"बाल गङ्गाधर तिलक" इत्यस्य संस्करणे भेदः

पङ्क्तिः २१:
 
==राजकीयजीवनम्==
तिलकमहोदयेन उपक्रान्तः [[केसरी]] इति [[मराठीभाषा|मराठीभाषायाः]] [[वार्तापत्रिका]] अतिशीघ्रं प्रसिद्धा अभवत् । अस्यां पत्रिकायां जनाः स्वाभिप्रायान् प्रकटयितुम् अर्हन्ति स्म । क्रि.श. १९०५तमे वर्षे [[बङ्गालराज्यम्|बङ्गालस्य]] विभजनस्य विरोधं केसरीपत्रिका प्रबलतया अकरोत् । क्रि.श.१८९०तमे वर्षे तिलकमहोदयः काङ्ग्रेस् पक्षं प्रविष्टवान्, स्वातन्त्र्यान्दोलने तस्य पक्षस्य औदार्यं मृदुनीतिं च खण्डितवान् । [[गोपाकृष्ण गोखले]]महोदयस्य सौम्यवादं तीव्रतया निन्दितवान् । अस्मिन् विषये [[बङ्गालराज्यम्|बङ्गालस्य]] [[बिपिन चन्द्रपालः]] [[पञ्जाबराज्यम्|पञ्जाबस्य]] [[लाला लजपत राय्]] च तिलकमहोदयस्य अनुमोदनं कृतवन्तौ । क्रि.श. १९०७तमे वर्षे सम्भूते सूरत् अधिवेशने काङ्ग्रेस्-पक्षः तिलकस्य नेतृत्वे घर्मदलः इति गोखलेवर्यस्य नेतृत्ते मृदुदलः इति द्विधा विभक्तः । राजद्रोहस्य आक्षेपात् क्रि.श.१९०६तमे वर्षे तिलकस्य बन्धनम् अभवत् । तदा स्वपक्षे न्यायवादं करोतु इति युवानं न्यायवादिनं [[मोहम्मद् अलि जिन्ना]] इत्येतं प्रार्थितवान् । किन्तु ब्रिटिश् न्यायाधीशः एषः अपराधी इति उद्घुष्टवान् । अतः सः क्रि.श.१९०८तः१९१४तमवर्षपर्यन्तं बर्मादेशस्य ([[ब्रह्मदेशः]]) मडालेमंडाले कारावासम् अनुभूतवान् <ref>{{cite book | title=Encyclopedia of Asian History. "Tilak, Bal Gangadhar" | publisher=New York: Charles Scribner's Sons and Macmillian Publishing Company | year=1988 | pages=98}}</ref>। विमोचनानन्तरं स्वस्य सहचरराष्ट्रवादिभिः सह तिलकमहोदयः क्रि.श.१९१६तमे वर्षे काङ्ग्रेस्-पक्षस्य सङ्घाटनं संवर्ध्य अखिलभारतस्य हों रूल् लीग् इति सङ्घटनस्य रचानायाम् अनिबेसण्ट् मोहम्मद् अलि जिन्ना एतयोः सहाय्यं समाचरत् ।
 
==सामाजिकयोगदानानि==
बालगङ्गाधर तिलकमहोदयः मूलतः अद्वैतवेदान्तस्य प्रतिपादकः। अद्वैतसिद्धान्तस्य ज्ञानादेव तु कैवल्यम् इति वचने तस्य विश्वसः नासीत् । अतः तत्स्मानं पूरकं च कर्मयोगं तत्र योजितवान् । विवाहस्य वयसः कनिष्ठमानः इत्यादीनि सामाजिकपरिवर्तनानि आनीतवान् । मद्यपाननिषेधस्य विषये तस्य अतीव प्रमतिः आसीत् । शिक्षायाः राजकीयस्य च जीवनविषये अस्य चिन्तनानि प्रभवायुतानि आसन् । देवनागरीलिपिम् उपयुज्य लिख्यमाना [[हिन्दिभाषा]] राष्ट्रभाषा भवेत् इति प्रथमतया उक्तवान् तिलकः एव । अग्रे महात्मा गान्धिः अपि एतं विषयं गाढम् अनुमोदितवान् । किन्तु यां भाषां तिलकमहोदयः भारतात् एव अपनेतुम् इष्टवान् सा [[आङ्ग्लभाषा]] अधुना अपि प्रधानसंवहनभाषात्वेन राजते । तथापि हिन्दी चान्यभाषाः ब्रिटिष् कालात् अद्यपर्यन्तमपि प्रादेशिकत्वेन भाष्यमाणाः सन्ति । अस्मिन् अपि तिलकमहोदयस्य योगदानम् अस्ति एव । तिलकमहोदयस्य अतिमहत् योगदानं नाम सार्वजनिकः [[गणेशोत्सवः]] । भाद्रपदमासस्य शुक्लपक्षस्य चतुर्दशीतः आरभ्य अनन्तचतुर्दशी पर्यन्तं द्वादशदिनानि अयं सार्वजनिकगणेशोत्सवः सर्वैः मिलित्वा आचर्यते । स्वायत्तं धार्मिकाचरणं सङ्घटनस्य व्याजेन सार्वजनिकोत्सवत्वेन परिवर्तितवान् । एतम् उत्सवम् अवलम्ब्य एव जननायकाः जनसम्पर्कम् अकुर्वन् । तिलकमहोदयेन आरब्धा इयम् उत्सवपरम्परा इदानीमपि विशेषतः [[महाराष्ट्रराज्यम्|महाराष्ट्रराज्ये]] अस्ति । तिलकमहोदयः परदेशीयवस्तूनि तिरस्कृत्य स्वदेशीयवस्तूनि उपयोक्तुं जनजागरणं कृतवान् । तदानीम् एतत् स्वदेशीयान्दोलनं विशेषरूपेण जनेषु देशभक्तिं समवर्धयत् <ref>{{cite book | title=The Making of India: A Historical Survey | publisher=Armonk: M.E. Sharpe, Inc | author=Ranbir Vohra | year=१९९७ | pages=१२०}}</ref>।
"https://sa.wikipedia.org/wiki/बाल_गङ्गाधर_तिलक" इत्यस्माद् प्रतिप्राप्तम्