"डा सलिम अलि" इत्यस्य संस्करणे भेदः

(लघु) clean up using AWB
(लघु) clean up, replaced: , → , using AWB
पङ्क्तिः ९:
एषः डा. सालिम् अलिः अनन्तरं पक्षिणाम् अभिज्ञानस्य विषये, मृतानां पक्षीणाम् आन्तरिकं भागं रिक्तीकृत्य तत्र अन्यानि वस्तूनि पूरयित्वा तस्य पक्षिणः आकरस्य रक्षणस्य विषये च ज्ञातवान् । एषः तस्मिन् समये कस्मात् अपि विश्वविद्यालयात् कामपि पदवीं न प्राप्तवान् आसीत् । अतः बन्धूनां [[खनिः|खनि]]कार्यस्य [[तक्षकः|तक्षक]]कार्यस्य च [[वाणिज्यम्|वाणिज्यस्य]] निर्वहणार्थं [[बर्मा]]देशम् (इदानीन्तनः [[मयन्मार्]]-देशः) अगच्छत् । तत्र गत्वा अपि अरण्येषु पक्षिवीक्षणं कुर्वन् अटितवान् । अतः वाणिज्यं तत्रैव परित्यक्तम् अभवत् । अनन्तरं सः डा. सलीम् आलि [[बर्लिन्]]-देशे प्रख्यातस्य पक्षिविज्ञानिनः स्ट्रीस्मानस्य मार्गदर्शने पक्षिविज्ञानस्य अध्ययनम् अकरोत् । स्वप्रयत्नेन एव प्राणिविज्ञानम् अपि अधीतवान् । ततः प्रत्यागमनस्य अनन्तरम् अपि तेन डा. सलीम् आलिना योग्यः उद्योगः न प्राप्तः एव । पत्न्या प्राप्यमाणेन अल्पेन एव आयेन तस्य कुटुम्बस्य निर्वहणं प्रचलति स्म ।
 
एषः डा. सालिम् अलिः स्वस्य गृहस्य पुरतः विद्यमाने [[वृक्षः|वृक्षे]] निवसतां "वीवर्” पक्षिणां विषये सम्यक् अध्ययनं कृत्वा १९३० तमे वर्षे सविवरणं पुस्तकं प्रकाशितवान् । तत् पुस्तकं बहु प्रसिद्धम् अभवत् । तम् एव अवसरम् उपयुज्य "बाम्बे नाचुरल् हिस्टरि म्यूसियं” मध्ये विना वेतनं कार्यम् आरब्धवान् । तदनन्तरं रजाश्रये स्थितानि बहूनि संस्थानानि एतं डा. सालिम् अलिम् आहूय तत्तत्-राज्यस्य पक्षिसङ्कुलानाम् आवलिं कर्तुम् अवदन् । सः डा. सालिम् अलिः अपि प्रियं कार्यं श्रद्धया अकरोत् । वेतनं न प्राप्तं चेत् अपि कार्यं न स्थगितवान् । कालक्रमेण पुरस्काराः, प्रशस्तयः , अभिनन्दनानि च तम् अन्विष्य आगतानि । तेन डा. सलीम् आलिना '''“जे.पाल्गट्टि अन्ताराष्ट्रिया प्रशस्तिः”, अन्ताराष्ट्रियायाः परिसर–संरक्षण–संस्थायाः "दि गोल्डन् आर्क्” प्रशस्तिः, ब्रिटिष् पक्षि–विज्ञान-संस्थायाः सुवर्णपदकः, भारतसर्वकारस्य "पद्मश्रीः” प्रशस्तिः, भारतसर्वकारस्य एव "पद्मविभूषण" प्रशस्तिः''' च प्राप्ताः आसन् । एषः डा. सलीम् आलि १९८५ तमे वर्षे राज्यसभाम् अपि प्रविष्टवान् । अयं डा. सलीम् आलि एस. डिल्लानेन सह मिलित्वा '''“भारतपाकिस्तानयोः पक्षिणां करपुस्तकं”''' (The Handbook of birds of India and Pakistan) दशसु सम्पुटेषु प्रकाशयत् । '''“सिक्किं तथा कच् प्रदेशस्य पक्षिणः”''' इति सचित्रं पुस्तकम् अपि प्रकाशयत् । एषः डा. सालिम् अलिः ९१ तमे वयसि, १९८७ तमे वर्षे प्रास्ट्रेट्-क्यान्सर् इति रोगेण मृतः ।
 
[[वर्गः:पक्षिशास्त्रज्ञाः]]
"https://sa.wikipedia.org/wiki/डा_सलिम_अलि" इत्यस्माद् प्रतिप्राप्तम्