"चार्वाकदर्शनम्" इत्यस्य संस्करणे भेदः
Content deleted Content added
No edit summary |
No edit summary |

पङ्क्तिः १:
{{हिन्दूधर्मः}}
चार्वाकदर्शनं (Cārvāka Darshan) किञ्चन विभिन्नं दर्शनम् अस्ति । चिन्तनगाम्भीर्यदृष्ट्या पश्यामः चेत् ज्ञायते यत् निम्नस्तरीयं [[दर्शनम्|दर्शनं]] चार्वाकदर्शनम् इति । [[बृहस्पतिः]] एव जनान् मोहयितुं प्रियकरैः वचनैः चार्वाकमतम् उपदिष्टवान् इति श्रूयते । चार्वाकदर्शनस्य मूलग्रन्थः इदानीं न उपलभ्यते । चार्वाकदर्शनं धर्माधर्मादीनां, पापपुण्यादीनाम् आत्मादीनां वा अस्तित्वं न अङ्गीकरोति । चार्वाकाः भोगवादं विशेषतः पुरस्कुर्वन्ति ।
अस्य दर्शनस्य सूत्रकारः बृह्स्पतिः नाम आचार्यः भवति । दर्शनस्यास्य प्रचारकः चार्वाको नाम दैत्यः आसीत् इत्यतः अस्य दर्शनस्य चार्वाकदर्शनमिति ख्यातिः । चार्वाकदर्शनानुसारं मरणमेव [[मोक्षः]] । मरणात् परं किमपि नास्ति इति ते वदन्ति । परलोकं पुनर्जन्म च न अङ्गीकुर्वन्ति ते । ‘भस्मीभूतस्य देहस्य पुनरागमनं कुतः ?’<ref>चार्वाकदर्शनम्</ref> इति ते पृच्छन्ति च । तेषां तु शरीरमेव आत्मा शरीरभिन्नः कश्चिद् आत्मा नास्ति । एतत् चार्वाकदर्शनं लोके बाहुल्येन प्रचलितत्वात् लोकायतदर्शनम् इत्यपि नाम प्राप्तम् । प्रत्यक्षं तेषाम् एकमात्रं प्रमाणम् ।
:'''यावज्जीवं सुखं जीवेत् नास्ति मृत्योरगोचरः ।'''
पङ्क्तिः ८:
लोकगाथामनुसन्दधाना नीतिकामशास्त्रानुसारेण अर्थकामावेव पुरुषार्थौ मन्यमानाः पारलौकिकमर्थम् अपह्नुवानाः चार्वाकमतम् अनुवर्तमानाः एवानुभूयन्ते । स.द. संग्रहः ॥
पृथिवी-अप्- तेजो-वायु -रूपात्मकं शरीरमेव आत्मा, न तु शरीरातिरिक्तः आत्मा वर्तते । प्रत्यक्षमेव प्रमाणम् ।
: क) पृथिव्यप्तेजोवायवः तत्त्वानि ।
पङ्क्तिः २२:
::..........................(सं.द.सं)
दर्शनशास्त्रे प्रमेयतत्त्वानां सम्बन्धे इदमेव तथ्यं घटते । सृष्टि-स्रष्टा-प्रभृतीनि तत्त्वानि विविधदर्शनेषु
भारतीयदर्शने एकः सम्प्रदायविशेषः उपर्युक्तमतेन सहमतो नास्ति । तस्य विचारणा विद्यते यत् सृष्टेर्यत् स्थूलं रूपं दृश्यते तदेव सत्यमस्ति । दृश्यमाणस्वरूपापेक्षया किमपि अन्यत् तत्त्वं सूक्ष्मरूपेण सृष्टिमूले वर्तते इति
अयं संशयः सन्देहवादो वा यद्यपि महाभारतकालात्पूर्वमपि विद्यमान आसीत् येन वैदिक दर्शनानि पर्याप्तं क्षतिग्रस्तानि अभवन् । यद्यपि महाभारतकाले भगवद्गीताया माध्यमेन वैदिकदर्शनस्य पुनः प्रतिष्ठापना विहिता, तथापि वेदविरोधिविचाराणां मूलोच्छेदनं नैव जातम् ।
अनुमानापेक्षया शब्दप्रमाणेनैव सृष्टितत्त्वानां प्रामाण्यं गृह्यते ।

