"विकिपीडिया:नवागतेभ्यः परिचयः" इत्यस्य संस्करणे भेदः

पङ्क्तिः ४९:
=== सञ्चिका आरोप्यताम् (संचिकाम् उद्भारयतु) ===
 
सञ्चिका तु फ़ाइल् (File) इति। चित्राणि, सङ्गीतांशाः, चलचित्राणि चेत्यादीनि सङ्गणकेषु सञ्चिकारूपेण एव वर्तन्ते। विकिपीडियायां लेखेषु समये समये चित्राणां, सङ्गीतांशानां, चलचित्रादीनां वा आवश्यकता भवति। कुत्रतःकुतः आगच्छन्ति खलु तानि चित्रादीनि?[[File:example.png|thumb|right|alt=उदाहरणरूपेण दर्शितं चित्रम्।|उदाहरणं दृश्यते अत्र]] अथ तानि चित्रादीनि बहुसुबहुषु अन्येषु जालस्थलेषु (on websites) यदा कदा प्रतिलिप्यधिकारमुक्तानि विद्यन्ते (एतन्नाम सुपरीक्षणीयम्), अथवा सदस्येभ्यः स्वयमेव रच्यन्ते। अत्र पार्श्वे उदाहरणरूपेण चित्रमेकं दर्शितमस्ति।
 
एतादृशानि चित्रादीनि तु लेखेषु प्रयोक्तुं, प्रथमं '''विकिपीडिया संजालस्थलं प्रति''' (sa.wikipedia.org इत्यस्मिन्) अथवा '''विकिमीडिया कॉमन्स इत्यस्य सञ्जालस्थलं प्रति''' (http://commons.wikimedia.org/wiki/Main_Page इत्यस्मिन्) नेतव्यानि, तर्हि तेषां प्रयोगः लेखेषु कर्त्तुं शक्यते। किञ्चित्सञ्जालस्थलं प्रति तेषाम् आनयनं तु उद्‌भारणम् इति उच्यते अस्माभिः। तस्मात् "'''संचिकाम् उद्भारयतु'''" इति वाक्यमवाप्तम्। परन्तु सञ्चिकायाः उद्‌भारणात् पूर्वं तस्याः प्रतिलिप्याधिकारः (अप्युक्तः सर्वाधिकारः, कॉपीराइट् वेति) सम्यक् परीक्षणीयम्। चेत् सा कृतिः तु मुक्ताधिकारा न अस्ति तदा नैव तस्याः प्रयोगः कर्त्तव्यः, नैव च सा उद्‌भारितव्या।
 
उद्‌भारणार्थं भवान् सञ्चिकाम् उद्‌भारयतु इत्यस्मिन् क्लिक्करोतु। तेन नवीनमेकं पृष्ठं उद्‌घाट्यते। तस्मिन् "Choose File" इत्येतद् दृश्यते। तत्र क्लिक्कृत्य भवानेकं सञ्चिका-चयन-गवाक्षं प्राप्नोति। तत्र सञ्चिकां चित्वा भवान् Open इत्यत्र क्लिक्करोतु, सञ्चिका-विषये च वाञ्छितां सूचनां यथास्थानं ददातु। पुनश्च तत्र संचिकाम् उद्भारयतु इत्यस्मिन् क्लिक्करोतु। भवतः सञ्चिका यथानाम विकिपीडियायांविकिपीडियायाम् उद्भारिता भवति। भवता तस्याः सञ्चिकायाः यथेष्टं प्रयोगं कर्त्तुं शक्यते।
 
=== विशिष्ट-पृष्ठाणि ===
"https://sa.wikipedia.org/wiki/विकिपीडिया:नवागतेभ्यः_परिचयः" इत्यस्माद् प्रतिप्राप्तम्