"वैश्विकस्थितिसूचकपद्धतिः" इत्यस्य संस्करणे भेदः

(edited with ProveIt)
पङ्क्तिः १:
'''वैश्विकस्थितिसूचकपद्धतिः''' (Global Positioning System (GPS)) इत्येषा जागतिकस्थाननिर्णयोपेता दिक्सूचीव्यवस्था विद्यते । कृतकोपग्रहैः प्राप्यमाणां सूचनाम् उपयुज्य प्रतिग्राहियन्त्राणि स्वीयं स्थानं वेगं दिशां च निश्चिन्वन्ति । सर्वेषु अपि ऋतुषु भूमौ भूमेः समीपे वा यत्र चतुर्णां तदधिकानां वैश्विकस्थितिसूचकोपग्रहाणाम् अनवरुद्धपरिधौ विद्यते चेत् तत्रत्यं स्थानं समयञ्च निर्दुष्टं ज्ञापयति इयं व्यवस्था ।<ref>{{cite web | url=http://www.loc.gov/rr/scitech/mysteries/global.html | title=जि पि एस् इति किम् ? | accessdate=3 अप्रैल 2014}}</ref> इयं व्यवस्था आप्रपञ्चे सेनायाः, नागरिकाणां वाणिज्योद्यमीनाञ्च सामर्थ्यम् अवर्धयत । इयं व्यवस्था अमेरिकादेशस्य प्रशासनेन निरूह्यते । वैश्विकस्थितिसूचकपद्धतेः प्रतिग्राहियन्त्रयुतेन केनापि इयं व्यवस्था निश्शुल्कं प्राप्तुं शक्या ।
 
[[चित्रम्:ConstellationGPS.gif|thumb|150px|frame|भ्रमन्तीं भूमिं परितः २४ वैश्विकस्थितिसूचकोपग्रहाणां सञ्चारः]]
"https://sa.wikipedia.org/wiki/वैश्विकस्थितिसूचकपद्धतिः" इत्यस्माद् प्रतिप्राप्तम्