सृष्टितत्त्वानां प्रामाण्यम् अनुमानापेक्षया शब्दप्रमाणेन सुतरां गृह्यते । वेदाः शब्दप्रमाणरूपाः वर्तन्ते । वैदिकवाक्यैरेव दर्शनोक्तानां जीव-जगत्-ईश्वर-ब्रह्मादितत्त्वानां प्रामाणिकता सिद्ध्यति । पुनरपि अवैदिकदर्शनेषु वेदानां प्रामाण्यं स्वीकृतं नास्ति । अवैदिकदर्शनेषु चार्वाक-जैन-बौद्धाः प्रमुखाः सन्ति । एष्वपि जैन-बौद्धयोः तत्त्वचिन्तने सूक्ष्मा दृष्टिरस्ति । चार्वाकस्तु पूर्णतया स्थूलदृष्टिरस्ति ।

दर्शनशास्त्रस्येतिहासे चार्वाकदर्शनस्य आद्यं स्थानमस्ति । अनेन चार्वाकदर्शनस्य प्राचीनताऽपि सिद्ध्यति । अस्य प्राचीनतया इदमपि स्पष्टीभवति यत् यथा यथा मानवसभ्यताया विकासो जातः तथा तथा तस्याः संस्कृतौ आचारविचारयोश्च परिष्कारो बभूव । सभ्यतया विकासेन सह सृष्टिविज्ञानादयो दार्शनिकसिद्धान्ता अपि सूक्ष्मतत्त्वानुसन्धाने प्रवृत्ता भवितारः, किन्तु सभ्यतायाः प्रारम्भे दर्शनशास्त्रस्य स्थूलतत्त्वानि प्रचलितानि स्युरित्यपि पन्तुं शक्यते ।

यदि चार्वाकाः स्थूलविचारपर्यन्यतमेवात्मनः चिन्तनस्य श्रेयस्करत्वं मन्यन्ते तर्हि को दोषः? वस्तुतः
प्रारम्भे इदं दर्शनं लोकायतनाम्ना प्रसिद्धमासीत् ।
देवगुरुः बृहस्पतिरेव अस्य मतस्य प्रवर्तनं कृतवान् । बृहस्पतिप्रवर्तितेऽस्मिन् दर्शने
चार्वाकसिद्धान्तस्योल्लेखो रामायणमहाभारतयोरपि उपलभ्यते । वाल्मीकीयरामायणे लोकायतिकानां प्रसङ्गोऽस्ति । लोकायतिकाः मिथ्यावादिनः आसीत् । महाभारते '''देह एव आत्मा''' इति सिद्धान्तवादिनां लोकायतिकानां सिद्धान्तानां प्रतिपादनप्रसङ्गे चतुर्भ्यो भूतेभ्योः चैतन्यस्य उत्पत्तिः, प्रत्यक्षमात्रस्य प्रामाण्यञ्च प्रतिपादिते ।

चार्वाकदर्शनस्य मूलग्रन्थः सूत्रशैल्याम् उपनिबद्ध आसीत् । अस्य रचना आचार्येण बृहस्पतिना विहिता । अस्य तथ्यस्योल्लेखः प्राप्यते, किन्तु सः सूत्रग्रन्थोऽनुलब्धोऽस्ति । डाँ. उमेशमिश्रेण चार्वाकदर्शनस्य पञ्चदशसूत्राणि
==चार्वाकदर्शनस्य तत्त्वमीमांसा==
एभ्य एव मूलतत्त्वेभ्यः अस्य दृश्यमाणस्य जगतः शरीरस्य ज्ञानेन्द्रियाणां कर्मेन्द्रियाणाञ्चोत्पत्ति- र्भवति । उत्त्पत्तेः क्रमसन्दर्भे चार्वाकः मौनमस्ति । सृष्टौ कस्यापि अदृष्टस्य कुत्रापि कारणता नास्ति । अतएव इदं ज- गत् चतुर्ण्णां भूतानाम् आनुपातिक-समन्वयस्य आकस्मिकः परिणामोऽस्ति ।

