नचिकेताः । आदौ इदं ज्ञानम् उपदेष्टुं यमः नाङ्गीकरोति । इदं ज्ञानम् अगम्यं दुर्ज्ञेयं वर्तते । तत् मास्तु । सकलैश्वर्यं, दीर्घायुष्यं, स्वर्गसुखसाधनं वा प्रार्थय, दास्यामि इति असकृत् अवदत् यमः । किन्तु नचिकेताः अवदत् - नान्यद् किञ्चिद् अहम् अपेक्षे, आत्मज्ञानमेव अपेक्षितं, कृपया अनुगृह्यताम् इति अवदत् । बालब्रह्मचारिणः सत्यनिष्ठया सन्तुष्टः यमः विस्तारेण ब्रह्मज्ञानम् अबोधयत् -
===आत्मस्वरूपम्===
अस्मिन् जगति [[श्रेयः]] [[प्रेयः]] आत्मसुखं विषयसुखम् इति द्विविधं सुखं वर्तते । एतयोः अन्यतरेण प्रेरितः सन् मानवः कस्मिंश्चित् कर्मणि प्रेरितः भवति । बुद्धिमन्तः आत्मसुखं मूढाः विषयसुखं च अपेक्षन्ते । भवान् श्रेयसः प्राप्त्यर्थम् उद्युक्तः अस्ति । आत्मसुखम् आत्मज्ञानेन आत्मनि एव प्राप्यमाणं वस्तु । आत्मा एव सत्यवस्तु । सः एव सर्वस्य आधारभूतः । सः मनुष्यस्य अन्तःकरणे एव गूढरूपेण स्थितः विद्यते । अध्यात्मयोगेन ध्यानेन च तस्य सम्पूर्णं ज्ञानं प्राप्तुं शक्यते । वेदानां विविधव्रतानां च लक्ष्यं भवति अयम् आत्मा । [[ ओङ्कारः|ओङ्कार]]मन्त्रः एव तस्य आत्मस्वरूपस्य निर्देशः ।

तत्स्वरूपं जननमरणातीतं वर्तते । अनित्येषु नित्यम् अचेतनेषु चैतन्यरूपं वर्तते । तत् सूक्ष्मतमं बृहत्तमञ्च वर्तते । किन्तु इदम् आत्मज्ञानं तर्केण बुद्ध्या प्रवचनेन वेदश्रवणेन च न सिद्ध्यति ।
===आत्मज्ञानम्===
आत्मप्रसादेन तन्नाम परमात्मनः अनुग्रहेणैव आत्मज्ञानं भविष्यति । अस्मिन् [[शरीरम्|शरीरे]] जीवात्मपरमात्मानौ छायातपौ इव वसतः । परमात्मसाक्षात्कारं यः इच्छेत् सः मनः इन्द्रियाणि च संयम्य, बुद्धेः परिशुद्धतां सम्पाद्य, परमात्मनः ध्याने निमग्नः भवेत् । बाह्येन्द्रियेभ्यः बहिः बुद्धिः, ततः महदात्मा [[हिरण्यगर्भः|हिरण्यगर्भो]] वा, ततः अव्यक्तं, ततः बहिः परमपुरुषश्च विद्यते । सर्वान्तर्यामिणम् इमं गूढात्मानं ध्यानयोगेन, तीक्ष्णबुद्ध्या च जानीयात् । बाह्यशक्तीः ततः बहिः विद्यमानेषु तत्त्वेषु विलयीकुर्वन् ध्यानं कुर्यात् । चित्ते शान्तात्मनः परमात्मनः एव मननम् अविचलं यथा स्यात् तथा लयचिन्तनरूपः ध्यानविधिः अभ्यसितव्यः ।

