"वैश्विकस्थितिसूचकपद्धतिः" इत्यस्य संस्करणे भेदः

No edit summary
No edit summary
पङ्क्तिः ३२:
ग्राहकयन्त्राणां प्रमुखाः भागाः - एरियल्, ग्राहक-संस्करणव्यवस्था, सूक्ष्ममानस्फटिकान्दोलकः (Crystal Oscillator) च । एतानि यन्त्राणि वैश्विकस्थितिसूचकोपग्रहैः प्रसार्यमाणान् सङ्केतान् संस्कुर्वन्ति । सकृत् द्वादशतः विंशत्युपग्रहैः प्रसार्यमाणान् सङ्केतान् ग्रहीतुं समर्थानि भवन्ति चेदपि ततः गरिष्ठान् सङ्केतान् स्थाननिर्णयाय उपयुञ्जते ।
===कार्यनिर्वहणं कथम् ?===
====उल्लेखबिन्दुरूपेण उपग्रहाणाम् उपयोगः====
स्थाननिर्णयाय वैश्विकस्थितिसूचकोपग्रहाः उल्लेखबिन्दुरूपेण उपयुज्यन्ते । पूर्वोक्तरीत्या त्रिषु आयामेषु स्वस्य स्थानं निर्णेतुं त्रिभिः उपग्रहैः प्रसारितान् सङ्केतान् अपि च तस्य निर्णयस्य निर्दुष्टतायै अपेक्षितायाः समकालीनतायाः प्राप्त्यै च चतुर्थोपग्रहस्य सङ्केतान् उपयुङ्क्ते । एतत् कथमिति अधः विव्रियते ।
=====प्रथमं सोपानम्-उपग्रहैः त्रिपार्श्वीकरणम्=====
ग्राहकयन्त्रं कस्माच्चित् उपग्रहात् ११,००० मैल्परिमिते दूरे विद्यते इति चिन्त्यताम् । उपग्रहात् प्रसार्यमाणाः विद्युन्मानतरङ्गाः उपग्रहं परितः कस्मिंश्चित् काल्पनिकगोलरूपेण प्रसार्यते इति भाव्यताम् । अस्माकं ग्राहकयन्त्रात् ११,००० मैल्परिमिते दूरे विद्यते इत्यतः ग्राहकं ११, ००० मैल्-त्रिज्ययुतस्य गोलस्य उपरि बिन्दौ विद्यते इत्यर्थः । गोलस्य आवरणे असङ्ख्याः बिन्दवः विद्यन्ते । एषु असङ्ख्यबिन्दुषु प्रतिग्राहयन्त्रं कस्मिन् बिन्दौ विद्यते इति ज्ञातुम् अन्यस्य उपग्रहस्य सङ्केतान् उपयुज्य ततः स्वस्य दूरस्य मापनं करोति ।
 
Line ४० ⟶ ३९:
 
