"गुरु गोविन्द सिंह" इत्यस्य संस्करणे भेदः

(लघु) clean up using AWB
(लघु) clean up, replaced: , → , (2) using AWB
पङ्क्तिः ५:
==बाल्यम्==
[[File:GuruGobindBirthPlace.jpg|thumb|right|300px|गुरुगोविन्दसिंहस्य जन्मस्थानम्]]
गुरुगोविन्दस्य बाल्ये जाता काचित् घटना । औरङ्गजेबस्य अत्याचारान् सोढुम् अशक्ता: केचन काश्मीरब्राह्मणाः गुरुतेजबहदूरस्य समीपमागतवन्तः । तेभ्यः अत्याचारेभ्यः विमोचनं प्राप्तुं 'कमपि उपायं सूचयतु' इति प्रार्थितवन्तः । गुरुतेजबहदूरः विचारे मग्नः । पितरं विचारमग्नं दृष्ट्वा बालः गोविन्दसिंहः कारणं पृष्टवान् । गुरुतेजबहदूरः -"कस्यापि महापुरुषस्य आत्मसमर्पणेनैव एषा समस्या परिहृता भविष्यति"इति विवृतवान् । तस्या: समस्याया: परिहारं सूचयितुम् इव बालगोविन्दः अवदत् -"भवतः अपेक्षया महापुरुषः अन्यः अपेक्ष्यते किम् ?" इति । तदा गोविन्दस्य वयः केवलं नववर्षाण्येव । एतावति लघुवयसि तस्य मनोस्थैर्यं ,दृढविश्वासं स्पष्टं वच: दृष्ट्वा श्रुत्वा च गुरुतेजबहदूरस्य हृदये आनन्दतरङ्गा: उद्भुता:। तदनन्तरं देहल्यां गुरुतेजबहदूरस्य आत्मसमर्पणं नूतनेतिहासम् एव अजनयत् । गुरुपीठस्वीकरणात् पूर्वमेव गुरुगोविन्दस्य एतादृशदूरदृष्टिः आसीत् । पितरमेव समर्पयितुं सिद्धः एषः वीरकिशोरः एतामेव भावनां स्वकुटुम्बजनानां मनस्सु अपि दृढमारोपितवान् ।
गुरुगोविन्दस्य द्वौ पुत्रौ हसन्तौ एव युद्धरङ्गे कूर्दनं कृतवन्तौ । अन्यौ द्वौ कनिष्ठपुत्रौ सजीवसमाधिं प्राप्तवन्तौ । तयोः मुखतः 'परित्रायताम्’ इति बाधाकरः दीनः आर्तस्वरः अपि न निर्गतः । तथा स्वकुटुम्बं सर्वमपि समर्प्य समाजस्य पुरतः, देशस्य पुरतः एकम् आदर्शं स्थापितवान् गुरुगोविन्दसिंहः । तावदेव न संन्यासं, वैराग्यं प्राप्तवतः एकस्य युवकस्य हृदये नवीनमुत्साहं, सम्यग्जीवनदृष्टिं च सः निर्मितवान् ।
अनन्तरकाले सः युवक एव बन्दाबैरागी भूत्वा विदेशीयसर्वकारस्य यमराजः जातः । देशहितार्थं सर्वस्वार्पणे एव स्वजीवनसाफल्यमस्तीति अनुभूतिं प्राप्तवान् च ।
पङ्क्तिः ५९:
गुरुगोविन्दसिंहः सर्वामपि हिन्दुशक्तिं सङ्घटितवान् इत्यत्र शैव-शाक्तेय-वैष्णव-साहित्यानुवादः प्रमाणरूपेण दृश्यते । तस्य स्वभावोऽपि अद्वितीयः अस्ति । सः कश्चन भक्तः । अन्यायं विरुद्ध्य प्रजाभिः कर्तव्यस्य उद्यमस्य महानायकः अपि सः । सूरदासः, कबीरदासः, गुरुनानकः इत्यादयः सर्वेऽपि भक्ता एव । किन्तु गुरुगोविन्दसिंहः वीरत्वयुक्तः भक्तः । एवमेव मानवाः सर्वे समाना इति, सर्वेषां हृदयेषु एकम् एव भगवतः ज्योतिः ज्वलतीति तस्य अचलः विश्वासः।
==रणोत्साहः==
गुरुगोविन्दसिंहस्य जीवनसमये देशः महत्यां विपदि आसीत् । विदेशीयानाम् आक्रमणमारभ्य ६०० वर्षाणि अतीतानि । प्रजानाम् उपरि अत्याचारैः कञ्चित्कालं, सङ्घर्षणैः कञ्चित्कालं, मध्ये ,मध्ये सज्जनत्वेन च कञ्चित्कालं देशे विदेशीयानां शासनं प्रचलितम् । स्वीयां सर्वां शक्तिं भारतदेशसंस्कृतेः धार्मिकविश्वसानां विनाशायैव उपयुक्तवतां औरङ्गजेब- इत्यादीनां शासनं प्रचलितम् । तादृशस्थितौ तां राक्षसशक्तिं निग्रहीतुं देशप्रजानां पालने पीड्यमानजनानां सङ्घटनं रचितवान् । सामान्यजनानां विचारेषु परिवर्तनस्यैव सः अधिकप्राधान्यं दत्तवान् । आत्मविस्मृतिं दूरीकृत्य तेषु आत्मविश्वासं जनयितुं सः "लक्षेणापि जनैः एको भूत्वा युद्धं कुरु" इति रूपेण उत्साहं जनितवान् ।
अत एव भारतदेशेतिहासे तस्य विशिष्टं स्थानं कल्पितमस्ति ।
 
"https://sa.wikipedia.org/wiki/गुरु_गोविन्द_सिंह" इत्यस्माद् प्रतिप्राप्तम्