"द्रौपदी" इत्यस्य संस्करणे भेदः

(लघु) clean up using AWB
(लघु) →‎पूर्ववृत्तान्तः: clean up, replaced: , → , (2) using AWB
पङ्क्तिः १२:
कदाचित् श्रीकृष्णपरमात्मः सत्यभामया सह पाण्डवान द्रष्टुं बनम् आगतवान । तदा सम्भाषणसमये सत्यभामा द्रौपदीं पृच्छति अनुजेः अहं पश्यन्ती अस्मि भवात्याः वीराः शूराः पतयः सर्वदा भवत्याः अधीनाः एव तिष्ठन्ति । कारणं किम् ? भवति किमपि यन्त्र मन्त्रं औषधं किमपि जानाति वा ? अथवा जपः तपः होमः व्रतः अथवा विद्यया तान् वशीकृतवति वा ? तथा किमपि उपायमस्ति चेत् माम् अपि पाठयतु । येन भगवान् श्यामसुन्दरः अपि मम वशः भवेत् । इति । तदा द्रौपदी वदति यत् 'भवत्याः एतादृशाः अनुमानाः सम्यक् न । यतः भवति बुध्दिमती श्रीकृष्णस्य राज्ञी च अस्ति । पत्नी स्वं वशीकर्तुं यन्त्र मन्त्रस्य प्रयोगान् करोति इति यदा पतिः जानाति सः तया सह इतोऽपि दूरः एव भवति । एतेन अनर्थः एव भवति । अतः कदापि पत्न्या पत्युः अप्रियं न करणीयम् इति अनन्तरं स्वस्य पतीनां सन्तोषार्थं सा किं किं करोति इत्यपि द्रौपदी विवृतवती । सा वदति यत् अहम् अहङ्कारस्य कामक्रोधस्य परित्यागं कृत्वा जागरुकतया सर्वेषां पाण्डवानां तेषां पत्नीनां च सेवां करोमि । असूयातः सर्वदा दूरे तिष्ठामि । कठोराणि वचनानि न वदामि । असभ्यतां न दर्शयामि, असत्यं न वदामि । दुःस्थाने न उपविशामि । अनुचितानि आचरणानि न आचरामि । पतीनां अभिप्रायं ज्ञात्वा तम् अनुसरामि । देवः मनुष्यः, गन्धर्वः युवकः धनिकः रुपवान् कोऽपि पुरुषः भवतु, मम मनः पाण्डवान् विहाय अन्यत्र न् गच्छति । पतीनां भोजनस्य विना अहं भोजनं न करोमि । तेषां स्नानपर्यन्तम् अहम् स्नानं अ करोमि तेषाम् उपवेशनं विना अहं न उपविशामि । पतयः यदा गृहम् आगच्छान्ति तदा अहं स्थित्वा एव आसन्दं जलं च ददामि । गृहस्य पात्राणि स्वच्छं स्थापयामि । रुचिकरं पाकं करोमि । समये भोजनं ददामि । गृहे धान्यानां रक्षणां करोमि । गृहस्य स्वच्छतां सर्वदा रक्षयामि । अहं सम्भाषणे कस्यापि तिरस्कारं न करोमि । व्यभिचारीस्त्रीणां समीपं न गच्छामि । पत्युः अनुकूला सती आलस्येन दूरे एव भवामि । वारं वारं गत्वा द्वारे न तिष्ठामि । यत्रकुत्रापि अवकरं न क्षिपामि । सर्वदा सत्यं वदामि । पतिं विहाय एकाकिनी स्थातुं नितरां न इच्छामि । कौटुम्बिककारणतः यदा पतिः बहिः गच्छति तदा अहं पुष्पं चन्दनं च त्यक्त्वा नियमान् व्रतान् पालयन्ती समयं यापयामि । यं पदार्थं मम पतिः न खादति, न पिबति तं पदार्थं अहमपि त्यजामि । स्त्रीणां निमित्तं शास्त्रं यं विषयं ज्ञापयति तं सर्वम् अहं पालयामि । प्राप्तेन वस्त्रालङ्कारेण शरीरं सुन्दरं स्थापयामि । सर्वदा जागरुका भूत्वा पत्युः प्रीतिं करोमि ।
 
कुटुम्बसम्बन्धे श्वश्रूः यं धर्मं सूचितवती अस्ति तं सर्वं पालयामि भिक्षादानं पूजा, श्राध्दः पर्वेषु धृतेन खाद्यनिर्माणं, नारी सम्माननं मम याः धर्माः सन्ति तान जागरुकतया दिनरात्रौ आचरामि । मम दृष्टया पत्युः अधिनमेव रत्रीणां योग्यम् । सः एव तस्याः इष्टदैवः । अहं कदापि पतीनाम् अपेक्ष्या श्रेष्ठा न भवामि । तेषाम् अपेक्ष्या उत्तमं भोजनं न करोमि । तेषाम् अपेक्षया उत्तमं वस्त्रं न धरामि । कदापि श्वश्रवा सह वादविवादं न करोत्मि । सर्वदा संयमं पालयामि । अहं सर्वदा मम पतीनाम् अपेक्षया शीघ्रम् उत्तिष्ठामि । ज्येष्ठानां सेवां करोमि । वस्त्राभूषणे वा भोजने वा कदापि मम निमित्तं किमपि विशेषं न स्थापयामि । पूर्वं महाराजः युधिष्ठिरस्य समीपे दशसहस्त्राः सेविकाः आसन् महयम् सर्वा परिचिताः आसन् । कः किं कुर्वन् अस्ति इति ध्यानं भवति स्म । तदा एकलक्षम् अश्वाः , गजाः आसन् । तेषां व्यवस्याम् आवश्यकताम् अहमेव पश्यामि स्म । अन्तः पुरस्य गोपानां मेषपालानां सेवकानां कार्यविचारणाम् अहमेव करोमि स्म ।
 