कस्मिंश्चित् निर्दिष्टे काले ग्राहकयन्त्रम् एकत्रैव भवितुम् अर्हति इत्यतः अनयोः कस्मिन् बिन्दौ विद्यते इति ज्ञातुं चतुर्थस्य उपग्रहस्य साहाय्यं प्राप्तुं शक्यम् । किन्तु तन्नापेक्ष्यते यतः बिन्दुद्वये एकः बिन्दुः अत्यधिके दूरे विद्यते, असम्बद्धवेगेन चल्यते इति भासते (उपग्रहसमूहस्य कारणतः, व्यवस्था जङ्गमशीला च इति कारणतः) इत्यतः इदं भ्रमजनकं बिन्दुं ग्राहकयन्त्रान्तर्गतं गणकयन्त्रं झटिति निराकरोति । एवं ग्राहकयन्त्रं स्वीयं स्थानं त्रिषु आयामेषु निर्णिनोति । चतुर्थोपग्रहात् दूरं मीयते चेदपि तस्य उपयोगः अन्यकारणाय एव भवति ।
====द्वितीयं सोपानम्-उपग्रहैः दूरस्य मापनम्====
उपग्रहैः प्रसार्यमाणानां तरङ्गणां वेगः ज्ञातपूर्वः इत्यतः उपग्रहेभ्यः आगताः तरङ्गाः ग्राहकयन्त्रं प्राप्तुं स्वीकृतः समयः ज्ञायते चेत् उपग्रह-ग्राहकयन्त्रयोः दूरं ज्ञातुं शक्यते ।
:वेगः X समयः = दूरम् इत्येतस्य सूत्रस्य आधारेण दूरम् अत्र गण्यते । वैश्विकस्थितिसूचकव्यवस्थायाम् अवास्तव-क्रमरहित-सङ्केताः(Pseudo Random Code) उपयुज्यन्ते । दूरस्य मापनाय उपग्रहस्य सङ्केताः ग्राहकयन्त्रस्य अवास्तव-क्रमरहित-सङ्केताः च स्वीकरणीयाः । सङ्केताः युगपत् आरब्धाः इति चिन्त्यताम् । उपग्रहस्य सङ्केताः ग्राहकयन्त्रं यदा प्राप्नुवन्ति तदा उपग्रहस्य क्रमरहितसङ्केताः कियता प्रमाणेन पृष्ठतः भवन्ति इत्यस्य मापनेन उपग्रहस्य सङ्केताः ग्राहकयन्त्रं प्राप्तुं कियान् समयः आवश्यकः अभवत् इति ज्ञायते, ततः दूरस्य मापनं शक्यम् ।
====तृतीयं सोपानम्====
विद्युन्मानतरङ्गाणां वेगः १८६,००० मैल्स्/सेकण्ड् विद्यते इत्यतः मापनं भवति कष्टसाध्यम् । ग्राहकयन्त्रस्य साक्षात् उपरि विद्यमानात् उपग्रहात् तरङ्गाणाम् आगमनाय ०.०६ क्षणमात्रं भवति । अतः समयस्य मापनाय उपग्रहे ग्राहकयन्त्रे च अत्यन्तं निर्दुष्टा घटी अपेक्षिता भवति । यतः अनयोः घट्योः १ मैक्रोक्षणस्य (१/१००० क्षणम्) भेदः भवति चेदपि स्थानस्य निर्देशने २०० मैल्परिमितः भेदः सम्भवति !
उपग्रहेषु अतिनिर्दुष्टाः अणुघट्यः विद्यन्ते । किन्तु ग्राहकयन्त्रेषु अणुघट्यः योजयितुं न शक्यते यतः तेन घटीनां गात्रं मूल्यं च अत्यधिकं भविष्यति । अतः ग्राहकयन्त्रेषु विद्यमानानां स्फटिकघटीनां स्तरः केनचित् विशिष्टेन तन्त्रेण अणुघट्याः स्तरं प्रति उन्नीयते । इदं तन्त्रं वैश्विकस्थितिसूचकव्यवस्थायां प्रमुखं पात्रं वहति । वैश्विकस्थितिसूचकव्यवस्था मूलतः स्थाननिर्णयाय दिशाज्ञानाय उपयुज्यते चेदपि जगतः बहूनि ग्राहकयन्त्राणी समकालीकानि सन्ति इत्यतः अस्याः उपयोगस्य आयामाः असङ्ख्याः जाताः । गणकयन्त्रजालेषु, चलनचित्रोपकरणेषु, एटिएम् यन्त्रेषु च एककालिकतायाः प्राप्त्यर्थम् अस्याः व्यवस्थायाः उपयोगः आधिक्येन क्रियते ।
समयस्य निर्दुष्टतायाः सम्पादनाय उपयुज्यमानं तन्त्रं नाम चतुर्थोपग्रहात् दूरस्य मापनम् ! त्रिभिः उपग्रहैः दूरस्य मापनं कृत्वा आयामत्रये निर्दिष्टबिन्दोः स्थानं निर्दुष्टतया ज्ञातुं यथा शक्यं तथैव चतुर्थात् उपग्रहात् दूरमापनद्वारा ग्राहकयन्त्रस्य समयम् उपग्रहस्य समयानुगुणं योजयितुं शक्यते ।
 