जीवनस्य
चार्वाकदर्शनस्य विकासक्रमे स्थूलात् सूक्ष्मं प्रति तत्त्वचिन्तनस्य प्रवृत्तिर्जाता । अतः परवर्तिभिः कैश्चित् चार्वाकैः इन्द्रियाण्येवात्मा इति सिद्धान्तमुपस्थाप्य देहात्मवादस्य खण्डनं कृतम् । कैश्चिदाचार्यैः प्रामाण्यवा- दस्यपि स्थापना कृता । केचन चार्वाकाः मनः एव आत्मेति साधयामासुः । तथापि चार्वाकमतानुयायिनां स्थूला दृ- ष्टिरन्तर्मुखी न सञ्जाता ।

==चार्वाकस्य प्रमाणमीमांसा==
चार्वाकदर्शने प्रमेयतत्त्वानां स्थूलं स्वरूपमेव वास्तविकं स्वीकृतम् । अतः स्थूलपदार्थानां ज्ञानाय तत्र प्रत्यक्षमेवोपयुक्तम् अमन्यत । ये
सर्वेषु भारतीयदर्शनेषु इन्द्रियातीतानां परोक्षणाञ्च पदार्थानां ज्ञानाय अनुमानस्य प्रामाण्यं स्वीकृतं, किन्तु चार्वाकमतेऽनुमानस्य प्रामाण्यं नास्ति । यतो हि अनुमानजन्यं ज्ञानं
पापपुण्ययोः कृते सदसत्कर्मणां व्याप्तिं नैयायिका अपि स्विकुर्वन्ति, किन्तु तेषामेषा व्याप्तिः सिद्धा नास्ति । यतो हि कस्यपि कार्यस्य उत्पतौ किमपि कारणं नैव भवति । स्वभावेनैव कार्यस्य निष्पत्तिर्भवति । अन्यथा कण्टकेषु दृश्यमानायाः तीक्ष्णतायाः को हेतुरीति तत्त्वान्वेषणे कश्चिद् हेतुरवश्यमुपलभ्येत । स च हेतुलभते एव न, अतः कार्यकारणभावस्य सिद्धौ अपि हेत्वभावो दृश्यते ।

सृष्टिप्रलययोरपि कार्यकारणभावो नास्ति । चतुर्ण्णां भूतानाम् आनुपातिकसम्मिश्रणादेव जगत् स्वयमेवास्तित्वम् आप्नोति । तस्य चानुपातिकस्थितेर्विलयात् प्रलयो भवति । किन्तु जगतः आविर्भावतिरोभावौ प्राणिपदार्थानां संयोगवियोगौ च स्वाभाविकावेव स्तः । कार्यकारणयोः साहचर्यस्य सिद्धेरभावात् अनुमानानां प्रमाणं नास्ति, कार्यकारणभावोऽप्यसिद्धोऽस्ति ।

चार्वाकदर्शने
:त्रयी वेदस्य कर्त्तारो भण्ड-धूर्त्त-निशाचराः ।
:जर्फरी-तुर्फरीत्यादि पण्डितानां वचः स्मृतम् ॥
==चार्वाकदर्शनस्य आचारमीमांसा==
यथा अर्थस्य महत्ता मानवजीवने स्वीकृता, तथैव शरीरेन्द्रियाणां कृते ये विषयाः सन्ति तेषां यथेच्छमुपभोगे एव शरीरस्य उपयोगिता लक्ष्यते तस्मात् कामोऽपि पुरुषार्थोऽस्ति । कामस्यसेवनं विना शरीरं निरुद्धेश्यं स्यात्, अर्थस्य सेवनं विना च जीवनं लोकव्यवहारो वा निरर्थकं स्यात् अत एव अर्थकामयोः पुरुषार्थरूपता सुसिद्धाऽस्ति । चार्वाकैः धार्मिकानुष्ठानां संस्काराणाञ्च क्रियाकलापेषु निस्सारतां
उदाहरणार्थं वैदिकयज्ञादिषु पशुबलिर्यदि स्वर्गं प्रददाति
चार्वाकदर्शने धर्माधर्मयोर्मान्यता नास्ति । न च
:यावज्जीवेत्सुखं जीवेत ऋणं कृत्वां घृतं पिबेत् ।
:भस्मीभूतस्य देहस्य पुनरागमनं कुतः ॥