महाराजस्य आयव्ययस्य विवरणम् अहमेव स्थापयामि स्म । पाण्डवाः कुटुम्बदायित्वं मम उपरि त्यक्त्वा पूजायां पाठने, अतिथि सत्कारे भवन्ति स्म । तेषां अखण्ड कोषस्य परिचयः केवलं महयम् आसीत् । पिपासां बुभुक्षां निद्रां त्यक्त्वा कार्येमग्नाः भवामि स्म । सत्यभामा । पतिं गृहीतुं अहं एतम् उपायमेव कृतवती इति वदति । आदर्श पत्नी कथं भवेत् इति द्रौपद्याः जीवनेन पठितुं शक्यते ।
 
द्रौपद्यां क्षत्रियोचितः तेजः भक्तोचिता क्षमा एतयोः च अभूतपूर्वं सम्मिश्रणमासीत् । एषा बहु बुध्दिमती विदुषी च आसीत् । श्रेष्ठ पतिव्रतायाः द्रौपद्याः त्यागः अपि अदभुतमासीत् । यदा दुःश्शसनः एतस्याः केशान् गृहीत्वा आकृष्य सभाम् आनीतवान् तदा एषा स्वस्य पतीनां कोपं दर्शयित्वा तं भायितवती । द्रोणं भीष्मं विदुरादयः गुरुजनान स्वस्य साहाय्यार्थं न्यायार्थं च प्रार्थितवती । महाराजः युधिष्ठिरः स्वस्य पराजयानन्तरं माम् पन्धे पणे स्थापितवान अस्ति स्वतः पराजितैः तस्मै एषः अधिकारः कुतः आगतः ? इति पृष्टवती । सर्वे सभासदस्याः मौनमेव आश्रितवन्तः । अन्ते दुर्योधनस्य अनुजः विकर्णः उत्याय ,मौनं त्यक्त्वाअ सम्भाषणं कुर्वन्तु । द्रौपदी तु पञ्चपाण्डवानां पत्नी अस्ति । युधिष्ठिरस्य एकाकी एव तां पणाय स्थापयितुं अधिकारः नास्ति एव द्वितीयं एषः स्वस्य पराजयानन्तर द्रौपदीं पणाय स्थापितवान् अस्ति । अत्रापि तस्य अधिकारः नासीत् इति विकर्णः बादं कृतवान् । विदुरः अन्यसभासदाः अपि एतस्य समर्थनं कृतवन्तः । किन्तु कर्णः कोपेन सर्वान् उपवेशितवान् । अन्ते विदुरस्य बुध्दिवचनं श्रृत्वा धृतराष्ट्रः दुर्योधनं तर्जियित्वा द्रौपद्याः प्रसन्नतार्ये तस्य पतीनां दास्यमोचनं कृतवान् । अन्यद किमपि वरं पृच्छ्तु इति धृतराष्ट्रः द्रौपदीं यदा वदति तदा तस्याः अत्तरं तु योग्यमेव आसीत् । सा वदति यत् दुराशा उत्तमं न । इतोऽपि पृष्टुम अहं नितरं न इच्छामि । दास्ययुक्ताः मम पतयः अवशिष्टं सर्वं ते स्वयं कर्तुं समर्याः सन्ति इति । एवं अपमानिता चेदपि स्वस्य पातिबत्यबलेन नैतिकविजयं प्राप्य पतीनामपि दास्यमोचनं कृतवती ।
 
किञ्चित् कालपूर्व्ं राजसूययागे अवभृय स्नानसमये मन्त्रोक्तेन पवित्रजलेन अभिषेकः कृतः स्वस्य धीर्घं केशराशिं दुष्टः दुःश्यासनः पूर्णसभायां आकृष्टवान् । एतां घटनां द्रौपदी कदापि न विस्मृतवती । अपमानस्य ज्वाला तस्याः ह्रुदये सर्वदा ज्वलति स्म । अग्रे यदा यदा कौरवैः सह सन्धिप्रसङ्गम् आगच्छति तदा तदा एषा स्वस्य अपमानस्य स्मरणं कारयित्वा युध्दाय प्रोत्साहं कुर्वती आसीत् । अन्ते एकवारं श्रीकृष्णपरमात्मः एव सन्धितिमित्तं हस्तिनापुरं गच्छेत् इति यदा तीर्मानं कृतवन्तः तदापि एषा स्वस्य दीर्धान् केशान् ह्स्ते स्वीकृत्य दर्शयन्ती श्री कृष्णं वदति यन् भवान् सन्धिकार्यमध्ये मम केशान् न विस्मरतु । पाण्डवाः युध्दं कर्तुं न इच्छन्ति चेत न कुर्वन्तु । किन्तु स्वस्य महारथी पुत्रैः सह मम पिता कौरवाणां विरुध्दं युध्दं करोति । मम पञ्चपुत्राः अभिमन्युः अपि युध्दं कुर्वन्ति इति ।
"https://sa.wikipedia.org/wiki/द्रौपदी" इत्यस्माद् प्रतिप्राप्तम्