विश्वस्य सृष्ट्यवसरे परमात्मा स्वीयशक्तीः बहिः विस्तारितवान् । अतः एव अस्माकम् [[इन्द्रियाणि]] सर्वदा बहिर्मुखाः भवन्ति । तानि अन्तर्मुखानि भवन्ति चेत् आत्मदर्शनं भविष्यति । तेन आत्मतत्त्वेन एव सृष्टेः उत्पत्तिः । सर्वस्य अपि उगमस्थानं भवति तत् । सर्वस्य विश्वस्य आधारभूतम् इदम् आत्मतत्त्वम् [[अङ्गुष्ठः|अङ्गुष्ठ]]परिमाणरूपेण सर्वस्य अपि अन्तःकरणे निवसति । इदम् आत्मतत्त्वं यः ज्ञास्यति सः आत्ममयः, पुनर्जन्मरहितः, अमृतश्च भविष्यति ।
पङ्क्तिः २८:
आत्मनः निरूपणं रथादिकल्पनया स्पष्टं भवति तृतीयवल्याम् । तत्र रथी आत्मा, रथं शरीरं, सारथिः बुद्धिः, प्रग्रहं मनः, हयाः इन्द्रियाणि, मार्गाः विषयाः भवन्ति । परञ्चि खानि व्यतृणत् इत्यादिना धीरस्य वर्णनं श्रूयते । मनसैवेदमाप्तव्यं नेह नानास्ति किञ्चन इत्यादिना धीरस्य वर्णनं श्रूयते । मनसैवेदमाप्तव्यं नेह नानास्ति किञ्चन इत्यादिना च साधनानि कथितानि । ऊर्ध्वमूलोऽवाक्शाख इत्यनेन सर्वसंसारमूलत्वेन ब्रह्मणः निर्देशः च कृतः ।
==उपनिषदः वैशिष्ट्यम्==
प्रत्येकस्मिन् उपनिषदि अपि [[ब्रह्मज्ञानम्|ब्रह्मज्ञान]]विषयः एव विवृतः अस्ति चेदपि सर्वस्मिन् अपि नावीन्यं सौन्दर्यञ्च परिदृश्यते । कठोपनिषदः वैशिष्ट्यं नाम अत्र विद्यमाना लघुकथा । कथा सा न वा महत्त्वपूर्णा न वा चित्ताकर्षिका । किन्तु अत्र चित्रितः कथानायकः अविस्मरणीयः विद्यते । नायकः बालः नचिकेताः षड्वर्षीयमात्रः । तदीया [[श्रद्धा]], [[पितृभक्तिः]], [[निर्भयत्वम्]], [[इन्द्रियनिग्रहः]], शान्तवृत्तिः, [[ज्ञानपिपासा]], निर्मोहः, सत्यधृतिश्च अपूर्वा एव । ब्रह्मज्ञानम् अपेक्षितवतः नचिकेतसः मनोपरिवर्तनाय [[यमः]] सकलैश्वर्यं दातुम् उद्युक्तः जातः । किन्तु तत्सर्वं सम्पूर्णतया निराकृतवान् नचिकेताः '''न वित्तेन तर्पणीयो मनुष्यः''' इत्येतस्याः उक्तेः उदाहरणरूपः जातः । ब्रह्मज्ञानस्य प्राप्तये कीदृशी दृढा [[त्यागः|त्याग]]बुद्धिः अपेक्षिता इति दर्शयति ।

[[मोक्षः|मोक्ष]]दायकं ब्रह्मज्ञानम् इहलोके अस्मिन्नेव जन्मनि प्राप्तव्यम् । अस्मिन् लोके यद् शक्यं तत् नान्यस्मिन् लोके शक्यम् इति स्पष्टं वदति उपनिषत्काराः । आत्मस्थितेः प्राप्तिः बौद्धिकज्ञानेन न भवति इत्येतम् अंशं '''न मेधया''' '''न तर्केण''' इत्यादिभिः उक्तिभिः पौनःपुन्येन स्मारयन्ति ।
===योगविधिः===
कठोपनिषदि ब्रह्मविद्यायाः विवेचनमात्रं न ब्रह्मसाक्षात्कारप्राप्तेः 'योगविधिः' अपि उक्तः विद्यते । अत्र '''लयचिन्तनविधिः''' निरूपितः अस्ति । देह-इन्द्रिय-मन-आत्मा-इत्येतेषां सम्बन्धं रथ-रथ्योः रूपकद्वारा सुन्दरतया वर्णितः अस्ति । पिण्डाण्डस्य परीक्षा यदि क्रियते तर्हि तस्मिन् [[बाह्येन्द्रियाणि]], ततः बहिः [[सूक्ष्मेन्द्रियाणि]], इन्द्रियाणां शासकः मनः, ततः मनश्शक्तिषु श्रेष्ठा शुद्धबुद्धिः, ततो बहिः आत्मा [[अन्तरात्मा]] वा विद्यते । तेषु अन्तरात्मा एव श्रेष्ठः । अतः अन्तःकरणे अन्तरात्मनः संस्थापनमेव मानवस्य लक्ष्यं स्यात् ।

ब्रह्माण्डे [[पञ्चभूतानि]], [[पञ्चतन्मात्राणि]] विद्यन्ते । ततो बहिः अव्यक्तब्रह्मा तन्नाम [[हिरण्यगर्भः]], ततो बहिः परमपुरुषः विद्यते । पिण्डे विद्यमानः अन्तरात्मा अङ्गुष्ठपरिमाणस्य पुरुषो वा [[ब्रह्माण्डम्|ब्रह्माण्डस्य]] परमपदव्याम् अधिष्ठितः परमात्मा च तत्त्वतः अभिन्नौ इत्येतस्य ज्ञानेन साधनं सुलभायते ।

====सोपानानि====
पङ्क्तिः ६९:
*[http://www.yoga-age.com/upanishads/katha.html translation and commentary by Swami Paramananda]
{{दशोपनिषदः}}

[[वर्गः:प्रमुखोपनिषदः]]
"https://sa.wikipedia.org/wiki/कठोपनिषत्" इत्यस्माद् प्रतिप्राप्तम्