"बेङ्गळूरु" इत्यस्य संस्करणे भेदः

(लघु) clean up using AWB
(लघु) clean up, replaced: , → , (2) using AWB
पङ्क्तिः १०१:
 
==उपमण्डलानि==
उत्तरबेङ्गळूरु, दक्षिणबेङ्ग्ळूरु, आनेकल् च । [[भारतम्|भारत]]देशस्य तृतीयं बृहन्नगरम् इति विख्यातम् । प्रायः अत्र ९०लक्षजनाः सन्ति । उद्याननगरम् इति प्रसिद्धस्य एतस्य ऐटिसिटि इति नाम प्राप्तमस्ति । सङ्गणकोद्यमे विद्युन्मानक्षेत्रे तु नगरस्य अस्य योगदानं महत् अस्ति । इन्फोसिस् , स्याप्, विप्रो, ओरेकल् इत्यादिभिः सङ्गणकसंस्थाभिः एतस्य "सिलिकान् व्याली” इति ख्यातिः आगता अस्ति । देशस्य स्वातन्त्र्योत्तरकाले बेङ्गलूरुमहानगरं बृहद्यन्त्रागाराणाम् आश्रयस्थानम् अभवत् । अत्रत्यं प्रशान्तं वातावरणं, सुन्दरं परिसरं च जनाकर्षणस्य कारणमभवत् । एच् ए एल्, बि.इ.एल्., इसरो इत्यादीनां यन्त्रोद्यमानां स्थापनायतनं च सञ्जातम् ।
 
== दर्शनयोग्यानि स्थलानि ==
पङ्क्तिः ११६:
===प्रमुखदेवालयाः===
[[File:Bangalore Nandi Temple.jpg|thumb|right|'''महानन्दिदेवालयः''']]
दोड्डुगणपति देवालयः कारञ्जि- आञ्जनेयः, गविगङ्गाधरेश्वरः बनशङ्करी, कोटे वेङ्कटरमणस्वामी, दोड्डबाणसवाडि, इस्कान्, शिवालयः, काडुमल्लेश्वरः, सोमेश्वरः, चम्पकधामस्वामी, रागीगुड्डप्रसन्न-आञ्जनेयः, गाळी आञ्जनेयः,महालक्ष्मीपुरस्य महालक्ष्मीः, वीराञ्जनेयः च, धर्मरायस्वामी नगर्त्तपेटे, दोड्डबसवनगुडि, इत्यादीनि । दोड्डबसवण्ण (बसवनगुडि) नन्दी नन्दीश्वर इति नाम्ना प्रसिद्धः अस्ति । अत्र नवमशतकीयः बृहन्नन्दी विग्रहः १४.५७ पाटपरिमित्तोन्नतः , २० पादपरिमितः विस्तारवान् एकशिलानिर्मितः, पल्लववंशीयानां काले निर्मितः च अस्ति । समीपे एव दोड्ड्गणपतिदेवालयः अस्ति । धर्मरायस्वामी मन्दिरे पाण्डवानां द्रौपद्याः च पूजा प्रचलति । श्रीकृष्णाराधनं च प्रचलति । चैत्रमासे पूर्णिमायाम् अत्र '''करग''' नामकः उत्सवः वैभवेन प्रचलति । नवदिनानि यावत् रथोत्सवः भवति । विश्वेश्वरस्वामी देवालयः चिक्कपेटे इत्यत्र, अस्ति । [[मैसूरु]]मार्गे गाळीआञ्जनेयदेवालयः, महालक्ष्मीपुरे प्रसन्नाञ्जनेयदेवालयः, कोटेप्रदेशे आञ्जनेयदेवालयः च प्रसिद्धाः सन्ति । प्रसन्नाञ्जनेयस्य मन्दिरगोपुरं स्वर्णमयम् । गविगङ्गाधरेश्वरदेवालय गुहान्तर्गतः देवालयः अस्ति । रागिगुड्डुस्थले अनेके देवालयाः सन्ति । आञ्जनेयः अत्र प्रमुखः आराध्यः । बृहाच्छिलायाः उपरि देवालयाः सन्ति । राजराजेश्वरी नगरे सुन्दरः श्रीराजराजेश्वरीदेवालयः अस्ति ।
 
==भौगोलिकता==
"https://sa.wikipedia.org/wiki/बेङ्गळूरु" इत्यस्माद् प्रतिप्राप्तम्