"विनायक दामोदर सावरकर" इत्यस्य संस्करणे भेदः

No edit summary
पङ्क्तिः १२३:
सावरकरः जन्मतः कविः । कारागारे मनः क्लेशम् अनुभवन्नपि सः तूष्णीं न उपविष्टवान् । अत्यन्तस्फूर्तिप्रदानां रचनानां निर्माणे मनः लग्नं कृतवान् । शरीरं तु बध्दमासीत्, मनः, बुध्दिः, प्रज्ञा, कल्पनाशक्तिः च तस्य स्वतन्त्राः एव आसन् । शङ्कुसहायेन कारागारभित्तिषु काव्यरचनां करोति स्म सः । लिखितानि पद्यानि कण्ठस्थानि करोति स्म। तानि यदा बुध्दौ स्थिराणि भवन्ति स्म तदा अन्यान् अंशान् लिखति स्म । एवं सः अण्डमान्कारागरे एव ’कमलगोमन्तक’, ’महासागर’ इत्यादीनि अनेकानि काव्यानि रचितवान् । भूमेः सुगन्धस्य प्रसारकाणि काव्यानि अनेकानि भवन्तु नाम, अण्डमानकारागारभित्तिशिलानां सुगन्धस्य प्रसारकाणि वीरसावरकरस्य काव्यानि तु अपूर्वाण्येव ।
 
==[[रत्नगिरिमण्डलम्|रत्नगिरौ]] निर्बन्धः==
अण्डमान् परिसरप्रभावेण, कारागारे दीयमानेन निकृष्टेन अन्नेन च सावरकरस्य स्वास्थ्यम् अत्यन्तं क्षीणम् । ईशवीये १९१९ तमे वर्षे अनुजः नारायणरावः, पत्नी यमुना च सावरकरं द्रष्टुम् अण्डमान् आगतवन्तौ । तयोः आगमनेनैव अग्रजस्य बाबूरावस्य पत्नी दिवाङ्गता इति शोकवार्ता अपि आगता । पत्नी मृता इति वार्तां बाबूरावः आपि तदैव ज्ञातवान् । कांश्चन क्षणान् एव मेलितुं लब्धः उत्तमः अवकाशः आनन्दम्, अनुनयञ्च तेषां न अदात्, किन्तु आवेदनां, दुःखमेव अवर्धयत् ।
सावरकरस्य अस्वास्थ्यं श्रुत्वा भारतप्रजासमूहेन मनोविकलता प्राप्ता । तं विमुक्तं कर्तुं देशस्य चतसृभ्यः दिग्भ्यः सर्वकारस्य पीडनम् अभवत् । अन्ततः सर्वकारः अङ्गीकृतवान् । फलतः ईशवीये१९२१तमे वर्षे अण्डमानतः सोदरद्वयं भारतदेशम् आनीतवान् । किञ्चित्कालं कोलकात्ताकारागारे स्थापयित्वा ईशवीये १९२२तमे वर्षे उभयो: अपि मोचनं कृतं सर्वकारेण । किन्तु वीरसावरकरस्य रत्नगीरिजनपदतः बहिः गमनं निषिध्दम् । राजतन्त्रकार्येषु भागः न वहनीयः इत्यादिष्टम् । वीरसावरकरः ईशवीय १९२४वर्षतः १९३७वर्षपर्यन्तं रत्नगिरिजनपदे स्वगृहे एव स्थितवान् ।
"https://sa.wikipedia.org/wiki/विनायक_दामोदर_सावरकर" इत्यस्माद् प्रतिप्राप्तम्