"वैश्विकस्थितिसूचकपद्धतिः" इत्यस्य संस्करणे भेदः

No edit summary
No edit summary
पङ्क्तिः ३६:
=====उपग्रहैः त्रिपार्श्वीकरणम्=====
ग्राहकयन्त्रं कस्माच्चित् उपग्रहात् ११,००० मैल्परिमिते दूरे विद्यते इति चिन्त्यताम् । उपग्रहात् प्रसार्यमाणाः विद्युन्मानतरङ्गाः उपग्रहं परितः कस्मिंश्चित् काल्पनिकगोलरूपेण प्रसार्यते इति भाव्यताम् । अस्माकं ग्राहकयन्त्रात् ११,००० मैल्परिमिते दूरे विद्यते इत्यतः ग्राहकं ११, ००० मैल्-त्रिज्ययुतस्य गोलस्य उपरि बिन्दौ विद्यते इत्यर्थः । गोलस्य आवरणे असङ्ख्याः बिन्दवः विद्यन्ते । एषु असङ्ख्यबिन्दुषु प्रतिग्राहयन्त्रं कस्मिन् बिन्दौ विद्यते इति ज्ञातुम् अन्यस्य उपग्रहस्य सङ्केतान् उपयुज्य ततः स्वस्य दूरस्य मापनं करोति ।
 
ग्राहकयन्त्रम् अस्मात् उपग्रहात् १२,००० मैल्परिमिते दूरे विद्यते इति भाव्यताम् । अधुना ग्राहकयन्त्रं प्रथमे काल्पनिकगोलमात्रे एव न अपि तु १२,००० मैल्-त्रिज्ययुतस्य गोलस्य आवरणे अपि विद्यते इत्यवगतम् । इदं गोलद्वयं परस्परं छेदयतः । अस्मात् छेदात् गोलयोः उपरि यत् वृत्तं सम्भवेत् तस्य परिधौ विद्यमानेषु असङ्ख्यबिन्धुषु अन्यतमे बिन्धौ विद्यते ग्राहकयन्त्रम् । (इदं वृत्तं कल्पयितुम् एवं चिन्त्यताम् - कन्दुकद्वयं परस्परं प्रणुद्य तस्य स्पर्शबिन्धु
 
<!--
"https://sa.wikipedia.org/wiki/वैश्विकस्थितिसूचकपद्धतिः" इत्यस्माद् प्रतिप्राप्तम्