"चन्द्रशेखर आजाद" इत्यस्य संस्करणे भेदः

No edit summary
No edit summary
पङ्क्तिः १६:
एकदा आङ्ग्लशासनविरुद्धं भित्तिपत्रस्थापनं सर्वत्र प्राचलत् । स्वातन्त्र्यान्दोलने प्रविष्टाः सर्वे सदस्याः अन्यान्यस्थानेषु भित्तिपत्रस्थापने व्यापृता । चतुरः आजादस्तु आरक्षकस्थानेऽपि तत्स्थापयितुम् ऐच्छत् । एकं भित्तिपत्रं स्वीकृत्य उभयतः निर्यासलेपं कृत्वा पृष्ठे धृत्वा आरक्षकस्थानमगच्छत् । तत्र स्तम्भसमीपे स्थित्वा केनचिदारक्षकपुरुषेण कुशलवार्तालापं कुर्वन्नेव तदविदितं, स्तम्भे पृष्ठं निपीडय भित्तिपत्रं तत्र लग्नमकरोत् । ततः संलापां परिसमापितवान् इव आरक्षकम् आमन्त्र्य क्वापि अगच्छत् । पथिकजनाः आरक्षकस्थानेऽपि भित्तिपत्रं पश्यन्तः विस्मिताः अभवन् ।
==भारतीयगणराज्यसेनाप्रवेशः==
आजादः षोडशे वयसि [[रामप्रसाद बिस्मिल|रामप्रसादबिस्मिल्लेन]] आयोजितां [[गणराज्योत्सवः|भारतीयगणराज्यसेनाम्]] आविशत् । तस्यां सेनायां क्रान्तिकारिषु आन्दोलनेषु निपुणं शिक्षितोऽभवत् । एकदा गणराज्यसेनासदस्याः सर्वे सेनाकार्यार्थं धनं सङ्ग्रहीतुकामाः सर्वाकारीयवित्त्वकोशमेव अपहर्तुं प्रवृत्ताः । तत्प्रसङ्गे च ते सर्वे सैनिकाः दुर्दैववशात् आरक्षकैः गृहीता अभवन् । नायकः बिस्मिल्लोऽपि आरक्षकहस्तगतः अभवत् । आजादस्तु आरक्षकमध्ये एव सञ्चरन्नासीत् । बिस्मिल्ले मरणदण्डेन मृते सति आजाद एव सेनानायकोऽभवत् । भगतसिंहनामकः अन्योपि वीरः क्रान्तिकारी तरुणः तस्य सहायोऽभूत ।
तस्मिन् काले आङ्ग्लशासनं 'साइमन्’ नामक्स्य आध्यक्ष्ये एकां समितिमरचयत् । तस्याः समितेः उद्देशस्तु साधुपरिवर्तनव्याजेन स्वातन्त्र्यान्दोलने शैथिल्योत्पादनमेव आसीत् । अतः तस्य बहिष्करणाय लालालजपतरायप्रभृतयः प्रवृत्ताः । तदा ललालजपतरायः आरक्षकैः निर्दयं ताडितः सन् अचिरेण मृतवान् । तस्य प्रतीकारं विधातुम् आजादसेना 'साण्डर्स’नामानम् आरक्षकाधिपं व्यापादयत् । ततः प्रभृति आजादं ग्रहीतुम् आरक्षकाः सर्वप्रकरेण प्रयत्नम् अकुर्वन् ।
==प्राणार्पणम्==
"https://sa.wikipedia.org/wiki/चन्द्रशेखर_आजाद" इत्यस्माद् प्रतिप्राप्तम्