"चन्द्रशेखर आजाद" इत्यस्य संस्करणे भेदः

No edit summary
No edit summary
पङ्क्तिः १९:
तस्मिन् काले आङ्ग्लशासनं 'साइमन्’ नामक्स्य आध्यक्ष्ये एकां समितिमरचयत् । तस्याः समितेः उद्देशस्तु साधुपरिवर्तनव्याजेन स्वातन्त्र्यान्दोलने शैथिल्योत्पादनमेव आसीत् । अतः तस्य बहिष्करणाय लालालजपतरायप्रभृतयः प्रवृत्ताः । तदा ललालजपतरायः आरक्षकैः निर्दयं ताडितः सन् अचिरेण मृतवान् । तस्य प्रतीकारं विधातुम् आजादसेना 'साण्डर्स’नामानम् आरक्षकाधिपं व्यापादयत् । ततः प्रभृति आजादं ग्रहीतुम् आरक्षकाः सर्वप्रकरेण प्रयत्नम् अकुर्वन् ।
==प्राणार्पणम्==
वञ्चकाः केचन गुप्तवेषाछ्छन्नः सन्तः आजादसेनां प्रविश्य सर्वं रह्स्यम् आरक्षकेभ्यः आवेदयन् । एकदा आजादः [[इलाहाबाद|अलहाबाद्-नगरे]] आल्फेड्-उद्याने कुत्रचित् मित्रेण साकं सम्भाषमाण आसीत् । तदा वीरभद्रतिवारिनाम्ना वञ्चकेन बोधिताः आरक्षकाः झटित्येव तं परिवार्यं ग्रहीतुं प्रवृत्ताः । अशीतिसंख्याकानां तेषां मध्ये एकाकी आजादः चक्रव्यूहप्रविष्टः अभिमन्युः इव शौर्येण अन्युध्यत । समाप्तप्रायासु गोलिकासु अन्तिमया एकया सः आत्मानं मारयित्वा भारतमातरं निजरुधिरेण अभ्यषिञ्चत, स्वीयम् 'आजाद्’ नाम च सार्थकम् अकरोत् ।
 
{{भारतस्य स्वातन्त्र्यसङ्ग्रामः}}
"https://sa.wikipedia.org/wiki/चन्द्रशेखर_आजाद" इत्यस्माद् प्रतिप्राप्तम्