 
<!--
 
ರಿಸೀವರ್ ಏಕಕಾಲದಲ್ಲಿ ಎರಡು ಕಡೆ ಇರಲು ಸಾಧ್ಯವಿಲ್ಲದ್ದರಿಂದ ಈ ಎರಡು ಬಿಂದುಗಳಲ್ಲಿ ರಿಸೀವರ್ ಇರುವ ಬಿಂದು ಯಾವುದೆಂದು ನಿರ್ಣಯಿಸಲು ನಾಲ್ಕನೇ ಉಪಗ್ರಹದಿಂದ ದೂರವನ್ನು ಅಳತೆ ಮಾಡಬಹುದಾದರೂ ಇದರ ಅಗತ್ಯವಿಲ್ಲ. ಏಕೆಂದರೆ ಈ ಎರಡು ಬಿಂದುಗಳಲ್ಲಿ ಒಂದು ಭೂಮಿಯಿಂದ ಅಸಾಧ್ಯವೆನಿಸುವಷ್ಟು ದೂರ ಅಥವಾ ಅಸಂಬದ್ಧ ವೇಗದಿಂದ ಚಲಿಸುತ್ತಿರುವಂತೆ ಭಾಸವಾಗುತ್ತದೆ (ಉಪಗ್ರಹ ಸಮೂಹ ಹಾಗು ವ್ಯವಸ್ಥೆ ಜಂಗಮಶೀಲವಾದುದರಿಂದ ಹೀಗಿರುತ್ತದೆ). ಆದುದರಿಂದ ಈ ಹುಸಿ ಬಿಂದುವನ್ನು ರಿಸೀವರ್ ಒಳಗಿರುವ ಗಣಕ ಯಂತ್ರವು ಕೂಡಲೇ ತ್ಯಜಿಸುತ್ತದೆ. ಈ ರೀತಿಯಲ್ಲಿ ರಿಸೀವರ್ ತನ್ನ ಸ್ಥಾನವನ್ನು ೩-ಆಯಾಮಗಳಲ್ಲಿ ನಿರ್ಣಯಿಸಿಕೊಳ್ಳುತ್ತದೆ. ನಾಲ್ಕನೇ ಉಪಗ್ರಹದಿಂದ ದೂರವನ್ನು ಅಳೆಯಲಾಗುತ್ತದಾದರೂ ಅದನ್ನು ಬೇರೆಯೇ ಒಂದು ಕಾರಣಕ್ಕಾಗಿ ಬಳಸಲಾಗುತ್ತದೆ.
ಸಮಯವನ್ನು ನಿಖರವಾಗಿ ಸರಿಪಡಿಸಲು ಬಳಸುವ ತಂತ್ರವೆಂದರೆ ನಾಲ್ಕನೇ ಉಪಗ್ರಹದಿಂದ ದೂರವನ್ನು ಅಳೆಯುವುದು! ಮೂರು ಉಪಗ್ರಹಗಳಿಂದ ದೂರವನ್ನು ಅಳೆದು ೩-ಆಯಾಮದಲ್ಲಿ ಒಂದು ಬಿಂದುವಿನ ಸ್ಥಾನವನ್ನು ನಿಖರವಾಗಿ ಅರಿಯಬಹುದಾದರೆ ನಾಲ್ಕನೇ ಉಪಗ್ರಹದಿಂದ ದೂರವನ್ನು ಅಳೆಯುವ ಮೂಲಕ ರಿಸೀವರ್ ಸಮಯವನ್ನು ಉಪಗ್ರಹದ ಸಮಯಕ್ಕೆ ಸರಿಹೊಂದಿಸಬಹುದು.
-->
==बाह्यसम्पर्कतन्तवः==
"https://sa.wikipedia.org/wiki/वैश्विकस्थितिसूचकपद्धतिः" इत्यस्माद् प्रतिप्राप्तम्