"होलीपर्व" इत्यस्य संस्करणे भेदः

Reverted to revision 267139 by Shubha: to save complete content.
No edit summary
पङ्क्तिः ३:
[[चित्रम्:A Holi Festival - Krishna Radha and Gopis.jpg|thumb|150px|right|'''भगवान् श्रीकृष्णस्य गोपिकाभिः सह होलीक्रीडा''']]
 
होलिकानामिका [[हिरण्याक्षः|हिरण्याक्ष]]-[[हिरण्यकशिपुः|हिरण्यकशिपो:]] सोदरी । महामायाविनी सा [[अग्निः|अग्निसिद्धिम्]] अपि प्राप्तवती आसीत् । यद्यपि दैत्यराज: हिरण्यकशिपु: परम[[विष्णुः|विष्णुभक्तं]] स्वपुत्रं [[प्रह्लादः|प्रह्लादं]] मारयितुं बहुविधप्रयत्नानि अकरोत् तथापि स: सफल: नाभवत् । तस्मात् कुपित: हिरण्यकशिपु: सोदरीं होलिकाम् आदिशति प्रह्लादं मारयतु कथञ्चित् इति । तदा होलिका प्रह्लादं गृहीत्वा महाकाष्ठराशौ उपविशति । राक्षसान् च अग्निं ज्वालयितुं सूचयति । तेषां चिन्तनम् आसीत् होलिका अग्निसिद्धिं प्राप्तवती अस्ति, तस्या: किमपि न भवति । प्रह्लादम् अग्नि: दहति इति । अत: राक्षसा: होलिकाया: उपरि अपि काष्ठानि संस्थाप्य अग्निं ज्वालितवन्त: । किन्तु परिणाम: तु व्यतिरिक्त: जात: । होलिका तदग्नौ दग्धा सती तत्रैव मरणं पाप्नोत्प्राप्नोत् । भगवद्भक्त: प्रह्लाद: भस्मराशित: बहिरागत्य सन्तोषेण नृत्यम् आरभत । अस्य दिनस्य स्मरणार्थं राक्षसत्वनाशाय सत्पुरुषरक्षणाय च होलीपर्व आचर्यते ।
[[चित्रम्:Holi bonfire.jpg|left|200px|thumb|'''कामदहनम्''']]
[[सत्ययुगम्|सत्ययुगे]] ढुण्ढानामिका मालिनामकस्य राक्षसराजस्य पुत्री आसीत् । सा कठोरं तप: आचर्य युवै: वा वृद्धै: वा मनुष्यै:, देवै: केनापि प्राणिना च मम मरणं न भवेत् इति वरं प्राप्तवती । बाला: किं कर्तुं शक्नुयु: इति तेषाम् उपेक्षां कृतवती । सा पृथु अथवा रघु इत्याख्यातस्य राज्ञ: काले अहर्निशं सञ्चरन्ती बालान् सर्वान् मारयति स्म । मायाविनीं तां राक्षसीं गृहीतुं केऽपि न शक्तवन्त: । [[वसिष्ठः|वसिष्ठ]]महर्षिद्वारा तस्या: रहस्यं ज्ञातवान् राजा तस्या: ग्रहणकार्ये बालान् एव नियुक्तवान् । फाल्गुनमासस्य पूर्णिमायां देशस्य सर्वे बाला: सम्भूय काष्ठकारीषेषु अग्निं प्रज्वाल्य नृत्यन्त: चीत्कुर्वन्त: तस्या: ग्रहणार्थं धावितवन्त: । भीता सा मनुष्यलोकादेव निर्गता । एतस्य स्मरणार्थम् होलीपर्व आचर्यते ।
"https://sa.wikipedia.org/wiki/होलीपर्व" इत्यस्माद् प्रतिप्राप्तम्