"अजिण्ठा-वेरूळ" इत्यस्य संस्करणे भेदः

No edit summary
No edit summary
पङ्क्तिः ३:
[[चित्रम्:Leni2.jpg|thumb|right|200px|लयनेषु किञ्चन भित्तिचित्रम्]]
 
* [[औरङ्गाबाद]] नगरात् ९९ कि.मी. दूरं सह्यावल्याम् अजिण्ठा ग्राम: अस्ति । आङ्ग्लजनानां कारणेन स्थलमिदम् [[अजन्ता]]-[[एल्लोरा]] इत्यनेन नाम्नाऽपि प्रसिद्धम् । अत्रस्था: ३० गह्वराणां तक्षणं कृत्वा बौद्धभिक्षुजनानां निवास-अध्ययनस्थानानि इत्युक्ते चैत्या: निर्मिता: सन्ति । गह्वरेषु भित्तिकानाम् उपरि चित्राणि आरेखितानि सन्ति । बहव: तक्षीकृत्य-निर्मितानि सुन्दराणि लयनानि सन्ति । जैन-बौद्ध-हिन्दु-चित्रगृहा:, मन्दिराणि च सन्त्यत्र । ख्रिस्ताब्दस्य ५ शतकात् आरभ्य ८ शताब्दिपर्यन्तम् एतेषां लयनानां निर्माणम् अभवत् इति इतिहासकाराणाम् अभिप्राय: ।
* वेरूळ इति ग्राम: औरङ्गाबादनगरात् ३० कि.मी. यावत् दूरम् अस्ति । ३४ लयनानां समूह: अस्ति । तस्मिन् १२ बौद्धलयनानि, १७ हिन्दुलयनानि,५ जैनलयनानि च सन्ति । ख्रिस्ताब्दस्य ५ शतकात् आरभ्य ८ शताब्दिपर्यन्तम् एतेषां लयनानां निर्माणम् अभवत् । प्रसिद्धं कैलास-मन्दिरम् अस्यैव षोडषलयने अन्तर्भवति ।
एतेषां लयनानां वैशिष्ट्यं यत् एतानि अखण्डशिलासु निर्मितानि सन्ति । पुरातनकाले साधनानां न्यूनता तु आसीदेव तथापि पाषाणशिल्पिभि: महता कौशलेन कृतानि लयनानि सन्ति । अत: बहव: पर्यटका: आकर्षिता: भवन्ति ।
"https://sa.wikipedia.org/wiki/अजिण्ठा-वेरूळ" इत्यस्माद् प्रतिप्राप्तम्